सुकेशिरुवाच ।
कर्मणा नरकानेतान् केन गच्छन्ति वै कथम् ।
एतद् वदन्तु विप्रेन्द्राः परं कौतूहलं मम ॥ १२।१ ॥
ऋषय ऊचुः ।
कर्मणा येन येनेह यान्ति शालकटङ्कट ।
स्वकर्मफलभोगार्थं नरकान् मे शृणुष्व तान् ॥ १२।२ ॥
वेदवेवद्विजातीनां यैर्निन्दा सततं कृता ।
ये पुराणेतिहासार्थान् नाभिनन्दन्ति पापिनः ॥ १२।३ ॥
कुरुनिन्दाकरा ये च सखविघ्नकराश्च ये ।
दातुर्निवारकाये च तेषु ते निपतन्ति हि । ।
१२।४ सुहृद्दम्पतिसोदर्यस्वामिभृत्यपितासुतान् ।
याज्योपाध्याययोर्यैश्च कृतो भेदो ऽधमैर्मिथः ॥ १२।५ ॥
कन्यामेकस्य दत्त्वा च ददत्यन्यस्य ये ऽधमाः ।
करपत्रेण पाट्यन्ते ते द्विधा यमकिङ्करैः ॥ १२।६ ॥
परोपतापजनकाश्चन्दनोशीरहारिणः ।
बालव्यजनहर्त्तारः करम्भसिकताश्रिताः ॥ १२।७ ॥
निमन्त्रितो ऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके ।
स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः ॥ १२।८ ॥
मर्माणि यस्तु साधूनां तुदन् वाग्भिर्निकृन्तति ।
तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पत्त्रिणः ॥ १२।९ ॥
यः करोति च पैशुन्यं साधूनामन्यथामतिः ।
वज्रतुण्डनखा जिह्वामाकर्षन्ते ऽस्य वायसाः ॥ १२।१० ॥
मातापितृगुरूणां च ये ऽवज्ञां चक्रुरुद्धताः ।
मज्जन्ते पूयविम्मूत्रे त्प्रतिष्ठे ह्यधोसुखाः ॥ १२।११ ॥
देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च ।
अभुक्तवत्सु ये ऽश्नन्ति बालपित्रग्निमातृषु ॥ १२।१२ ॥
दुष्टचासृक्पूयनिर्यासं भुञ्जते त्वधमा इमे ।
सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः ॥ १२।१३ ॥
एकपङ्क्त्युपविष्टानां विषमं भोजयन्ति ये ।
विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च ॥ १२।१४ ॥
एकसार्थप्रयातं ये पश्यन्तश्चार्थिनं नराः ।
असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम् ॥ १२।१५ ॥
गोब्राह्णणाग्नयः स्पृष्टा यैरुच्छिष्टैः क्षपाचर ।
क्षिप्यन्ते हि करास्तेषां तप्तसुम्भे सुदारुणे ॥ १२।१६ ॥
सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैश्च कामतः ।
तेषां नेत्रगतो वह्निर्धम्यते यमकिङ्करैः ॥ १२।१७ ॥
मित्रजायाथ जननी ज्येष्ठो भ्राता पिता स्वसा ।
जामयो गुरवो वृद्धा यैः संस्पृष्टाः पदा नृभिः ॥ १२।१८ ॥
बद्धाङ्घ्रयस्ते विगडैर्लोहैर्वाह्निप्रतापितैः ।
क्षिप्यन्ते रौरवे घोरे ह्याजानुपरिदाहिनः ॥ १२।१९ ॥
पायसं कृशरं मांसं वृथा भुक्तानि यैर्नरैः ।
तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदने ऽद्भुताः ॥ १२।२० ॥
गुरुदेवद्विजातीनां वेदानां च नराधमैः ।
निन्दा निशामिता यैस्तु पापानामिति कुर्वताम् ॥ १२।२१ ॥
तेषां लोहमयाः कीला वह्निवर्णाः पुनः पुनः ।
श्रवणेषु निखन्यन्ते धर्मराजस्य किङ्करैः ॥ १२।२२ ॥
प्रपादेवकुलालामान् विप्रवेश्मसभामठान् ।
कूपवापीतडागांश्च भङ्क्त्वा विध्वंसयन्ति ये ॥ १२।२३ ॥
तेषां विलपतां चर्म देहतः क्रियते पृथक् ।
कर्त्तिकाभिः सुतीक्ष्णीभिः सुरौद्रैर्यमकिङ्करैः ॥ १२।२४ ॥
गोब्राह्मणार्कमग्निं च ये वै मेहन्ति मानवाः ।
तेषां गुदेव चान्त्राणि विनिःकृन्तन्ति वायसाः ॥ १२।२५ ॥
स्वपोषणपरो यस्तु परित्यजति मानवः ।
पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चनम् ।
दुर्भिक्षे सम्भ्रमे चापि स श्वभोज्ये निपात्यते ॥ १२।२६ ॥
शरणागतं ये त्यजन्ति ये च बन्धनपालकाः ।
पतन्ति यन्त्रपीडे ते ताड्य मानास्तु किङ्करैः ॥ १२।२७ ॥
क्लेशयन्ति हि विप्रादीन् ये ह्यकर्मसु पापिनः ।
ते पिष्यन्ते शिलापेषे शोष्यनते ऽपि च शोषकैः ॥ १२।२८ ॥
न्यासापहारिणः पापा बध्यन्ते निगडैरपि ।
श्रुत्क्षामाः शुष्कताल्वोष्ठाः पात्यन्ते वृश्चिकाशने ॥ १२।२९ ॥
पर्वमैथुनिनः पापाः परदाररताश्च ये ।
ते वह्नितप्तां कूटाग्रामालिङ्गन्ते च शाल्मलीम् ॥ १२।३० ॥
उपाध्यायमधःकृत्य यैरधीतं द्विजाधमैः ।
तेषामध्यापको यश्च स शिलां शिरसा वहेत् ॥ १२।३१ ॥
मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि ।
ते पात्यन्ते च विण्मूत्रे दुर्गन्धे पूयपूरिते ॥ १२।३२ ॥
श्राद्धातिथेयमन्योन्यं यैर्भुक्तं भुवि मानवैः ।
परस्परं भक्षयन्ते मांसानि स्वानि बालिशाः ॥ १२।३३ ॥
वेदवह्निगुरुत्यागी भार्यापित्रोस्तथैव च। गिरिशृड्गादधःपातं पात्यन्ते यमकिङ्करैः ॥ १२।३४ ॥
पुनर्भूपतयो ये च कन्याविध्वंसकाश्च ये ।
तद्गर्भश्राद्धभुग् यश्च कृमीन्भक्षेत्पिपीलिकाः ॥ १२।३५ ॥
चाण्डालादन्त्यजाद्वापि प्रतिगृह्णाति दक्षिणाम् ।
याजको यजमानश्च सो ऽस्मान्तः स्थूलकीटकः ॥ १२।३६ ॥
पृष्ठमांसाशिनो मूढास्तथैवोत्कोचजीविनः ।
क्षिप्यन्ते वृकभक्षे ते नरके रजनीचर ॥ १२।३७ ॥
स्वर्णस्तेयी च ब्रह्मघ्नः सुरापो गुरुलल्पगः ।
तथा गोभूमिहर्त्तरो गोस्त्रीबालहनाश्च ये ॥ १२।३८ ॥
एत नरा द्विजा ये च गोषु विक्रयिणस्तथा ।
सोमविक्रयिणो ये च वेदविक्रयिणस्तथा ॥ १२।३९ ॥
कूटसभ्यास्त्वशौचाश्च नित्यनैमित्तनाशकाः ।
कूटसाक्ष्यप्रदा ये च ते महारौरवे स्थिताः ॥ १२।४० ॥
दशवर्ष सहस्राणि तावत् तामिस्रके स्थिताः ।
तावच्चैवान्धतामिस्रे असिपत्रवने ततः ॥ १२।४१ ॥
तावच्चैव घटीयन्त्रे तप्तकुम्भे ततः परम् ।
प्रपातो भवते तेषां यैरिदं दुष्कृतं कृतम् ॥ १२।४२ ॥
ये त्वेते नरका रौद्रा रौरवाद्यास्तवोदिताः ।
ते सर्वे क्रमशः प्रोक्ताः कृतघ्ने लोकनिन्दिते ॥ १२।४३ ॥
यथा सुराणां प्रवरो जनार्दनो यथा गिरीणामपि शैशिराद्रिः ।
यथायुधानां प्रवरं सुदर्शनं यथा खगानां विनतातनूजः ।
महोरगाणां प्रवरो ऽप्यनन्तो यथा च भूतेषु मही प्रधाना ॥ १२।४४ ॥
नदीषु गङ्गा जलजेषु पद्मं सुरारिमुख्येषु हराङ्घ्रिभक्तः ।
क्षेत्रेषु यद्वत्कुरुजङ्गलं वरं तीर्थेषु यद्वत् प्रवरं पृथूदकम् ॥ १२।४५ ॥
सरस्सु चैवोत्तरमानसं यथा वनेषु पुण्येषु हि नन्दनं यथा ।
लोकेषु यद्वत्सदनं विरिञ्चेः सत्यं यथा धर्मविधिक्रियासु ॥ १२।४६ ॥
यथाश्वमेधः प्रवरः क्रतूनां पुत्रो यथा स्पर्शवतां वरिष्ठः ।
तपोधनानामपि सुम्भयोनिः श्रुतिर्वरा यद्वदिहागमेषु ॥ १२।४७ ॥
मुख्यः पुराणेषु यथैव मात्स्यः स्वायम्भुवोक्तिस्त्वपि संहितासु ।
मनुः स्मृतीनां प्रवरो यथैव तिथीषु दर्शा विषुवेषु दानम् ॥ १२।४८ ॥
तेजस्विनां यद्वदिहार्क उक्तो ऋक्षेषु चन्द्रो जलधिर्ह्वदेषु ।
भवान् यथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः ॥ १२।४९ ॥
धान्येषु शलिर्द्विपदेषु विप्रः चतुष्पदे गौः श्वपदां मृगेन्द्रः ।
पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा श्रमीणां गृहस्थः ॥ १२।५० ॥
कुशस्थली श्रेष्ठतमा पुरेषु देशेषु सर्वेषु च मध्यदेशः ।
फलेषु चूतो मुकुलेष्वशोकः सर्वौषधीनां प्रवरा च पथ्या ॥ १२।५१ ॥
मूलेषु कन्दः प्रवरो यथोक्तो व्याधिष्वजीर्णं क्षणदाचरेन्द्र ।
श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरणेषु यद्वत् ॥ १२।५२ ॥
कलासु मुख्या गणितज्ञता च विज्ञानमुख्येषु यथेन्द्रजालम् ।
शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव ॥ १२।५३ ॥
तुङ्ड्गेषु तालो नलिनीषु पम्पा वनौकसेष्वेव च ऋक्षराजः ।
महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः ॥ १२।५४ ॥
यथा सतीनां हिमवत्सुता हि यथार्जुनीनां कपिला वरिष्ठा ।
यथा वृषाणामपि नीलवर्णो यथैव सर्वेष्वपि दुःसहेषु ।
दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना ॥ १२।५५ ॥
पापीयसां तद्वदिह कृघ्नाः सर्वेषु पापेषु वनशाचरेन्द्र ।
ब्रह्मघ्नगोघ्नादिषु निष्कृतिर्हि विद्येतत नैवास्य तु दुष्टचारिणः ।
न निष्कृतिश्चास्ति कृतघ्नवृत्तेः सुहृत्कृतं नाशयतो ऽब्दकोटिभिः ॥ १२।५६ ॥
इति श्रीवामनपुराणे द्वादशो ऽध्यायः