सुकेशिरुवाच ।
भवद्भिरुदिता घोरा पुष्करद्वीपसंस्थितिः ।
जम्बूद्वीपस्य संस्थानं कथयन्तु महर्षयः ॥ १३।१ ॥
ऋषय ऊचुः ।
जम्बूद्वीपस्य संस्थानं कथ्यमानं निसामय ।
नवभेदं सुविस्तीर्णं स्वर्गसोक्षफलप्रदम् ॥ १३।२ ॥
मध्ये त्विलावृतो वर्षो भद्रश्वः पूर्वतो ऽद्भुतः ।
पूर्व उत्तरतश्चापि हिरण्यो राक्षसेश्वर ॥ १३।३ ॥
पूर्वदक्षिणतश्चापि किन्नरो वर्ष उच्यते ।
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपशचिमे ॥ १३।४ ॥
पश्चिमे केकुमालश्च रम्यकः पश्चिमोत्तरे ।
उत्तरे च कुरुर्वर्षः कल्पवृक्षसमावृतः ॥ १३।५ ॥
पुण्या रम्या नवैवैते वर्षाः शालकटङ्कट ।
इलावृताद्या ये चाष्टौ वर्षं मुक्त्वैव भारतम् ॥ १३।६ ॥
न तेष्वस्ति युगावस्था जरामृत्युभयं न च ।
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्यत्नतः ।
विपर्ययो न तेष्वस्ति नोत्तमाधममध्यमाः ॥ १३।७ ॥
यदेतद् भारतं वर्षं नवद्वीपं निसाचर ।
सागरान्तरिताः सर्वे अगम्याश्च परस्परम् ॥ १३।८ ॥
इन्द्रीपः कसेरुमांस्ताम्रवर्णो गभस्तिमान् ।
नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ॥ १३।९ ॥
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।
कुमाराख्यः परिख्यातो द्वीपो ऽयं दक्षिणोत्तरः ॥ १३।१० ॥
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ।
आन्ध्रा दक्षिमते वीर तुरुष्कास्त्वपि चोत्तरे ॥ १३।११ ॥
ब्राह्मणाः क्षत्रिया वैश्याः सूद्राश्चान्तरवासिनः ।
इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ॥ १३।१२ ॥
तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ।
स्वर्गापवर्गप्राप्तिश्च पुण्यं पापं तथैव च । ।
१३।१३ महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १३।१४ ॥
तथान्ये शतसाहस्रा भूधरा मध्यवासिनाः ।
विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः ॥ १३।१५ ॥
कोलाहलः सवैभ्राजो मन्दरो दुर्दराचलः ।
वातन्धमो वैद्युतश्च मैनाकः सरसस्तथा ॥ १३।१६ ॥
तुङ्गप्रस्थो नागगिरिस्तथा गोवर्धनाचलः ।
उज्जायनः पुष्पगिरिरर्बुदो रैवतस्तथा ॥ १३।१७ ॥
ऋष्यमूकः सगोमन्तश्चित्रकूटः कृतस्मरः ।
श्रीपर्वतः कोङ्गणश्च शतशऽन्ये ऽपि पर्वताः ॥ १३।१८ ॥
तैर्विमिश्रा जनपदा म्लेच्छा आर्याश्च भागशः ।
तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ् निशामयः ॥ १३।१९ ॥
सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती ।
शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः ॥ १३।२० ॥
मधुरा हाररावी च उशीरा धातुकी रसा ।
गोमती धूतपापा च बाहुदा सदृषद्वती ॥ १३।२१ ॥
निश्चिरा गण्डकी चित्रा कौशिकी च वधूसरा ।
सरूश्च सलौहित्या हिमवत्पादनिःसृताः ॥ १३।२२ ॥
वेदस्मृतिर्वेदसिनी वृत्रघ्नी सिन्धुरेव च ।
पर्णाशा नन्दिनी चैव पावनी च मही तथा ॥ १३।२३ ॥
पारा चर्मण्वती लूपी विदिशा वेणुमत्यपि ।
सिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥ १३।२४ ॥
शोणो महानदश्चैव नर्मदा सुरसा कृपा ।
मन्दाकिनी दशार्णा च चित्रकूटापवाहिका ॥ १३।२५ ॥
चित्रोत्पला वै तमसा करमोदा पिशाचिका ।
तथान्या पिप्पलश्रोणी विपाशा वञ्जुलावती ॥ १३।२६ ॥
सत्सन्तजा शुक्तिमती मञ्जिष्ठा कृत्तिसा वसुः ।
ऋक्षपादप्रसूता च तथान्या बलवाहिनी ॥ १३।२७ ॥
शिवा पयोष्णी निर्विन्ध्या तापी सनिषधावती ।
वेण वैतरणी चैव सिनीवाहुः कुमुद्वती ॥ १३।२८ ॥
तोया चैव महागैरी दुर्गन्धा वाशिलाः तथा ।
विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥ १३।२९ ॥
गोदावरी भीमरथी कृष्णा वेणा सरस्वती ।
तुङ्गभद्रा सुप्रयोगा वाह्या कावेरिरेव च ॥ १३।३० ॥
दुग्धोदा नलिनी रेव वारिसेना कलस्वना ।
एतास्त्वपि महानद्यः सह्यपादविनिर्गताः ॥ १३।३१ ॥
कृतमाला ताम्रर्णी वढ्जुला चोत्पलावती ।
सिनी चैव सुदामा च शुक्तिमत्प्रभवास्त्विमाः ॥ १३।३२ ॥
सर्वाः पुण्याः सरस्वत्यः पापप्रशमनास्तथा ।
जगतो मातरः सर्वाः सर्वाः सागरयोषितः ॥ १३।३३ ॥
अन्याः सहस्रशश्चात्र क्षुद्रनद्यो हि राक्षस ।
सदाकालवहाश्चान्याः प्रवृट्कालवहास्तथा ।
उदङ्मध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः ॥ १३।३४ ॥
मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्जालकाश्याः सह कोसलाभिः ॥ १३।३५ ॥
वृकाः शबरकौवीराः सभूलिङ्गा जनास्त्विमे ।
शकाश्चैव समशका मध्यदेश्य जनास्त्विमे ॥ १३।३६ ॥
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ।
अपरान्तास्तथा शूद्राः पह्लावाश्च सखेटकाः ॥ १३।३७ ॥
गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ।
शातद्रवा ललित्थाश्च पारावतसमूषकाः ॥ १३।३८ ॥
माठरोदकधाराश्चज कैकैया दशमास्तथा ।
श्रत्रियाः प्रतिवैश्याश्च वैश्यशूद्रकुलानि च ॥ १३।३९ ॥
काम्बोजा दरदाश्चैव बर्बरा ह्यङ्गलौकिकाः ।
चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः ॥ १३।४० ॥
आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ।
लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सहा ॥ १३।४१ ॥
औरसाश्चालिमद्राश्च किरातानां च जातयः ।
तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा ॥ १३।४२ ॥
कुलूताः कुहुका ऊर्णास्तूणीपादाः सुकुक्कुटाः ।
माण्डव्या मालवीयाश्च उत्तरापथवासिनः ॥ १३।४३ ॥
अङ्गा वङ्गा मुद्गरवास्त्वन्तर्गिरिबहिर्गिराः ।
तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः ॥ १३।४४ ॥
ब्रह्मोत्तरा प्राविजया भार्गवाः केशवर्राः ।
प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः ॥ १३।४५ ॥
माला मगधगोनन्दाः प्राच्य नजपदास्त्विमे ।
पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस ॥ १३।४६ ॥
जातुषा मूषिकादाश्च कुमारादा महाशकाः ।
महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः ॥ १३।४७ ॥
आभीराः सह नैषीका आरण्याः शबराश्च ये ।
वलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥ १३।४८ ॥
पौरिकः सौशिकाश्चैव अश्मका भोगवर्द्धनाः ।
वैषिकाः कुन्दला अन्ध्रा उद्भिदा नलकारकाः ।
दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः ॥ १३।४९ ॥
सूर्पारका कारिवना दुर्गास्तालीकटैः सह ।
पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा ॥ १३।५० ॥
कारस्करास्तु रमिनो नासिक्यान्तरनर्मदाः ।
भारकच्छाः समाहेयाः सह सारस्वतैरपि ॥ १३।५१ ॥
वात्सेयाश्च सुराष्ट्राश्च आवन्त्याश्चार्बुदैः सह ।
इत्येते पश्चिमामाशां स्थिता जानपदा जनाः ।
॥
१३।५२ कारुषाश्चैकलव्याश्च मेकलाश्चोत्कलैः सह ।
उत्तमर्णा दशार्णाश्च भोजाः किङ्कवरैः सह ॥ १३।५३ ॥
तोशला कोशलाश्चैव त्रैपुराश्चैल्लिकास्तथा ।
तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह ॥ १३।५४ ॥
अनूपास्तुण्डिकेराश्च वीतहोत्रास्त्ववन्तयः ।
सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः ॥ १३।५५ ॥
अथो देशान् प्रवक्ष्यामः पर्वताश्रयिणस्तु ये ।
निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः ॥ १३।५६ ॥
कुथप्रावरणाश्चैव ऊर्णाः चपुण्याः सहूहुकाः ।
त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः ॥ १३।५७ ॥
इमे तवोक्ता विषयाः सुविस्तराद् द्विपे कुमारे रजनीचरेश ।
एतेषु देशेषु च देशधर्मान् सङ्कीर्त्यमानाञ् शृणु तत्त्वातो हि ॥ १३।५८ ॥
इती श्रीवामनपुराणे त्रयोदशो ऽध्यायः