पुलस्त्य उवाच ।
ततस्तु तां तत्र तदा वसन्तीं कात्यायनीं शैलवरस्य शृङ्गे ।
अपश्यतां दानवसत्तमौ द्वौ चण्डश् च मुण्डश्च तपस्विनीं ताम् ॥ २०।१ ॥
दृष्ट्वैव शौलादवतीर्य शीघ्रमाजग्मतुः स्वभवनं सुरारी ।
दृष्ट्वोचतुस्तौ महिषासुरस्य दूताविदं चण्डमुण्डौ दितीशम् ॥ २०।२ ॥
स्वस्थो भवान् किं त्वसुरेन्द्र साम्प्रतमागच्छ पश्याम च तत्र विन्ध्यम् ।
तत्रास्ति देवी सुमहानुभावा कन्या सुरूपा सुरसुन्दरीणाम् ॥ २०।३ ॥
जितास्तया तोयधरालकैर्हि जितः शशङ्को वदनेन तन्व्या ।
नेत्रैस्त्रिभिस्त्रीणि हुताशनानि जितानि कण्ठेन जितस्तु शङ्खः ॥ २०।४ ॥
स्तनौ सुवृत्तावथ मग्नचूचुकौ स्थितौ विजित्येव गजस्य कुम्भौ ।
त्वां सर्वजोतारमिति प्रतर्क्य कुचौ स्मरेणैव कृतौ सुदुर्गौ ॥ २०।५ ॥
पीनाः सशस्त्राः पिरघोपमाश्च भुजास्तथाष्टादश भान्ति तस्याः ।
पराक्रमं वै भवतो विदित्वा कामेन यन्त्रा इव ते कृतास्तु ॥ २०।६ ॥
मध्यं च तस्यास्त्रिवलीतरङ्गं विभाति दैत्येन्द्र सुरोमराजि ।
भयातुरारोहणकातरस्य कामस्य सोपानमिव प्रयुक्तम् ॥ २०।७ ॥
सा रोमराजी सुतरां हि तस्या विराजते पीजकुचावलग्ना ।
आरोहणे त्वद्भयकातरस्य स्वेदप्रवाहो ऽटसुर मन्मथस्य ॥ २०।८ ॥
नाभिर्गभीरा सुतरां विभाति प्रदक्षिणास्याः परिवर्तमाना ।
तस्यैव लावण्यगृहस्य मुद्रा कन्दर्पराज्ञा स्वयमेव दत्ता ॥ २०।९ ॥
विभाति रम्यं जघनं मृगाक्ष्याः समन्ततो मेखलयावजुष्टम् ।
मन्याम तं कामनराधिपस्य प्राकारगुप्तं नगरं सुदुर्गम् ॥ २०।१० ॥
वृत्तावरोमौ च मृदू कुमार्याः शोभेत ऊरू समनुत्तमौ हि ।
आवासनार्थं मकरध्वजेन जनस्य देशाविव सन्निविष्टौ ॥ २०।११ ॥
तञ्जानुयुग्मं महिषासुरेन्द्र अर्द्धेन्नतं भाति तथैव तस्याः ।
सृष्ट्वा विधाता हि निरूपणाय श्रान्तस्तथा हस्ततले ददौ हि ॥ २०।१२ ॥
जङ्घे सुवृत्ते ऽपि च रोमहीने शोभेत दैत्येश्वर ते तदीये ।
आक्रम्य लोकानिव मिर्मिताया रूपार्जितस्यैव कृताधरौ हि ॥ २०।१३ ॥
पादौ च तस्याः कमलोदराभौ प्रयत्नतस्तौ हि कृतौ विधात्रा ।
आज्ञापि ताभ्यां नखरत्नमाला नक्षत्रमाला गगने यथैव ॥ २०।१४ ॥
एवंस्वरूपा दनुनाथ कन्या महोग्रशस्त्राणि च धारयन्ती ।
दृष्ट्वा यथेष्टं न च विद्म का सा सुताथवा कस्यचिदेव बाला ॥ २०।१५ ॥
तद्भूतले रत्नमनुत्तमं स्थितं स्वर्गं परित्यज्य महासुरेन्द्र ।
गत्वात्थ विन्ध्यं स्वयमेव पश्य कुरुष्व यत् ते ऽभिमतं क्षमं च ॥ २०।१६ ॥
श्रुत्वैव ताभ्यां महिषासुरस्तु देव्याः प्रवृत्तिं कमनीयरूपाम् ।
चक्रे मतिं नात्र विचारमस्ति इत्येवमुक्त्वा महिषो ऽपि नास्ति ॥ २०।१७ ॥
प्रागेव पुंसस्तु शुभाशुभानि स्थाने विधात्रा प्रतिपादितानि ।
यस्मिन् यथायानि यतो ऽथविप्र स नीयते वा व्रजति स्वयं वा ॥ २०।१८ ॥
ततोनु मुण्डं नमरं सचण्डे विडालनेत्रं सपिशङ्गवाष्कलम् ।
उग्रायुधं चिक्षुररक्तबीजौ समादिदेशाथ महासुरेन्द्रः ॥ २०।१९ ॥
आहत्य भेरी रमकर्कशास्ते स्वर्गं परित्यज्य महीधरं तु ।
आगम्य मूले शिविरं निवेश्य तस्थुश्च सञ्जा दनुनन्दनास्ते ॥ २०।२० ॥
ततस्तु दैत्यो महिषासुरेण सम्प्रेषितो दानवयूथपालः ।
मयस्य पुत्रो रिपुसैन्यमर्दी स दुन्दुभिर्दुन्दुभिनिःखनस्तु ॥ २०।२१ ॥
अभ्येत्य देवीं गगनस्थितो ऽपि स दुन्दुभिर्वाक्यमुवाच विप्र ।
कुमारि दूतो ऽस्मि महासुरस्य रम्भात्मजस्याप्रतिमस्य युद्धे ॥ २०।२२ ॥
कात्यायानी दुन्दुभिमभ्युवाच एह्येहि दैत्येन्द्र भयं विमुच्य ।
वाक्यं च यद्रम्भसुतो बभाषे वदस्व तत्सत्यमपेतमोहः ॥ २०।२३ ॥
तथोक्तवाक्ये दितिजः शिवायास्तयज्याम्बरं भूमितले निषण्णः ।
सुखोपविष्टः परमासने च रम्भात्मजेनोक्तमुवाच वाक्यम् ॥ २०।२४ ॥
दुन्दुभिरुवाच ।
एवं समाज्ञापयते सुरारिस्त्वां देवि दैत्यो महिषासुरस्तु ।
यथामरा हीनबलाः पृथिव्यां भ्रमान्ति युद्धे विजिता मया ते ॥ २०।२५ ॥
स्वर्गं मही वायुपथाश्च वश्याः पातालमन्ये च महेश्वराद्याः ।
इन्द्रो ऽस्मि रुद्रो ऽस्मि दिवाकरो ऽस्मि सर्वेषु लोक्ष्वधिपो ऽस्मि बाले ॥ २०।२६ ॥
न सो ऽस्ति नाके न महीतले वा रसातले देवभटो ऽसुरो वा ।
यो मां हि सङ्ग्राममुपेयिवांस्तु भूतो न यक्षो न जिजीविषुर्यः ॥ २०।२७ ॥
यान्येव रत्नानि महीतले वा स्वर्गे ऽपि पातालतले ऽथ मुग्धे ।
स्रावणि मामद्य समागतानि वीर्यार्जितानीह विशालनेत्रे ॥ २०।२८ ॥
स्त्रीरत्नमग्र्यं भवती च कन्या प्राप्तो ऽस्मि शैलं तव कारणेन ।
तस्माद् भजस्वेह जगत्पतिं मां पतिस्तवार्हे ऽस्मि विभुः प्रभुश्च ॥ २०।२९ ॥
पुलस्त्य उवाच। ।
इत्येवमुक्ता दितिजेन दुर्गा कात्यायनी प्राह मयस्य पुत्रम् ।
सत्यं प्रभुर्दानवराट् पृथिव्यां सत्यं च युद्धे विजितामराश्च ॥ २०।३० ॥
किं त्वस्ति दैत्येश कुले ऽस्मदीये धर्मो हि शुल्काख्य इति प्रसिद्धः ।
तं चेत् प्रदद्यान्महिषो ममाद्य भजामि सत्येन पतिं हयारिम् ॥ २०।३१ ॥
श्रुत्वाथ वाक्यं मयजो ऽब्रवीच्च शुल्कं वदस्वाम्बुजपत्रनेत्रे ।
दद्यात्स्वमूर्धानमपि त्वदर्थे किं नाम शुल्कं यदिहैव तभ्यम् ॥ २०।३२ ॥
पुलस्त्य उवाच ।
इत्येवमुक्ता दनुनायकेन कात्यायनी सस्वनमुन्नदित्वा ।
विहस्य चैतद्वचनं बभाषे हिताय सर्वस्य चराचरस्य ॥ २०।३३ ॥
श्रीदेव्युवाच ।
कुले ऽस्मदीये शृणु दैत्य शुल्कं कृतं हि यत्पूर्वतरैः प्रसह्य ।
यो जेष्यते ऽस्मत्कुलजां रणाग्रे तस्याः स भर्त्तापि भविष्यतीति ॥ २०।३४ ॥
पुलस्त्य उवाच। ।
तच्छ्रुत्वा वचनं देव्या दुन्दुभिर्दानवेश्वरः ।
गत्वा निवेदयामास महिषाय यथातथम् ॥ २०।३५ ॥
स चाभ्यगान्महातेजाः सर्वदैत्यपुरः सरः ।
आगत्य विन्ध्यशिखरं योद्धधुकामः सरस्वतीम् ॥ २०।३६ ॥
ततः सेनापतिर्दैत्यो चिक्षुरो नाम नारद ।
सेनाग्रगामिनं चक्रे नमरं नाम दानवम् ॥ २०।३७ ॥
स चापि तेनाधिकृतश्चतुरङ्गं समूर्जितम् ।
बलेकदेशमादाय दुर्गा दुद्राव वेगितः ॥ २०।३८ ॥
तमापतन्तं वीक्ष्याथ देवा ब्रह्मपुरोगमाः ।
ऊचुर्वाक्यं महादेवीं वर्म ह्याबन्ध चाम्बिके ॥ २०।३९ ॥
अथोवाच सुरान् दुर्गा नाहं बध्नामि देवताः ।
कवचं को ऽत्र सन्तिष्ठेत् ममाग्रे दानवाधमः ॥ २०।४० ॥
यदा न देव्या कवचं कृतं शस्त्रनिबर्हणम् ।
तदा रक्षार्थमस्यास्तु विष्णुपञ्जरमुक्तवान् ॥ २०।४१ ॥
सा तेन रक्षिता ब्रह्मन् दुर्गा दानवसत्तमम् ।
अवध्यं दैवतैः सर्वेर्महिषं प्रत्यपीयत् ॥ २०।४२ ॥
एवं पुरा देववरेण शम्भुना तद्वैष्णवं पञ्जरमायताक्ष्याः ।
प्रोक्तं तया चापि हि पादघातैर्निषूदितो ऽसौ महिषासुरेन्द्रः ॥ २०।४३ ॥
एवम्प्रभावो द्विज विष्णुपञ्जरः सर्वासु रक्षास्वधिको हि गीतः ।
कस्तस्य कुर्याद् युधि दर्फहानिं यस्य स्थितश्चेतसि चक्रपाणिः ॥ २०।४४ ॥
इति श्रीवामनपुराणे विंशो ऽध्यायः