नारद उवाच ।
कथं कात्यायनी देवी सानगं महिषासुरम् ।
सवाहनं हतवती तथा विस्तरतो वाद ॥ २१।१ ॥
एतच्च संशयं ब्रह्मन् हृदि मे परिवर्तते ।
विद्यामानेषु शस्त्रेषु यत्पद्भ्यां तममर्दयत् ॥ २१।२ ॥
पुलस्त्य उवाच ।
शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।
वृत्तां देवयुगस्यादौ पुण्यां पापभयापहाम् ॥ २१।३ ॥
एवं स नमरः क्रुद्धः समापतत वेगवान् ।
सगजाश्वरथो ब्रह्मन् दृष्टो देव्या यथेच्छया ॥ २१।४ ॥
ततो बाणगणैर्दैत्यः समानम्याथ कार्मुकम् ।
ववर्ष शैलं धारौघैर्द्यैरिवाम्बुदवृष्टिभिः ॥ २१।५ ॥
शरवर्षेण तेनाथ विलोक्याद्रिं समावृतम् ।
क्रुद्धा भगवती वेगादाचकर्ष धनुर्वरम् ॥ २१।६ ॥
तद्धनुर्दानवे सैन्ये दुर्गया नामितं बलान् ।
सुवर्णपृष्ठं विबभौ विद्युदम्बुधरेष्विव ॥ २१।७ ॥
बाणैः सुररिपूनन्यान् खड्गेनान्यान् शुभव्रत ।
गदया मुसलेनान्यांश्चर्मणान्यानपातयत् ॥ २१।८ ॥
एको ऽप्यसौ बहून् देव्याः केसरी कालसन्निभः ।
विधुन्वन् केसरसटां निषूदयति दानवान् ॥ २१।९ ॥
कुलिशाभिहता दैत्याः शक्त्या निर्भिन्नवक्षसः ।
लाङ्गलैर्दारितग्रीवा विनिकृत्ताः परश्वधैः ॥ २१।१० ॥
दण्डनिर्भिन्न्नशिरसश्चक्रविच्छिन्नबन्धनाः ।
चेलुः पेतुश्च मम्लुश् च तत्यजुश्चापरे रणम् ॥ २१।११ ॥
ते वध्यमाना रौद्रय दुर्गया दैत्यदानवाः ।
कालरात्रिं मन्यमाना दुद्रुवुर्भयपीडिताः ॥ २१।१२ ॥
सैन्याग्रं भग्नमालोक्य दुर्गामग्रे तथा स्थिताम् ।
दृष्ट्वाजगाम नमरो मत्तकुञ्जरसंस्थितः ॥ २१।१३ ॥
समागम्य च वेगेन देव्याः शक्तिं मुमोच ह ।
त्रिशुलमपि सिंहाय प्राहिणोद् दानवो रणे ॥ २१।१४ ॥
तावापतन्तौ देव्या तु हुङ्कारेणाथ भस्मसात् ।
कृतावथ गजेन्द्रेण गृहीतो मध्यतो हरिः ॥ २१।१५ ॥
अथोत्पत्य च वेगेन तलेनाह्तय दानवम् ।
गतासुः सुञ्जरस्कन्धात् क्षिप्य दैव्यै निवेदितः ॥ २१।१६ ॥
गृहीत्वा दानवं मध्ये ब्रह्मन् कात्यायनी रुषा ।
सव्येन पाणिना भ्राम्य वादयत् पहं यथा ॥ २१।१७ ॥
ततो ऽट्टहासं मुमुचे तादृशे वाद्यतां गते ।
हास्यात् समुद्भवंस्तस्या भूता नानाविधाद्भुताः ॥ २१।१८ ॥
केचिद् व्याघ्रमुखा रौद्रा वृकाकारास्तथा परे ।
हयास्या महिषास्याश्च वराहवदनाः परे ॥ २१।१९ ॥
आखुकुक्कुटवक्त्राश्च गो ऽजाविकमुखास्तथा ।
नानावक्त्राक्षिचरणा नानायुधधरास्तथा ॥ २१।२० ॥
गायन्त्यन्ये हसन्त्यन्ये पमन्त्यन्ये तु सङ्घशः ।
वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम् ॥ २१।२१ ॥
सा तैर्भूतगणैर्देवी सार्द्ध तद्दानवं बलम् ।
शातयामास चाक्रम्य यथा सस्यं महाशनिः ॥ २१।२२ ॥
सेनाग्रे निहते तस्मिन् तथा सेनाग्रगामिनि ।
चिक्षुरः सैन्यपालस्तु योधयामास देवताः ॥ २१।२३ ॥
कार्मुकं दृढमाकर्णमाकृष्य रथिनां वरः ।
ववर्ष शरजालानि यथा मेघो वसुन्धराम् ॥ २१।२४ ॥
तान् दुर्गा स्वशरैश्छित्त्वा शरसङ्घान् सुपर्वभिः ।
सौवर्णपुङ्खानपराञ्शरान् जग्राह षोडश ॥ २१।२५ ॥
ततश्चतुर्भिश्चतुरस्तुरङ्गनपि भामिनी ।
हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे ॥ २१।२६ ॥
ततस्तु सशरं चापं चिच्छेदैकेषुणाम्बिका ।
छिन्ने धनुषु खङ्गं च चर्म चादत्तवान् बली ॥ २१।२७ ॥
तं खङ्ग चर्मणा सार्ध दैत्यस्याधुन्वतो बलात् ।
शरैश्चतुर्भिश्चिच्छेद ततः शूलं समाददे ॥ २१।२८ ॥
समुद्भ्राम्य महच्छूलं सम्प्राद्रवदथाम्बिकाम् ।
क्रोष्टुको मुदितो ऽरण्ये मृगराजवधूं यथा ॥ २१।२९ ॥
तस्याभिपततः पादौ करौ शीर्ष च पञ्चभिः ।
शरैश्चिच्छद सङ्क्रुद्धा न्यपतिन्निहतो ऽसुरः ॥ २१।३० ॥
तस्मिन् सेनापतौ क्षुण्णे तदोग्रास्यो महासुरः ।
समाद्रवत वेगेन करालास्यश्च दानवः ॥ २१।३१ ॥
बाष्कलश्चोद्धतश्चैव उदग्राख्योग्रकार्मुकः ।
दुर्द्धरो दुर्मुखश्चैव बिडालनयनो ऽपरः ॥ २१।३२ ॥
एते ऽन्ये च महात्मानो दानवा बलिनां वराः ।
कात्यायनीमाद्रवन्त नानाशस्त्रास्त्रपाणयः ॥ २१।३३ ॥
तान् दृष्ट्वा लीलया दुर्गा वीणां जग्राह पाणिना ।
वादयामास हसती तथा डमरुकं वरम् ॥ २१।३४ ॥
यथा यथा वादयते देवी वाद्यानि तानि तु ।
तथा तथा भूतगणा नृत्यन्ति च हस्न्ति च ॥ २१।३५ ॥
ततो ऽसुराः शस्त्रधराः समभ्येत्य सरस्वतीम् ।
अभ्यघ्नंस्तांश् च जग्राह केशेषु परमेश्वरी ॥ २१।३६ ॥
प्रहृह्य केशेषु महासुरांस्तान् उत्पत्य सिंहात्तु नगस्य सानुम् ।
ननर्त वीणां परिवादयन्ती पपौ च पानं जगतो जनित्री ॥ २१।३७ ॥
ततस्तु देव्या बलिनो महासुरा दोर्दण्डनिर्धूतविशीर्मदर्पाः ।
विस्रस्तवस्त्रा व्यसवश्च जाताः ततस्तु तान् वीक्ष्य महासुरेन्द्रान् ॥ २१।३८ ॥
देव्या महौजा महिषासुरस्तु व्यद्रावयद् भूतगणान् खुराग्रैः ।
तुण्डेन पुच्छेन तथोरसान्यान् निःश्वासवातेन च भूतसङ्घान् ॥ २१।३९ ॥
नादेन चैवाशनिसन्निभेन विषाणाकोट्या त्वपरान् प्रमथ्य ।
दुद्राव सिंहं युधि हन्तुकामः ततो ऽम्बका क्रोधवशं जगाम ॥ २१।४० ॥
ततः स कोपादथ तीक्ष्णशृङ्गः क्षिप्रं गिरीन् भूमिमशीर्णयच्च ।
सङ्क्षोभयययंस्तोयनिधीन् घनांश् च विध्वंसयन् प्राद्वताथ गुर्गाम् ॥ २१।४१ ॥
सा चाथ पाशेन बबन्ध दुष्टं स चाप्यभूत् क्लिन्नकटः करीन्द्रः ।
करं प्रचिच्छेद च हस्तिनो ऽग्रं स चापि भृयो महिषो ऽभिजातः ॥ २१।४२ ॥
ततो ऽस्य शूलं व्यसृजन्यमृडानी स शीर्णमूलो न्यपतत् पृथिव्याम् ।
शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतनमार्षे ॥ २१।४३ ॥
चक्रं हरेर्दानपचक्रहन्तुः क्षिप्तं त्वचक्रत्वमुपागतं हि ।
गदां समाविध्य धनेश्वरस्य क्षिप्तातु भग्ना न्यपतत् पृथिव्याम् ॥ २१।४४ ॥
जलेशपाशो ऽपि महासुरेण विषाणतुण्डाग्रखुरप्रणुन्नः ।
निरस्य तत्कोपितया च मुक्तो दण्डस्तु याम्यो बहुखण्डतां गतः ॥ २१।४५ ॥
वज्रं सुरेन्द्रस्य च विग्रहे ऽस्य मुक्तं सुसूक्ष्मत्वमुपाजगाम ।
सन्त्यज्य सिंहं महिषासुरस्य दुर्गाधिरूढा सहसैव पृष्ठम् ॥ २१।४६ ॥
पृष्ठस्थितायां महिषासुरो ऽपि पोप्लूयते वीर्यमदान्मृडान्याम् ।
सा चापि पद्भ्यां मृदुकोमलाभ्यां ममर्द तं क्लिन्नमिवाजिनं हि ॥ २१।४७ ॥
स मृद्यमानो धरणीधराभो देव्या बली हीनबलो बभूव ।
ततो ऽस्य शूलेन बिबेद कण्ठं तस्मात् पुमान् खङ्गधरो विनिर्गतः ॥ २१।४८ ॥
निष्क्रान्तमात्रं हृदये पदा तम् आहत्य सङ्गृह्य कचेषु कोपात् ।
शिरः प्रचिच्छेद वरासिनास्य हाहाकृतं दैत्यबलं तदाभूत् ॥ २१।४९ ॥
सचण्डमुण्डाः समयाः सताराः सहासिलोम्ना भयकातराक्षाः ।
सन्ताड्यमानाः प्रमथैर्भवान्याः पातलमेवाविविशुर्भयार्ताः ॥ २१।५० ॥
देव्या जयं देवागणा विलोक्य स्तुवन्ति देवीं स्तुतिभिर्महर्षे ।
नारायणीं सर्वजगत्प्रतिष्ठां कात्यायनीं घोरमुखीं सुरूपाम् ॥ २१।५१ ॥
संस्तूयमाना सुरसिद्धसङ्घैर्न्निषण्णभूता हरपादमुले ।
भूयो भविष्याम्यमरार्थमेवमुक्त्वा सुरांस्तान् प्रविवेश दुर्गा ॥ २१।५२ ॥
इती श्रीवामनपुराणे एकविंशो ऽध्यायः