नारद उवाच ।
यानेतान् भगवान् प्राह कामिभिः शशिनं प्रति ।
आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान् ॥ १७।१ ॥
पुलस्त्य उवाच। ।
शृणुष्व कामिभिः प्रोक्तान् व्रतान् पुण्यान् कलिप्रिय ।
आराधनाय शर्वस्य केशवस्य च धीमतः ॥ १७।२ ॥
यदा त्वाषाढी संयाति व्रजते चोत्तरायणम् ।
तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥ १७।३ ॥
प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्वगुह्यकाः ।
देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥ १७।४ ॥
नारद उवाच। ।
कथयस्व कुरादीनां शयने विधिमुत्तमम् ।
सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम् ॥ १७।५ ॥
पुलस्त्य उवाच ।
मिथुनाभिगते सूर्ये शुक्लपक्षे तपोधन ।
एकादश्यां जगत्स्वामी शयनं परिकल्पयेत् ॥ १७।६ ॥
शेषाहिभोगपर्यङ्कं कृत्वा सम्पूज्य केशवम् ।
कृत्वोपवीतकं चैव सम्यक्सम्पूज्य वै द्विजान् ॥ १७।७ ॥
अनुज्ञानं ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः ।
लब्ध्वा पीताम्बरधरः स्वस्ति निद्रां समानयेत् ॥ १७।८ ॥
त्रयोदश्यां ततः कामः स्वपते शयने शुभे ।
कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥ १७।९ ॥
चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।
सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥ १७।१० ॥
पौर्ममास्यामुमानाथः स्वपते चर्मसंस्तरे ।
वैयाघ्रे च जटाभारं समुद्ग्रन्थ्यान्यचर्मणा ॥ १७।११ ॥
ततो दिवाकरो राशिं सम्प्रयाति च कर्कटम् ।
ततो ऽमराणां रजनी भवते दक्षिणायनम् ॥ १७।१२ ॥
ब्रह्मा प्रतिपदि तथा नीलोत्पलमये ऽनघ ।
तल्पे स्वपिति लोकानां दर्शयन् मार्गमुत्तमम् ॥ १७।१३ ॥
विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता ।
विनायकश्चुर्थ्या तु पञ्चम्यामपि धर्मराट् ॥ १७।१४ ॥
षष्ठ्यां स्कन्दः प्रस्वपिति सप्तम्याम्भगवान् रविः ।
कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥ १७।१५ ॥
दशम्यां भुजगेन्द्राश्च स्वपन्ते वायुभोजनाः ।
एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च ॥ १७।१६ ॥
एष क्रमस्ते गदितो नभादौ स्वपने मुने ।
स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ ॥ १७।१७ ॥
कङ्काः समं बलाकाभिरारोहन्ति नगोत्तमान् ।
वायसाश्चापि सुर्वन्ति नीडानि ऋषिपुङ्गव ।
वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः ॥ १७।१८ ॥
यस्यां तिथ्यां प्रस्वपिति विश्वकर्मा प्रजापतिः ।
द्वितीया सा शुभा पुण्या अशून्यशयनोदिता ॥ १७।१९ ॥
तस्यां तिथावर्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम् ।
पर्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने ॥ १७।२० ॥
ततो देवाय शय्यायां फलानि प्रक्षिपेत् क्रमात् ।
सुरभीणी निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥ १७।२१ ॥
यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगन्निवास ।
तथास्त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात् ॥ १७।२२ ॥
यथा त्वशून्यं तव देव तल्पं समं हि लक्ष्म्या वरदाच्युतेश ।
सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव ॥ १७।२३ ॥
इत्युच्चार्य प्रणम्येशं प्रसाद्य च पुनः पुनः ।
नक्तां भुञ्जीत देवर्षे तैलक्षारविवर्जितमट् ॥ १७।२४ ॥
द्वितीये ऽह्नि द्विजाग्र्याय फलान् दद्याद् विचक्षणः ।
लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत् ॥ १७।२५ ॥
अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् ।
यावद् चवृश्चिकराशिस्थः प्रतिभाति दिवाकरः ॥ १७।२६ ॥
ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने ।
तुलास्थेर्ऽके हरिः कामः शिवः पश्चाद्विबुध्यते ॥ १७।२७ ॥
तत्र दानं द्वितीयायां मूर्त्तिर्लक्ष्मीधरस्य तु ।
सशय्यास्तरणोपेता यथा विभवमात्मनः ॥ १७।२८ ॥
एष व्रतस्तु प्रथमः प्रोक्तस्तव महामुने ।
यस्मिंश् चीर्णे वियोगस्तु न भवेदिह कस्यचित् ॥ १७।२९ ॥
नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा ।
युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता ॥ १७।३० ॥
तस्यां सर्वेषु लिङ्गेषु तिथौ स्वपिति शङ्करः ।
वसते सन्निधाने तु तत्र पूजाक्षया स्मृता ॥ १७।३१ ॥
तत्र स्नायीन वै विद्वान् गोमूत्रेण जलेन च ।
स्नातः सम्पूजयेत् पुष्पैर्धत्तूरस्य त्रिलोचनम् ॥ १७।३२ ॥
धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी ।
प्रीयतां मे विरूपाक्षस्त्वित्युच्चार्य च दक्षिणाम् ।
विप्राय दद्यान्नैवेद्यं सहिरण्यं द्विजोत्तम ॥ १७।३३ ॥
तद्वदाश्वयुजे मासि उपवासी जितेन्द्रियः ।
नवम्यां गोमयस्नानं कुर्यात्पूजां तु पङ्कजैः ।
धूपयेत् सर्जनिर्यासं नैवेद्यं मधुमोदकैः ॥ १७।३४ ॥
कृतोपवासस्तवष्टम्यां नवम्यां स्नानमाचरेत् ।
प्रीयतां मे हिरण्याक्षो दक्षिणा सतिला स्मृता ॥ १७।३५ ॥
कार्त्तिके पयसा स्नानं करवीरेण चार्चनम् ।
धुपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ॥ १७।३६ ॥
सनैवेद्यं च रजतं दातव्यं दानमग्रजे ।
प्रीयतां गवान् स्थासुरिति वाच्यमनिष्ठुरम् ॥ १७।३७ ॥
कृत्वोपवासमष्टम्यां नवम्यां स्नानमाचरेत् ।
मासि मार्गशिरे स्नानं दध्नार्चा भद्रया स्मृता ॥ १७।३८ ॥
धूपं श्रीवृक्षनिर्यासं नैवेद्यं मधुनोदनम् ।
सन्निवेद्या रक्तशालिर्दक्षिणा परिकीर्त्तिता ।
नमो ऽस्तु प्रीयतां शर्वस्त्विति वाच्यं च पण्डितैः ॥ १७।३९ ॥
पौषे स्नानं च हविषा पूजा स्यात्तगरैः सुभैः ।
धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली ॥ १७।४० ॥
समुद्गा दक्षिणा प्रोक्ता प्रीमनाय जगद्गुरोः ।
वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत् ॥ १७।४१ ॥
माघे कुशोदकस्नानं मृगमदेन चार्च्यनम् ।
धूपः पदम्बनिर्यासो नैवेद्यं सतिलोदनम् ॥ १७।४२ ॥
पयोभक्तं सनैवेद्यं सरुक्मं प्रतिपादयेत् ।
प्रीयतां मे महादेव उमापतिरितीरयेत् ॥ १७।४३ ॥
एवमेव समुद्दिष्टं षड्भिर्मासैस्तु पारणम् ।
पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात् ॥ १७।४४ ॥
गोरोचनायाः सहिता गुडेन देवं समालभ्य च पूजयेत ।
प्रीयस्व दीनो ऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम् ॥ १७।४५ ॥
ततस्तु फाल्गुने मासिं कृष्णाष्टम्यां यतव्रत ।
उपवासं समुदीतं कर्तव्यं द्विजसत्तम ॥ १७।४६ ॥
द्वितीये ऽह्नि ततः स्नानं पञ्चगव्येन कारयेत् ।
पूजयेत्कुन्दकुसुमैर्धूपयेत् चन्दनं त्वपि ॥ १७।४७ ॥
नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम् ।
दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने ।
वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः ॥ १७।४८ ॥
चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम् ।
गुग्गुलुं महिषाख्यं च घृताक्तं धूपयेद् बुधः ॥ १७।४९ ॥
समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत् ।
दक्षिणा च सनैवेद्यं सृगाजिनमुदाहृतम् ॥ १७।५० ॥
नाट्येश्वर नमस्ते ऽस्तु इदमुच्चार्य नारद ।
प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमन्वितः ॥ १७।५१ ॥
वैशाखे स्नानमुदितं सुगन्धकुसुमाम्भसा ।
पूजनं शङ्करस्योक्तं चूतमञ्जरिभिर्विभो ॥ १७।५२ ॥
धूपं सर्जाज्ययुक्तं च नैवेद्यं सफलं घृतम् ।
नामजप्यमपीशस्य कालघ्नेति विपश्चिता ॥ १७।५३ ॥
जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत् ।
सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः ॥ १७।५४ ॥
ज्येष्ठे स्नानं चामलकैः पूजार्ऽककुसुमैस्तथा ।
धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम् ॥ १७।५५ ॥
सक्तूंश्च सघृतान् देवे दध्नाक्तान् विनिवेदयेत् ।
उपानद्यगलं छत्रं दानं दद्याच्च भक्तिमान् ॥ १७।५६ ॥
नमस्ते भगनेत्रघ्न पूष्णो दशननाशन ।
इदमुच्चारयेद्भक्त्या प्रीणनाय जगत्पतेः ॥ १७।५७ ॥
आषाढे स्नानमुदितं श्रीफलैरर्चनं तथा ।
धत्तूरकुसुमैः शुक्लैर्धूपयेत् सिल्हकं तथा ॥ १७।५८ ॥
नैवेद्याः सघृताः पूपाः दक्षिणा सघृता यवाः ।
नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत् ॥ १७।५९ ॥
श्रावणे मृगभोज्येन स्नानं कृत्वार्ऽचयेद्धरम् ।
श्रीवृक्षपत्रः सफलैर्धूपं दद्यात् तथागुरुम् ॥ १७।६० ॥
नैवेद्यं सघृतं दद्यात् दधि पूपान् समोदकान् ।
दध्योदनं सकृसरं माषधानाः सशष्कुलीः ॥ १७।६१ ॥
दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम् ।
कनकं रक्कवसनं प्रदद्याद् ब्राह्मणाय हि ।
गङ्गाधरेति जप्तव्यं नाम शम्भोश्च पण्डितैः ॥ १७।६२ ॥
अमीभिः षड्भिरपरैर्मासैः पारणमुत्तमम् ।
एवं संवत्सरं पूर्णं सम्पूज्य षभध्वजम् ।
अक्षयान् लभते कामान् महेश्वरवचो यथा ॥ १७।६३ ॥
इदमुक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम् ।
स्वयं रुद्रण देवर्षे तत्तथा न तदन्यथा ॥ १७।६४ ॥
इति श्रीवामनपुराणे सप्तदशो ऽध्यायः