ऋषय ऊचुः ।
अहिंसा सत्यमस्तं दानं क्षान्तिर्दमः शमः ।
अकार्पण्यं च शौचं च तपश्च रजनीचर ॥ १४।१ ॥
दशाङ्गो राक्षसश्रेष्ठ धर्मो ऽसौ सार्ववर्णिकः ।
ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना ॥ १४।२ ॥
सुकेशिरुवाच ।
विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः ।
आचक्षध्वं न मे तृप्तिः शृण्वतः प्रतिपद्यते ॥ १४।३ ॥
ऋषय ऊचुः ।
कृतोपनयनः सम्यग् ब्रह्मचारी गुरौ वसेत् ।
तत्र धर्मो ऽस्य यस्तं च कथ्यमानं निशामय ॥ १४।४ ॥
स्वाध्यायो ऽथाग्निशुश्रुषा स्नानं भिक्षाटनं तथा ।
गुरोर्निंवेद्य तच्चाद्यमनुज्ञातेन सर्वदा ॥ १४।५ ॥
गुरोः कर्मणि सोद्योगः सम्यक्प्रीत्युपपादनम् ।
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः ॥ १४।६ ॥
एकं द्वौ सकलान् वापि वेदान् प्राप्य सुरोर्मुखात् ।
अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः ॥ १४।७ ॥
गार्हस्थ्याश्रमकामस्तु गार्हस्थ्याश्रममावसेत् ।
वानप्रस्थाश्रमं वापि चतुर्थं स्वेच्छयात्मनः ॥ १४।८ ॥
तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।
गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना ॥ १४।९ ॥
शुश्रूषन् निरभीमानो ब्रह्मचर्याश्रमं वसेत् ।
एवं जयति मृत्युं स द्विजः शालकटङ्कट ॥ १४।१० ॥
उपावृत्तस्ततस्तस्माद् गृहस्थाश्रमकाम्यया ।
असमानर्षिकुलजां कन्यामुद्वहेद् निशाचर ॥ १४।११ ॥
स्वकर्मणा धनं लब्ध्वा पितृदेवातिथीनपि ।
सम्यक् सम्प्रीणयेद् भक्त्या सदाचाररतो द्विजः ॥ १४।१२ ॥
सदाचारो निगदितो युष्माभिर्मम सुव्रताः ।
लक्षणं श्रोतुमिच्ःआमि कथयध्वं तमद्य मे ॥ १४।१३ ॥
ऋषय ऊचुः ।
सदाचारो निगदितस्तव यो ऽस्माभिरादरात् ।
लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर ॥ १४।१४ ॥
गृहस्थेन सदा कार्यमाचारपरिपालनम् ।
न ह्याचारविहिनस्य भद्रमत्र परत्र च ॥ १४।१५ ॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्तते ॥ १४।१६ ॥
हुराचारो हि पुरुषो नेह नामुत्र नन्दते ।
कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥ १४।१७ ॥
तस्य स्वरूपं वक्ष्यामः सदाचारस्य राक्षस ।
शृणुष्वैकमनास्तच्च यदि श्रेयो ऽभिवाञ्छसि ॥ १४।१८ ॥
धर्मो ऽस्य मूलं धनमस्य शाखा पुष्पं च कामः फलमस्य मोक्षः ।
असौ सदाचारतरुः सुकेशिन् संसेवितो येन स पुण्यभोक्त ॥ १४।१९ ॥
ब्रह्मो मुहूर्ते प्रथमं विबुध्येदनुस्मरेद् देववरान् महर्षीन् ।
प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः ॥ १४।२० ॥
सुकेशिरुवाच ।
किं तदुक्तं सुप्रभातं शङ्करेण महात्मना ।
प्रभाते यत् पठन् मर्त्यो मुच्यते पापबन्धनात् ॥ १४।२१ ॥
ऋषय ऊचुः ।
श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम् ।
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते ॥ १४।२२ ॥
ब्रह्म मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४।२३ ॥
भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगौतमः ।
रैभ्यो मरीचिश्च्यवनो ऋभुश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४।२४ ॥
सनत्कुमारः सनकः सनन्दनः सनातनो ऽप्यासुरिपिङ्गलौ च ।
सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४।२५ ॥
पृथ्वी सगन्धा सरसास्तथाऽपः स्पर्शश्च वायुर्ज्वलनः सतेजाः ।
नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम् ॥ १४।२६ ॥
सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवराश्च सप्त ।
भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम् ॥ १४।२७ ॥
इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा शृमुयाच्च भक्त्या ।
दुःस्वप्ननाशो ऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात् ॥ १४।२८ ॥
ततः समुत्थाय विचिन्तयेन धर्मं तथार्थं च विहाय शय्याम् ।
उत्थाय पश्चाद्धरिरित्युदीर्य गच्छेत् तदोत्सर्गविधिं हि कर्तुम् ॥ १४।२९ ॥
न देवगोब्राह्मणवह्निमार्गे न राजमार्गे न चतुष्पथे च ।
कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम् ॥ १४।३० ॥
ततस्तु शौचार्थमुपाहरेन्मृदं गुदे त्रयं पाणितले च सप्त ।
तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत ॥ १४।३१ ॥
नान्तर्जलाद्राक्षस मूषिकस्थलात् शौचावशिष्टा शरणात् तथान्या ।
वल्मीकमृच्चैव हि शौचनाय ग्राह्य सदाचारविदा नरेण ॥ १४।३२ ॥
उदङ्मुखः प्राङ्मुखो वापि विद्वान् प्रक्षाल्य पादौ भुवि सन्निविष्टः ।
समाचमेदद्भिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः ॥ १४।३३ ॥
ततः स्पृशेत्खानि शिरः करेण सन्ध्यामुपासीत ततः क्रमेण ।
केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च ॥ १४।३४ ॥
कृत्वा शिरःस्नानमथाङिड्कं वा सम्पूज्य तोयेन पितॄन् सदेवान् ।
होमं च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम् ॥ १४।३५ ॥
दूर्वादधिसर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् ।
मृद्गोमयं स्वस्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च ॥ १४।३६ ॥
श्वेतानि पुष्पाण्यथ शोभनानि हुताशनं चन्दमर्कबिम्बम् ।
अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम् ॥ १४।३७ ॥
देशानुशिष्टं कुल धर्ममग्र्यं स्वगोत्रधर्मं न हि सन्त्यजेत् ।
तेनार्थसिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम् ॥ १४।३८ ॥
न निष्ठुरं नागमशास्त्रहीनं वाक्यं वदेत्साधुजनेन येन ।
निन्द्यो भवेन्नैव च धर्मःएदी सङ्गं न चासत्सु नरेषु कुर्यात् ॥ १४।३९ ॥
सन्ध्यासु वर्ज्यं सुरतं दिवा च सर्वासु योनीषु पराबलासु ।
आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर ॥ १४।४० ॥
वृथाटनं था दानं वृथा च पशुमारणम् ।
न कर्त्तव्यं गृहस्थेन वृता दारपरिग्रहम् ॥ १४।४१ ॥
वृथाटनान्नित्यहानिर्वृथादानाद्धनक्षयः ।
वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम् ॥ १४।४२ ॥
सन्तत्या हानिरश्लाघया वर्णसङ्करतो भयम् ।
भेतव्यं च भवेल्लोके वृथादारपरिग्रहात् ॥ १४।४३ ॥
परस्वे परदारे च न कार्या बुद्धिरुत्तमैः ।
परस्वं नरकायैव परदाराश्च मृत्यवे ॥ १४।४४ ॥
नेक्षेत् परस्त्रियं नग्नां न सम्भाषेन तस्करान् ।
उद्क्यादर्शनं स्पर्शं सम्भाषं च विवर्जयेत् ॥ १४।४५ ॥
नैकासने तथा स्थेयं सोदर्या परजायया ।
तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि ॥ १४।४६ ॥
न च स्नायीत वै नग्नो न शयीत कदाचन ।
दिग्वाससो ऽपि न तथा परिभ्रमणमिष्यते। ।
भिन्नासनभाजनादीन् दूरतः परिवर्जयेत् ॥ १४।४७ ॥
नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् ।
पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत ॥ १४।४८ ॥
नाभ्यङ्गमर्के न च भूमिपुत्रे क्षौरं च शुक्रे रविजे च मांसम् ।
बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥ १४।४९ ॥
चित्रासु हस्ते श्रवणे च तैलं क्षौरं विशाखास्वभिजित्सुवर्ज्यम् ।
मूले मृगे भाग्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥ १४।५० ॥
सदैव जर्ज्यं शयनमुदक्शिरास् तथा प्रतीच्यां रजनीचरेश ।
भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम् ॥ १४।५१ ॥
देवालयं चैत्यतरुं चतुष्पथं विद्याधिकं चापि गुरुं प्रदक्षिणम् ।
माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद् बुधः ॥ १४।५२ ॥
स्नायाच्छिरःस्नानतया च नित्यं न कारणं चैव विना निशासु ।
ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशङ्के ॥ १४।५३ ॥
नाभ्यङ्गितं कायमुपस्पृशेच्च स्नातो न केशान् विधुनीत चापि ।
गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद् रजनीचरेश ॥ १४।५४ ॥
वसेच्च देशेषु सुराजकेषु सुसंहितेष्वेव जनेषु नित्यम् ।
अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र ॥ १४।५५ ॥
न तेषु देशेषु वसेत बुद्धिमान् सदा नृपो दण्डरुचिस्त्वशक्तः ।
जनो ऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र ॥ १४।५६ ॥
इति श्रीवामनपुराणे चतुर्दशो ऽध्यायः