१६

पुलस्त्य उवाच ।
ततः सुकेशिर्देवर्षे गत्वा स्वपुरमुत्तमम् ।
सम्हूयाब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः ॥ १६।१ ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।
दानं दया च क्षान्तिश्व ब्रह्मचर्यममानिता ॥ १६।२ ॥
शुभा सत्या च मधुरा वाङ् नित्यं सत्क्रिया रतिः ।
सदाचारनिषेवित्वं परलोकप्रदायकाः ॥ १६।३ ॥
इत्यूचुर्मुनयो मह्यं धर्ममाद्यं पुरातनम् ।
सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः ॥ १६।४ ॥
पुलस्त्य उवाच ।
ततः सुकेशिवचनात् सर्व एव निशाचराः ।
त्रयोदशाङ्गं ते धर्म चक्रुर्मुदितमानसाः ॥ १६।५ ॥
ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः ।
पुत्रपौत्रार्थसंयुक्ताः सदाटारसमन्विताः ॥ १६।६ ॥
तज्जयोतिस्तेजस्तेषां राक्षसानं महात्मनाम् ।
गन्तुं नाशक्तुवन् सूर्यो नक्षत्राणि न चन्द्रमाः ॥ १६।७ ॥
ततस्त्रिभुवने ब्रह्मन् निशाचरपुरो ऽभवत् ।
दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत् ॥ १६।८ ॥
न ज्ञायते गतिर्व्योम्नि भास्करस्य ततो ऽम्बरे ।
शशङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम् ॥ १६।९ ॥
स्वं विकासं विमुञ्चन्ति निशामिति व्यचिन्तयन् ।
कमलाकरेषु कमला मित्रमित्यवगम्य हि ।
रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः ॥ १६।१० ॥
कौशिका रात्रिसमयं बुद्ध्वा निरगमन् किल ।
तान् वायसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान् ॥ १६।११ ॥
स्नातकास्त्वापगास्वेव स्नानजप्यपरायणाः ।
आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाथ वासरम् ॥ १६।१२ ॥
न व्ययुज्यन्त चक्रआश्च तदा वै पुरदर्शने ।
मन्मानास्तु दिवसमिदमुच्चैर्ब्रुवन्ति च ॥ १६।१३ ॥
नूनं कान्ताविहीनेन केनचिच्चक्रपत्त्रिणा ।
उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे ॥ १६।१४ ॥
ततो ऽनुकृपयाविष्टो विवस्वास्तीव्ररश्मिभिः ।
सन्तापयञ्जगत् सर्वं नास्तमेति कथञ्चन ॥ १६।१५ ॥
अन्ये वदन्ति चक्रआह्वो नृनं कश्चिन् मृतो भवेत् ।
तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत ॥ १६।१६ ॥
आराधितस्तु भगवांस्तपसा वै दिवाकरः ।
तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम् ॥ १६।१७ ॥
यज्विनो होमशालासु सह ऋत्विग्भिरध्वरे ।
प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने ॥ १६।१८ ॥
महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः ।
रवौ शशिनि चैवान्ये ब्रह्मणो ऽन्ये हरस्य च ॥ १६।१९ ॥
कामिनश्चाप्यमन्यन्त साधु चन्द्रमसा कृतम् ।
यदियं रजनी रम्या कृता सततकौमुदी ॥ १६।२० ॥
अन्ये ऽब्रुवंल्लोकगुरुरस्माभिश्चक्रभृद् वशी ।
निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः ॥ १६।२१ ॥
सह लक्ष्म्या महायोगी नभस्यादिचतुर्ष्वपि ।
अशून्यशयना नाम द्वितीया सर्वकामदा ॥ १६।२२ ॥
तेनासौ भगवान् प्रीतः प्रादाच्छयनमुत्तमम् ।
अशून्यं च महाभोगैरनस्तमितशेखरम् ॥ १६।२३ ॥
अनये ऽब्रुवन् ध्रुवं देव्या रोहिण्याशशिनः क्षयम् ।
दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया ॥ १६।२४ ॥
पुण्यायामक्षयाष्टम्यां वेदोक्तविधिना स्वयम् ।
तुष्टेन शम्भुना दत्तं वरं चास्यै यदृच्छया ॥ १६।२५ ॥
अन्ये ऽब्रुवन् चन्द्रमसा ध्रुवमाराधितो हरिः ।
व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि ॥ १६।२६ ॥
अन्ये ऽब्रवञ्छशाङ्केन ध्रुवं रक्षा कृतात्मनः ।
पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः ॥ १६।२७ ॥
तेनासौ दीप्तिमांश्चन्द्रः परिभूय दिवाकरम् ।
अस्माकमानन्दकरो दिवा तपति सूर्यवत् ॥ १६।२८ ॥
लक्ष्यते कारणैरन्यैर्बहुभिः सत्यमेव हि ।
शशङ्कनिर्जितः सूर्यो न विभाति यथा पुरा ॥ १६।२९ ॥
यथामी कमलाः श्लक्ष्णा रणद्भृङ्गणावृताः ।
विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम् ॥ १६।३० ॥
यथा चामी विभासन्ति विकचाः कुमुदाकराः ।
अतो विज्ञायते चन्द्र उदितश्च प्रतापवान् ॥ १६।३१ ॥
एवं सम्भाषतां तत्र सूर्यो वाक्यानी नारद ।
अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम् ॥ १६।३२ ॥
एवं सञ्चिन्त्य भगवान् दध्यौ ध्यानं दिवाकरः ।
आसमन्ताज्जगद् ग्रस्तं त्रैलोक्यं रजनीचरैः ॥ १६।३३ ॥
ततस्तु भगवाञ्ज्ञात्वा तेदजसो ऽप्यसहिष्णुताम् ।
निशाचरस्य वृद्धिं तामचिन्तयत योगवित् ॥ १६।३४ ॥
ततो ऽज्ञासीच्च तान् सर्वान् सदाचाररताञ्शुचीन् ।
देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान् ॥ १६।३५ ॥
ततस्तु रक्षःक्षयकृत् तिमिरद्विपकेसरी ।
महांशुनखरः सूर्यस्तद्विघातमचिन्तयत् ॥ १६।३६ ॥
ज्ञातवांश्च ततश्छिद्रं राक्षसानां दिवस्पतिः ।
स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत् ॥ १६।३७ ॥
ततः क्रोधाभिभूतेन भानुना रिपुभेदिभिः ।
भानुभी राक्षसपुरं तद् दृष्टं च यथैच्छया ॥ १६।३८ ॥
स भानुना तदा दृष्टः क्रोधाध्मातेन चत्रुषा ।
निपपाताम्बराद् भ्रष्टः क्षीणपुण्य इव ग्रहः ॥ १६।३९ ॥
पतमानं समालोक्य पुरं शालकटङ्कटः ।
नमो भवाय शर्वाय इदमुच्चैरुदीरयत् ॥ १६।४० ॥
तमाक्रन्दितमाकर्ण्य चारणा गगनेचराः ।
हा देति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ ॥ १६।४१ ॥
तच्चारणवचः शर्वः श्रुतवान् सर्वगो ऽव्ययः ।
श्रुत्वा सञ्चिन्तयामास केनासौ पात्यते भुवि ॥ १६।४२ ॥
ज्ञातवान् देवपतिना सहस्रकिरणेन तत् ।
पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः ॥ १६।४३ ॥
क्रुद्धस्तु भगवन्तं तं भानुमन्तमपश्यत ।
दृष्टमात्रस्त्रिणेत्रेण निपपात ततो ऽमबरात् ॥ १६।४४ ॥
गगनात् स परिभ्रष्टः पथि वायुनिषेविते ।
यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः ॥ १६।४५ ॥
ततो वायुपथान्मुक्तः किंशुकोज्ज्वलविग्रहः ।
निपपातान्तरिक्षात् स वृतः किन्नरचारणैः ॥ १६।४६ ॥
चारणेर्वेष्टितो भानुः प्रविभात्यम्बरात् पतन् ।
अर्द्धपक्वं यथा तालात् फलं कपिभिरावृतम् ॥ १६।४७ ॥
ततस्तु ऋषयो ऽभ्येत्य प्रत्यूचुर्भानुमालिनम् ।
निपतस्व हरिक्षेत्रे यदि श्रेयो ऽभिवाञ्छसि ॥ १६।४८ ॥
ततो ऽव्रवीत् पतन्नेव विवस्वांस्तांस्तपोधनान् ।
किं तत् क्षेत्रं हरेः पुण्यं वदध्वं शीघ्रमेव मे ॥ १६।४९ ॥
तमूचुर्मुनयः सूर्यं शृणु क्षेत्रं महाफलम् ।
साम्प्रतं वासुदेवस्य भावि तच्छङ्करस्य च ॥ १६।५० ॥
योगशायिनमारभ्य यावत् केशवदर्शनम् ।
एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी ॥ १६।५१ ॥
तच्छ्रुत्वा भगवान् भानुर्भवनेत्राग्नितापितः ।
वरणायास्तथैवास्यास्त्वन्तरे निपपात ह ॥ १६।५२ ॥
ततः प्रदह्यति तनौ निमज्यास्यां लुलद् रविः ।
वरणायां समभ्येत्य न्यमज्जत यथेच्छया ॥ १६।५३ ॥
भुयो ऽसिं वरणां भूयो भूयो ऽपि वरणामसिम् ।
लुलंस्त्रिणेत्रवह्न्यार्त्तो भ्रमते ऽलातचक्रवत् ॥ १६।५४ ॥
एतस्मिन्नन्तरे ब्रह्मन् ऋषयो यक्षराक्षसाः ।
नागा विद्याधराश्चापि पक्षिणो ऽप्सरसस्तथा ॥ १६।५५ ॥
यावन्तो भास्कररथे भूतप्रेतादयः स्थिताः ।
तावन्तो ब्रह्मसदनं गता वेदयितुं मुने ॥ १६।५६ ॥
ततो ब्रह्म सुरपतिः सुरैः सार्ध समभ्यगातट् ।
रम्यं महेश्वरावासं मन्दरं रविकारणात् ॥ १६।५७ ॥
गत्वा दृष्ट्वा च देवेशं शङ्करं शूलपाणिनम् ।
प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत् ॥ १६।५८ ॥
ततो दिवाकरं भूयः पाणिनादाय शङ्करः ।
कृत्वा नामास्य लोलेति रथमारोपयत् पुनः ॥ १६।५९ ॥
आरोपिते दिनकरे ब्रह्माभ्येत्य सुकेशिनम् ।
सबान्धवं सनगरं पुनरारोपयद् दिवि ॥ १६।६० ॥
समारोप्य सुकेशिं च परिष्वज्य च शङ्करम् ।
प्रणम्य केशवं देवं वैराजं स्वगृहं गतः ॥ १६।६१ ॥
एवं पुरा नारद भास्करेण पुरं सुकेशेर्भुवि सन्निपातितम् ।
दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्ट्या न च सम्प्रदग्धः ॥ १६।६२ ॥
आरोपितो भृमितलाद् भवेन भूयो ऽपि भानुः प्रतिभासनाय ।
स्वयम्भुवा चापि निशाचरेन्द्रस् त्वारोपितः खे सपुरः सबन्धुः ॥ १६।६३ ॥

इति श्रीवामनपुराणे षोडशो ऽध्यायः