१५

ऋषय ऊचुः ।
यच्च जर्ज्यं महाबाहो सदाधर्मस्थितैर्नरैः ।
यद्भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम् ॥ १५।१ ॥
भोज्यमन्नं पर्युषितं स्नेहाक्तां चिरसम्भृतम् ।
अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा ॥ १५।२ ॥
शशकः शल्यको गोधा श्वाविधो मत्स्यकच्छपौ ।
तद्वद् द्विदलकादीनि भोज्यानि मनुरब्रवीत् ॥ १५।३ ॥
मणिरत्नप्रवालानां तद्वन्मुक्ताफलस्य च ।
शैलदारुमयानां च तृणमूलौषधान्यपि ॥ १५।४ ॥
शूर्पधान्याजिनानां च संहतानां च वाससाम् ।
वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥ १५।५ ॥
सस्नेहानामथोष्णेन तिलकल्केन वारिणा ।
कार्पासिकानां वस्त्राणां सुद्धिः स्यात्सह भस्मना ॥ १५।६ ॥
नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ।
पुनः पाकेन भाण्डानां मृन्मयानां च मेध्यता ॥ १५।७ ॥
शुचि भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ।
रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम् ॥ १५।८ ॥
वाक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ।
चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि ॥ १५।९ ॥
कर्मान्ताङ्गारशालासु स्तनन्धयसुताः स्त्रियः ।
वाग्विप्रुषो द्विजेन्द्राणां सन्तप्ताश्चाम्बुबिन्दवः ॥ १५।१० ॥
भूमिर्विशुध्यते खातदाहमार्जनगोक्रमैः ।
लेपादुल्लेखनात् सेकाद् वेश्म सम्मार्जनार्जनात् ॥ १५।११ ॥
केशकीटावपन्ने ऽन्ने गोघ्राते मक्षिकान्विते ।
मृदम्बुभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥ १५।१२ ॥
औदुम्बराणां चाम्लेन क्षारेण त्रपुसीसयोः ।
भस्माम्बिभिश्च कांस्यानां शुद्धिः प्लावोद्रवस्य च ॥ १५।१३ ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।
अन्येषामपि द्रव्याणां शुद्धिर्गन्धापहारतः ॥ १५।१४ ॥
मातुः प्रस्रवणे वत्सः शकुनिः फलपातने ।
गर्दभो भारवाहित्वे श्वा मृगग्रहणे शुचिः ॥ १५।१५ ॥
रथ्याकर्दमतोयानि नावः पथि तृणानि च ।
मारुतेनैव सुद्ध्यन्ति पक्वेष्टकचितानि च ॥ १५।१६ ॥
शृतं द्रोणाढकस्यान्नममेध्याभिप्लुतं भवेत् ।
अग्रमुद्धृत्य सन्त्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥ १५।१७ ॥
उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।
अज्ञाते ज्ञातपूर्वे च नैव शुद्धिर्विधीयते ॥ १५।१८ ॥
उदक्याश्वाननग्नांश्च सूतिकान्त्यावसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ १५।१९ ॥
सस्नेहमस्थि संस्पृस्य सवासाः स्नानमाचरेत् ।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च ॥ १५।२० ॥
न लङ्घयेत्पुरीषासृक्ष्ठीवनोद्वर्त्तनानि च ।
गृहादुच्छिष्टविण्मूत्रे पादाम्भांसि क्षिपेद् बहिः ॥ १५।२१ ॥
पञ्चपिण्डाननुद्धत्य न स्नायात् परवारिणि ।
स्नायीत देवखातेषु सरोहदसरित्सु च ॥ १५।२२ ॥
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ।
नालपेद् जनविद्विष्टं वीरहीनां तथा स्त्रियम् ॥ १५।२३ ॥
देवतापितृसच्छास्त्रयज्ञवेदादिनिन्दकैः ।
कृत्वा तु स्पर्शमालापं शुद्ध्यतेर्ऽकावलोकनात् ॥ १५।२४ ॥
अभोज्याः सूतिकाषण्ढमार्जाराखुश्वकुक्कुटाः ।
पतितापविद्धनग्नाश्चाण्डालाद्यधमाश्च ये ॥ १५।२५ ॥
सुकेशिरुवाच ।
भवद्भिः कीर्तिताभोज्या य एते सूतिकादयः ।
अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि हि ॥ १५।२६ ॥
ऋषय ऊचुः ।
ब्राह्मणी ब्राह्मणस्यैव यावरोधत्वमागता ।
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥ १५।२७ ॥
न जुहोत्युचिते काले न स्नाति न ददाति च ।
पितृदेवार्चनाद्धीनः स षण्ढः परिगीयते ॥ १५।२८ ॥
दम्भार्थं जपते यश्च तप्यते यजते तथा ।
न परत्रार्थमुद्यक्तो स मार्जारः प्रकीर्तितिः ॥ १५।२९ ॥
विभवे सति नैवात्ति न ददाति जुहोति च ।
तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण सुद्ध्यति ॥ १५।३० ॥
यः परेषां हि मर्माणि निकृन्तन्निव भाषते ।
नित्यं परगुणद्वेषी स श्वान इति कथ्यते ॥ १५।३१ ॥
सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।
तमाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम् ॥ १५।३२ ॥
स्वघर्मं यः सुत्सृज्य परधर्मं समाश्रयेत् ।
अनापदि स विद्वद्भिः पतितः परिकीर्त्यते ॥ १५।३३ ॥
देवत्यागी पितृत्यागी गुरुभक्त्यरतस्तथा ।
गोब्राह्मणस्त्रीवधकृदपविद्धः स कीर्त्यते ॥ १५।३४ ॥
येषां कुले न वेदो ऽस्ति न सास्त्रं नैव च व्रतम् ।
ते नग्नाः कीर्तिताः सद्भिस् तेषामन्नं विगर्हितम् ॥ १५।३५ ॥
आशार्तानामदाता च दातुश्च प्रतिषेधकः ।
शरणागतं यस्त्यजति स चाण्डालो ऽधमो नरः ॥ १५।३६ ॥
यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि ।
कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ १५।३७ ॥
यो नित्यकर्मणो हानिं कुर्यान्नैमित्तिकस्य च ।
भुक्त्वान्नं तस्य शुद्ध्येत त्रिरात्रोपोषितो नरः ॥ १५।३८ ॥
गणकस्य निषादस्य गणिकाभिषजोस्तथा ।
कदर्यस्यापि शुद्ध्येत त्रिरात्रोपोषितो नरः ॥ १५।३९ ॥
नित्यस्य कर्मणो हानिः केवलं मृतजन्मसु ।
न तु नैमित्तिकोच्छेदः कर्त्तव्यो हि कथञ्चन ॥ १५।४० ॥
जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते ।
मृते च सर्वबन्धूनामित्याह भगवान् भृगुः ॥ १५।४१ ॥
प्रेताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रजैः ।
प्रमे ऽह्नि चतुर्थे वा सप्तमे वास्थिसञ्चयम् ॥ १५।४२ ॥
ऊर्द्ध्वं सञ्चयनात्तेषामङ्गस्पर्शो विधीयते ।
सोदकैस्तु क्रिया कार्या संशुद्धैस्तु सपिण्डजैः ॥ १५।४३ ॥
विषोद्बन्धनशस्त्राम्बुवह्निपातमृतेषु च ।
बाले प्रव्राजि सन्न्यासे देशान्तरमृते तथा ॥ १५।४४ ॥
सद्यः शौचं भवेद्वीर तच्चाप्युक्तं चतुर्विधम् ।
गर्भस्रावे तदेवोक्तं पूर्णकालेन चेतरे ॥ १५।४५ ॥
ब्रह्मणानामहोरात्रं क्षत्रियाणां दिनत्रयम ।
षड्रात्रं चैव वैश्यानां शूद्राणां द्वादशाह्निकम् ॥ १५।४६ ॥
दशद्वादशमासार्द्धमाससङ्ख्यैर्दिंश्च तैः ।
स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाक्रामम् ॥ १५।४७ ॥
प्रेतमुद्दिस्य कर्त्तव्यमेकोद्दिष्टं विधानतः ।
सपिण्डीकरणं कार्यं प्रेते आवत्सरान्नरैः ॥ १५।४८ ॥
ततः पितृत्वमापन्ने दर्शपूर्णादिभिः सुभैः ।
प्रीणनं तस्य कर्त्तव्यं यथा श्रुतिनिदर्शनात् ॥ १५।४९ ॥
पितुरर्थं समुद्दिश्य भूमिदानादिकं स्वयम् ।
कुर्याद्येनास्य सुप्रीताः पितरो यान्ति राक्षस ॥ १५।५० ॥
यद् यदिष्टतमं किञ्चिद् यच्चास्य दयितं गृहे ।
तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ॥ १५।५१ ॥
अध्येतव्या त्रयी नित्यं भाव्यं च विदुषा सदा ।
धर्मतो धनमाहार्यं यष्टव्यं चापि शक्तितः ॥ १५।५२ ॥
यच्चापि कुर्वतो नात्मा जुगुप्सामेति राक्षस ।
तत् कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥ १५।५३ ॥
एवमाचरतो लोके पुरुषस्य गृहे सतः ।
धर्मार्थकामसम्प्राप्तिः परत्रेह च शोभनम् ॥ १५।५४ ॥
एष दूद्देशतः प्रोक्तो गृस्थाश्रम उत्तमः ।
वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामो ऽवधार्यताम् ॥ १५।५५ ॥
अपत्यसन्ततिं दृष्ट्वा प्राज्ञो देहस्य चानतिम् ।
वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामो ऽवधार्यताम् ॥ १५।५६ ॥
तत्रारण्योपभोगैश्च तपोभिश्चात्मकर्षणम् ।
भूमौ शय्या ब्रह्मचर्यं पितृदेवातिथिक्रिया ॥ १५।५७ ॥
होमस्त्रिषवणं स्नानं जटावल्कलधारणम् ।
वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम् ॥ १५।५८ ॥
सर्वसङ्गपरित्यागो ब्रह्मचर्यममानिता ।
जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥ १५।५९ ॥
अननारम्भस्तथाहारो भैक्षान्नं नातिकोपिता ।
आत्मज्ञानावबोधेच्छा तथा चात्मावबोधनम् ॥ १५।६० ॥
चतुर्थे त्वाश्रमे धर्मा अस्माभिस्ते प्रकीर्तिताः ।
वर्णधर्माणि चान्यानि निशामय निशाचर ॥ १५।६१ ॥
गार्हस्थ्यं ब्रह्मचर्यं च वानप्रस्थं त्रयाश्रमाः ।
क्षत्रियस्यापि कथिता ये चाचारा द्विजस्य हि ॥ १५।६२ ॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः ।
गार्हस्थ्ययमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ॥ १५।६३ ॥
स्वानि वर्णाश्रमोक्तानि धर्माणीह न हापयेत् ।
यो हापयति तस्यासौ परिकुप्यति भास्करः ॥ १५।६४ ॥
कुपितः कुलनाशाय ईश्वरो रोगवृद्धये ।
भानुर्वै यतते तस्य नरस्य क्षणदाचर ॥ १५।६५ ॥
तस्मात् स्वरधर्मं न हि सन्त्यजेत न हापयेच्चापि हि नात्मवंशम् ।
यः सन्त्यजेच्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरस्तु ॥ १५।६६ ॥
पुलस्त्य उवाच ।
इत्येवमुक्तो मुनिभिः सुकेशी प्रणम्य तान् ब्रह्मनिधीन् महर्षीन् ।
जगाम चोत्पत्य पुरं स्वकीयं मुहुर्मुहुर्धर्ममवेक्षमाणः ॥ १५।६७ ॥