पुलस्त्य उवाच ।
ततस्तु देवा महिषेम निर्जिताः स्थानानि सन्त्यज्य सवाहनायुधाः ।
जग्मुः पुरस्कृत्य रिचामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम् ॥ १९।१ ॥
गत्वा त्वपश्यंश्च मिथः सुरोत्तमौ स्थितौ खगेन्द्रासनशङ्करौ हि ।
दृष्टावा प्रणम्यैव च सिद्दिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम् ॥ १९।२ ॥
प्रभो ऽश्विसूर्येन्द्वनिलाग्निवेधसां जलेशशक्रादिषु चाधिकारान् ।
आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण ॥ १९।३ ॥
एतद् भवन्तौ शरणागतानां श्रुत्वा वचो ब्रूत हितं सुराणाम् ।
न चेद् व्रजामो ऽद्य रसातलं हि सङ्काल्यमाना युधि दानवेन ॥ १९।४ ॥
इत्थं मुरारिः सह शङ्करेण श्रुत्वा वचो विप्लुतचेतसस्तान् ।
दृष्ट्वाथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा ॥ १९।५ ॥
ततो ऽनुकोपान्मधुसूदनस्य सशङ्करस्यापि पितामहस्य ।
तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद् विनिःसुतम् ॥ १९।६ ॥
तच्चैकतां पर्वतकूटसन्निभं जगाम तेजः प्रवराश्रम् मुने ।
कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च ॥ १९।७ ॥
तेनार्षिसृष्टेन च तेज-सा वृतं ज्वलत्प्रकाशार्कसहस्रतुल्यम् ।
तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा ॥ १९।८ ॥
माहेश्वराद् वक्त्रमथो बभूव नेत्रत्रयं पावकतेजसा च ।
याम्येन केशा हरितेजसा च भुजास्तथाष्टादश सम्प्जज्ञिरे ॥ १९।९ ॥
सौम्येन युग्मं स्तनयोः सुसंहतं मध्यं तथैन्द्रेण च तेजसाभवत् ।
ऊरब चजङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि ॥ १९।१० ॥
पादो च लोकप्रपितामहस्य पद्माभिकोशप्रतिमौ बभूवतुः ।
दिवाकराणमपि तेजसाङ्गुलीः कराङ्गुलीश्च वसुतेजसैव ॥ १९।११ ॥
प्रजापतीनां दशनाश्च तेजसा याक्षेण नासा श्रवणौ च मारुतात् ।
साध्येन च भ्रयुगलं सुकान्तिमत् कन्दर्पबाणासनसन्निभं बभौ ॥ १९।१२ ॥
तर्थार्षितेजोत्तममुत्तमं महन्नाम्ना पृथिव्यामभवत् प्रसिद्धम् ।
कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा ॥ १९।१३ ॥
ददौ त्रिशूलं वरदस्त्रिशूली चक्रं मुरारिर्वरुणश्च शङ्खम् ।
शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्ष्य्यशरौ विवस्वान् ॥ १९।१४ ॥
वज्रं तथेन्द्रः सह घण्टया च यमो ऽथ दण्डं धनदो गदां च ।
ब्रह्मऽक्षमालां सकमण्डलुं च कालो ऽसिमुग्रं सह चर्मणा च ॥ १९।१५ ॥
हारं च सोमः सह चामरेण मालं समुद्रो हिमवान् मृगेन्द्रम् ।
चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसुशिल्पकर्त्ता ॥ १९।१६ ॥
गन्धर्वराजो रजतानुलिप्तं पानस्य पूर्णं सदृशं च भाजनम् ।
भुजङ्गहारं भुजगेश्वरो ऽपि अम्लानपुष्पामृतवः स्रजं च ॥ १९।१७ ॥
तदातितुष्टा सुरस्त्तमानां अट्टाट्टहासं मुमुचे त्रिनेत्रा ।
तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः ॥ १९।१८ ॥
नमो ऽस्तु दैव्यै सुरपूजितायै या संस्थिता योगविशुद्धदेहा ।
निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद् भयदाथ कान्तिः ॥ १९।१९ ॥
श्रद्धा स्मृतिः पुष्टिरथो क्षमा च छाया च शक्तिः कमलालया च ।
वृत्तिर्दया भ्रान्ति रथेह माया नमो ऽस्तु दैव्यै भवरूपिकायै ॥ १९।२० ॥
ततः स्तुताः देववरैर्मृगेन्द्रमारुह्य देवी प्रगतावनीध्रम् ।
विन्ध्यं महापर्वतमुच्चशृङ्गं चकार यं निम्नतरं त्वगस्त्यः ॥ १९।२१ ॥
नारद उवाच ।
किर्मथमद्रिं भगवानगस्त्यस्तं निम्नशृङ्गं कृतवान् महर्षिः ।
कस्मै कृते केन च कारणेन एतद् वदस्वामलसत्त्ववृत्ते ॥ १९।२२ ॥
पुलस्त्य उवाच ।
पुरा हि विन्ध्येन दिवाकरस्य गतिर्निरुद्धा गगनेचरस्य ।
रविस्ततः कुमभभवं समेत्य होमावसाने वचनं बभाषे ॥ १९।२३ ॥
समागतो ऽहं द्विज दूरतस्त्वां कुरुष्व मामुद्धरणं मुनीन्द्र ।
ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः ॥ १९।२४ ॥
इत्थं दिवाकरवचो गुणसम्प्रयोगि श्रुत्वा तदा कलशजो वचनं बभाषे ।
दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव ॥ १९।२५ ॥
श्रुत्वा वचो ऽमृतमयं कलशोद्भवस्य प्राह प्रभुः करतले विनिधाय मूर्ध्नि ।
एषो ऽद्य मे गिरिवरः प्ररुणाद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व ॥ १९।२६ ॥
इति रविवचनादथाह कुम्भजन्मा कुतमिति विद्धि मया हि नीचशृङ्गम् ।
तव किरणजितो भविष्यते महीध्रो मम चरणसम्श्रितस्य का व्यथा ते ॥ १९।२७ ॥
इत्येवमुक्त्वा कलशोद्भावस्तु सूर्यं हि संस्तूय विनम्य भक्त्या ।
जगाम सन्त्यज्य हि दण्डकं हि विन्ध्याचलं वृद्ध्वपुर्महर्षिः ॥ १९।२८ ॥
गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थवरं सुपुण्यम् ।
वृद्धोस्मयशक्तश्च तवाधिरोढुं तस्माद् भवान् नीचतरो ऽस्तु सद्यः ॥ १९।२९ ॥
इत्येवमुक्तो मुनिस्त्तमेन स नीचशृङ्गस्त्वभवन्महीध्रः ।
समाक्रमच्चापि महर्षिमुक्यः प्रोल्लङ्घ्य विन्ध्यं त्विदमाह शैलम् ॥ १९।३० ॥
यावन्न भूयो निजमाव्रजामि महाश्रमं धौतवपुः सुतीर्थात् ।
त्वया न तावत्त्विह वर्धितव्यं नो चेद् विशप्स्ये ऽहमवज्ञया ते ॥ १९।३१ ॥
इत्येवमुक्त्वा भगवाञ्जगाम दिशं स याम्यां सहसान्तरिक्षम् ।
आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः ॥ १९।३२ ॥
तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम् ।
तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम ॥ १९।३३ ॥
ऋतावृतौ पर्वकालेषु नित्यं तम्मबरे ह्याश्रममावसत् सः ।
शेषं च कालं स हि दण्डकस्थस् तपश्चारामितकान्तिमान् मुनिः ॥ १९।३४ ॥
विनन्ध्यो ऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः ।
नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रशृङ्गः ॥ १९।३५ ॥
एवं त्वगस्त्येन महाचलेन्द्रः स नीचशृङ्गे हि कृतो महर्षे ।
तस्योर्ध्वशृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम् ॥ १९।३६ ॥
देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा भूतगणाश्च सर्वे ।
सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः ॥ १९।३७ ॥
इति श्रीवामनपुराणे एकोनविंशो ऽध्यायः