१८

पुलस्त्य उवाच ।
मासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः ।
नाभ्या निर्याति हि तदा देवेष्वेतान्यथो ऽभवन् ॥ १८।१ ॥
कन्दर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः ।
तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते ॥ १८।२ ॥
यक्षाणामधिपस्यापि मणिभद्रस्य नारद ।
वटवृक्षः समभवत् तस्मिस्तस्य यतिः सदा ॥ १८।३ ॥
महेश्वरस्य हृदये धत्तूरविटपः शुभः ।
सञ्जातः स च शर्वस्य पतिकृत् तस्य नित्यशः ॥ १८।४ ॥
ब्रह्मणो मध्यतो देहाञ्जातो मरकतप्रभः ।
ख दरः कण्टकी श्रेयानभवद्विश्वकर्मणः ॥ १८।५ ॥
गिरिजायाः करतले कुन्दसुल्मस्त्वजायत ।
गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः ॥ १८।६ ॥
यमस्य क्षिणे पार्श्वे पालाशो दक्षिणोत्तरे ।
कृष्णोदुम्बरको रुद्राज्जातः क्षोमकरो वृषः ॥ १८।७ ॥
स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च ।
कात्यायनयाः शमीजाताबिल्वो लक्ष्मायाः करे ऽभवत् ॥ १८।८ ॥
नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत ।
वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सितासिता ॥ १८।९ ॥
साध्यानां हृदये जातो वृक्षो हरितचन्दनः ।
एवं जातेषु सर्वेषु तेन तत् रतिर्भवेत् ॥ १८।१० ॥
तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत् ।
तस्यां सम्पूजयेद् विष्णुं तेन खण्डो ऽस्य पूर्यते ॥ १८।११ ॥
पुष्षैः पुत्रैः फलैर्वापि गन्धवर्णरस्न्वितैः ।
ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः ॥ १८।१२ ॥
घृतं तिला ब्रीहियवा हिरण्यकन्कादि यत् ।
मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च ॥ १८।१३ ॥
रसानि स्वादुकट्वम्लकषायलवणानि च ।
तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि ॥ १८।१४ ॥
तत्पूजार्थं प्रदातव्यं केशवाय महात्मने ।
यदा संवत्सरं पूर्णमखण्डं भवते गृहे ॥ १८।१५ ॥
कृतोपवासो देवर्षे द्वितीये ऽहनि संयतः ।
स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥ १८।१६ ॥
सिद्धार्तकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम् ।
हविषा पद्मनाभस्य स्नानमेव समाचरेत् ।
होमे तदेव गदितं दाने शक्तिर्निजा द्विज ॥ १८।१७ ॥
पूजयेताथ कुसुमैः पादादारभ्य केशवम् ।
धूपयेद् विविधं धूपं येन स्याद् वत्सरं परम् ॥ १८।१८ ॥
हिरण्यरत्नवासोभिः पूजयेत जगद् गुरुम् ।
रागखाण्डवचोष्याणि हविष्याणि निवेदयेत् ॥ १८।१९ ॥
ततः सम्पूज्य देवेशं पद्मनाभं जगद् गुरुम् ।
विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ॥ १८।२० ॥
नमो ऽस्तु ते पद्मनाभ पद्माधव महाद्युते ।
धर्मार्थकाममोक्षणि त्वखण्डानि भवन्तु मे ॥ १८।२१ ॥
विकासिपद्मपत्राक्ष यथाखण्डोसि सर्वतः ।
तेन सत्येन धर्माद्य अखण्डाः सन्तु केशव ॥ १८।२२ ॥
एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः ।
अघण्डं पारयेद् ब्रह्मन् व्रतं वै सर्ववस्तुषु ॥ १८।२३ ॥
अस्मिंश्चीर्णे व्रतं व्यक्तं परितुष्यन्ति देवताः ।
धर्मार्थकाममोक्षाद्यास्त्वक्षयाः सम्भवन्ति हि ॥ १८।२४ ॥
एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः ।
प्रक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम् ॥ १८।२५ ॥
नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो त्वामाहं शरणं गतः ॥ १८।२६ ॥
गदां कौमोदकीं गृह्य पद्मनाभामितद्युते ।
याम्यां रक्षस्व मां विष्णो त्वमाहं शरणं गतः ॥ १८।२७ ॥
हलमादाय सौनन्दं नमस्ते पुरषोत्तम ।
प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः ॥ १८।२८ ॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम ।
उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥ १८।२९ ॥
शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे ।
नमस्ते रक्ष रक्षघ्न ऐशान्यां शरणं गतः ॥ १८।३० ॥
पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम् ।
प्रगृहय् रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ॥ १८।३१ ॥
चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा ।
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥ १८।३२ ॥
वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव अश्वशीर्ष नमो ऽस्तु ते ॥ १८।३३ ॥
वैनतेयं समारुह्य अन्तरिक्षे जनार्दन ।
मां त्वं रक्षाजित सदा नमस्ते त्वपराजति ॥ १८।३४ ॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामोह नमो ऽस्तु ते ॥ १८।३५ ॥
करशीर्षाङ्घ्रर्वेषु तथाष्टबाहुपञ्जरम् ।
कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम ॥ १८।३६ ॥
एतदुक्तं भगवता वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम ॥ १८।३७ ॥
नाशयामास सा यत्र दानवं महिषासुरम् ।
नमरं रक्तबीजं च तथान्यान् सुरकण्टकान् ॥ १८।३८ ॥
नारद उवाच ।
कासौ कात्यायानी नाम यचा जघ्ने महिषासुरम् ।
नमरं रक्तबीजं च तथान्यान् कुरकण्टकान् ॥ १८।३९ ॥
कश्चसौ महिषो नाम कुले जातश्च कस्य सः ।
कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः ।
एतद्विस्तरतस्तात यथावद् वक्तुमर्हसिः ॥ १८।४० ॥
पुलस्त्य उवाच। ।
श्रूयतां सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
सर्वदा वरदा दुर्गा येयं कात्यायनी मुने ॥ १८।४१ ॥
पुरासुरवरौ रौद्रौ जगत्क्षोभकरावुभौ ।
रम्भश्चैव करम्भश् च द्वावास्तां सुमाबलौ ॥ १८।४२ ॥
तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः ।
बहून् वर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले ॥ १८।४३ ॥
तत्रैको जलमध्यस्थो द्वितीयो ऽप्यग्निपञ्चमी ।
करम्भश्चैव रम्भश्च यक्षं मालपटं प्रति ॥ १८।४४ ॥
एकं मिमग्नं सलिले ग्राहरूपेण वासवः ।
चरणाभ्यां समादाय निजघान यथेच्छया ॥ १८।४५ ॥
ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः ।
वह्नौ स्वशीर्षं सङ्क्षिद्य होतुमैच्चन् महाबलः ॥ १८।४६ ॥
ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम् ।
छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥ १८।४७ ॥
उक्तश्च मा दैत्यवर नाशयात्मानमात्मना ।
दुस्तरा परवध्यापि स्ववध्याप्यतिदुस्तरा ॥ १८।४८ ॥
यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम् ।
मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥ १८।४९ ॥
ततो ऽब्रवीद् वचो रम्भो वरं चेन्मे ददासि हि ।
त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाधिकः ॥ १८।५० ॥
अजेयो दैवतैः सर्वैः पुभिर्दैत्यैश्च पावक ।
महाबलो वायुरिव कामरूपी कृतास्त्रवित् ॥ १८।५१ ॥
तं प्रोवाच कविर्ब्रह्मन् बाञमेवं भविष्यति ।
यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः ॥ १८।५२ ॥
इत्येवमुक्तो देवेन वह्निना दानवो ययौ ।
द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम् ॥ १८।५३ ॥
तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः ।
गजश्च महिषाश्चाश्वा गावो ऽजाविपरिप्लुताः ॥ १८।५४ ॥
तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः ।
महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन ॥ १८।५५ ॥
सा समागाच्च दैत्यैन्द्रं कामयन्ती तरस्विनी ।
स चापि गमनं चक्रे भवितव्यप्रचोदितः ॥ १८।५६ ॥
तस्यां समभवद् गर्भस्तां प्रगृह्याथ दानवः ।
पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥ १८।५७ ॥
दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः ।
अकार्यकारकेत्येवं भृयो मालवटं गतः ॥ १८।५८ ॥
सापि तेनैव पतिना महिषी चारुदर्शना ।
समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम् ॥ १८।५९ ॥
ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने ।
अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम् ॥ १८।६० ॥
एतामृतुमतीं जातां महिषो ऽन्यो ददर्श ह ।
सा चाभ्यगाद् दितिवरं रक्षन्ती शीलमात्मनः ॥ १८।६१ ॥
तमुन्नामितनासं च महिषं वीक्ष्य दानवः ।
खङ्ग निष्कृष्य तरसा महिषं समुपाद्रवत् ॥ १८।६२ ॥
तेनापि दैत्यस्तीक्ष्णाभ्यां शृङ्गाभ्यां हृदि ताडितः ।
निर्भिन्नहृदयो भूमौ निपपात ममार च । ।
१८।६३ मृते भर्तरि सा श्यामा यक्षाणां शरणं गता ।
रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः ॥ १८।६४ ॥
ततो निवारितो यक्षैर्हयारिर्मदनातुरः ।
निपपात सरो दिव्यं ततो दैत्यैऽभवन्मृतः ॥ १८।६५ ॥
नमरो नाम विख्यातो महाबलपराक्रमः ।
यक्षानाश्रित्य तस्थौ स कालयन् श्वापदान् मुन् ॥ १८।६६ ॥
स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः ।
चितामारोपितः सा च श्यामा तं चारुहत् पतिम् ॥ १८।६७ ॥
ततो ऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः ।
व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयङ्करः ॥ १८।६८ ॥
ततो हतास्तु महिषाः सर्व एव महात्मना ।
ऋते संरक्षितारं हि महिषं रम्भनन्दनम् ॥ १८।६९ ॥
स नामतः स्मृतो दैत्यो रक्तबीजो महामुन् ।
यो ऽजयत् सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान् ॥ १८।७० ॥
एवं प्रभावा दनुपुङ्गवास्ते तेजो ऽधिकस्तत्र बभौ हयारिः ।
राज्ये ऽभिषिक्तश्च महासुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः ॥ १८।७१ ॥
अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः ।
स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च ॥ १८।७२ ॥

इति श्रीवामनपुराणे अष्टादशो ऽध्यायः