२२

नारद उवाच ।
पुलस्त्य कथ्यतां तावद् देव्या भूयः समुद्भवः ।
महत्कौतूहलं मे ऽद्य विस्तराद् ब्रह्मवित्तम ॥ २२।१ ॥
पुलस्त्य उवाच ।
श्रूयतां कथयिष्यामि भूयो ऽस्याः सम्भवं मुने ।
शुम्भासुरवधार्थाय लोकानां हितकाम्यया ॥ २२।२ ॥
या सा हिमवतः पुत्री भवेनोढा तपोधना ।
उमा नाम्ना च तस्याः सा कोशाञ्जाता तुकौशिकी ॥ २२।३ ॥
सम्भीय विन्ध्यं गत्वा च भृयो भूतगणैर्वृता ।
शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः ॥ २२।४ ॥
नारद उवाच ।
ब्रह्मंस्त्वया समाख्याता मृता दक्षत्मजा सती ।
सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥ २२।५ ॥
यथा च पार्वतीकोशात् समुद्धभूता हि कौशिकी ।
यथा हतवती शुम्भं निसुम्भं च महासुरम् ॥ २२।६ ॥
कस्य चेमौ सुतौ वीरौ ख्यातौ शुम्भनिशुम्भकौ ।
एतद् विस्तरतः सर्वं यथावद् वक्तुमर्हसि ॥ २२।७ ॥
पुलस्त्य उवाच ।
एतत्ते कथयिष्यामि पार्वत्याः सम्भवं मुने ।
शृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम् ॥ २२।८ ॥
रुद्रः सत्यां प्रणष्टायां ब्रह्मचारिव्रते स्तितः ।
निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः ॥ २२।९ ॥
स चासीद् देवसेनानीर्दैत्यदर्फविनाशनः ॥ २२।१० ॥
ततो निराकृता देवाः सेनानाथेन शम्भुना ।
दानवेन्द्रेण विक्रम्य महिषेण पराजिताः ॥ २२।११ ॥
ततो जग्मुः मुरेशानं द्रष्टुं चक्रगदाधरम् ।
श्वेत्दवीपे महाहंसं प्रपन्नाः शरणं हरिम् ॥ २२।१२ ॥
तानागतान् सुरान् दृष्ट्वा ततः शक्रपुरोगमान् ।
विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः ॥ २२।१३ ॥
किं जितास्त्वसुरेन्द्रेण महिषेण दुरात्मना ।
येन सर्वे समेत्यैवं मम पार्श्वमुपागताः ॥ २२।१४ ॥
तद् युष्माकं हितार्थाय यद् वदामि सुरोत्तमाः ।
तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः ॥ २२।१५ ॥
य एते पितरो दिव्यास्त्वग्निष्वात्तेति विश्रुताः ।
अमीषां मानसी कन्या मेना नाम्नास्ति देवताः ॥ २२।१६ ॥
तामाराध्य महातिथ्यां श्रद्धया परयामराः ।
प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः ॥ २२।१७ ॥
तस्यां सा रूपसंयुक्ता भविष्यति तपस्विनी ।
दक्षकोपाद् यया मुक्तं मलवज्जीवितं प्रियम् ॥ २२।१८ ॥
सा शङ्करात् स्वतेजोंऽशं जनयिष्यति यं सुतम् ।
स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम् ॥ २२।१९ ॥
तस्माद् गच्छत पुण्यं तत् कुरुक्षेत्रं महाफलम् ।
तत्र पृथूदके तीर्थे पूज्यन्तां पितरो ऽव्ययः ॥ २२।२० ॥
महातिथ्यां महापुण्ये यदि शत्रुपराभवम् ।
जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति ॥ २२।२१ ॥
पुलस्त्य उवाच ।
इत्युक्त्वा वासुदेवेन देवाः शक्रपुरोगमाः ।
कृताञ्जलिपुटा भूत्वा पप्रच्छुः परम्श्वरम् ॥ २२।२२ ॥
देवा ऊचुः ।
को ऽयं कुरुक्षेत्र इति यत्र पुण्यं पृथूदकम् ।
उद्भवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः ॥ २२।२३ ॥
केयं प्रोक्ता महापुण्या तिथीनामुत्तमा तिथिः ।
यस्यां हि पितरो दिव्याः पूज्यास्माभिः प्रयन्ततः ॥ २२।२४ ॥
ततः सुराणां वचनान्मुरारिः कैटभार्दनः ।
कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि ॥ २२।२५ ॥
श्रीभगवानुवाच ।
सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः ।
कृस्यादौ समभवदृक्षात् संवरणो ऽवत् ॥ २२।२६ ॥
स च पित्रा निजे राज्ये बाल एवाभिषेचितः ।
बाल्ये ऽपि धर्मनिरतो मद्भक्तश्च सदाभवत् ॥ २२।२७ ॥
पुरोहितस्तु तस्यासीद् वसिष्ठो वरुणात्मजः ।
स चास्याध्यापयामास साङ्गान् वेदानुदारधीः ॥ २२।२८ ॥
ततो जगाम चारण्यं त्वनध्याये नृपात्मजः ।
सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम् ॥ २२।२९ ॥
ततो मृगयाव्याक्षेपाद् एकाकी विजनं वनम् ।
वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात् ॥ २२।३० ॥
ततस्तु कौतुकाविष्टः सर्वतुकुसुमे वने ।
अवितृपतः सुगन्धस्य समन्ताद् व्यचरद् वनम् ॥ २२।३१ ॥
स वनन्तं च ददृशे फुल्लकोकनदावृतम् ।
कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि ॥ २२।३२ ॥
तत्र क्रीडन्ति सततमप्सरो ऽमरकन्यकाः ।
तासां मध्ये ददर्शाथ कन्यां संवरणो ऽधिकाम् ॥ २२।३३ ॥
दर्शनादेव स नृपः काममार्गणपीडितः ।
जातः सा च तमीक्ष्यैव कामबाणातुराभवत् ॥ २२।३४ ॥
उभौ तौ पीडितौ मोहं जग्मतुः काममार्गणैः ।
राजा चलासनो भूम्यां निपपात तुरङ्गमात् ॥ २२।३५ ॥
तमभ्येत्य महात्मानो गन्धर्वाः कामरूपिणः ।
सिषिचुर्वारिणाभ्येत्य लब्धसञ्ज्ञो ऽभवत् क्षणात् ॥ २२।३६ ॥
सा चाप्सरोभिरुत्पात्य नीता पितृकुलं निजम् ।
ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः ॥ २२।३७ ॥
स चाप्यरुह्य तुरगं प्रतिष्ठानं पुरोत्तमम् ।
गतस्तु मेरुशिखरं कामचारी यथामरः ॥ २२।३८ ॥
यदाप्रभृति सा दृष्टा आर्क्षिणा तपती गिरौ ।
तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि ॥ २२।३९ ॥
ततः सर्वविदव्यग्रोविदित्वा वरुणात्मजः ।
तपतीतापितं वीरं पार्थिवं तपसां निधिः ॥ २२।४० ॥
समुत्पत्य महायोगी गगनं रविमण्डलम् ।
विवेश देवं तिग्मांशु ददर्श स्यन्दने स्थितम् ॥ २२।४१ ॥
तं दृष्ट्वा भास्करं देवं प्रणमद् द्विजसत्तमः ।
प्रतिप्रणमितश्चासौ भास्करेणाविशद् रथे ॥ २२।४२ ॥
ज्वलज्जटाकलापो ऽसौ दिवाकरसमीपगः ।
शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः ॥ २२।४३ ॥
ततः सम्पूजितोर्ऽघार्भास्करेण तपोधनः ।
पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम् ॥ २२।४४ ॥
समायातो ऽस्मि देवेश याचितुं त्वां महाद्युते ।
सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि ॥ २२।४५ ॥
ततो वसिष्ठाय दिवाकरेण निवेदिता सा तपती तनूजा ।
गृहागताय द्विजपुङ्गवाय राज्ञोर्ऽथतः संवरणस्य देवाः ॥ २२।४६ ॥
सावित्रिमादाय ततो वसिष्ठः स्वमाश्रमं पुण्यमुपाजगाम ।
सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी ॥ २२।४७ ॥
तपत्युवाच ।
ब्रह्मन् मया खेदमुपेत्य यो हि सहाप्सरोभिः परिचारिकाभिः ।
दृष्टो ह्यरण्ये ऽमरगर्भतुल्यो नृपात्मजो लक्षणतो ऽभिजाने ॥ २२।४८ ॥
पादौ शुभौ चक्रगदासिचिह्नौ जङ्घे तथोरू करिहस्ततुल्यौ ।
कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम् ॥ २२।४९ ॥
ग्रीवास्य शङ्खाकृतिमादधाति भुजौ च पीनौ कठनौसुदीर्घौ ।
हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति ॥ २२।५० ॥
नीलाश्च केशाः कुटिलाश्च तस्य कर्णौ समांसौ सुसमा च नासा ।
दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पद्भ्यां कराभ्यां दशनाश्च सुभ्राः ॥ २२।५१ ॥
समुन्नतः षड्भिरुदारवीर्यस्त्रिभिर्गभीरस्त्रिपु च प्रलम्बः ।
रक्तस्तथा पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतो ऽपि ॥ २२।५२ ॥
द्वाभ्यां च शुक्लः सुराभिश्चतुर्भिः दृश्यन्ति पद्मानि दशैव चास्य ।
वृतः स भर्ता भगवान् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य ॥ २२।५३ ॥
ददस्व मां नाथ तपस्विने ऽस्मै गुणोपपन्नाय समीहिताय ।
नेहान्यकामां प्रवदन्ति सन्तो दातुं तथान्यस्य विभो क्षमस्व ॥ २२।५४ ॥
देवदेव उवाच ।
इत्येवमुक्तः सवितुश्च पुत्र्या ऋषिस्तदा ध्यानपरो बभूव ।
ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद ॥ २२।५५ ॥
स एव पुत्रि नृपतेस्तनूजो दृष्टः पुरा कामयसे यमद्य ।
स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना ॥ २२।५६ ॥
अथाजगाम स नृपस्य पुत्रस्तमाश्रमं ब्राह्मणपुङ्कवस्य ।
दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत् तपतीं नरेन्द्रः ॥ २२।५७ ॥
दृष्ट्वा च तां पद्मविशालनेत्रां तां पूर्वदृष्टामिति चिन्तयित्वा ।
पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम् ॥ २२।५८ ॥
इयं विवस्वद्दुहिता नरेन्द्र नाम्ना प्रसिद्धा तपती पृथिव्याम् ।
मया तवार्थाय दिवाकरो ऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये ॥ २२।५९ ॥
तस्मात् मसुत्तिष्छ नरेन्द्र देव्याः पाणिं तपत्या विधिवद् गृहाण ।
इत्येवमुक्तो नृपतिः प्रहृष्टो जग्राह पाणिं विधिवत् तपत्याः ॥ २२।६० ॥
सा तं पतिं प्राप्य मनो ऽभिरामं सूर्यामजा शक्रसमाप्रभावम् ।
रराम तन्वी भवनोत्तमेषु यता महैन्द्रं दिवि दैत्यकन्या ॥ २२।६१ ॥