११

नारद उवाच ।
यदेतद् भवता प्रोक्तं सुकेशिनकरो ऽम्बरात् ।
पातितो भुवि सूर्योण तत्कदा कुत्र कुत्र च ॥ ११।१ ॥
सुकेशीति च कश्चासौ केन दत्तः पुरो ऽस्य च ।
किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि ॥ ११।२ ॥
पुलस्त्य उवाच। ।
शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।
यथोक्तवान् स्वयम्भूर्मां कथ्यमानां मयानघ ॥ ११।३ ॥
आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः ।
तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः ॥ ११।४ ॥
तस्य तुष्टस्तथेशानः पुरमाकाशचारिणम् ।
प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम् ॥ ११।५ ॥
स चापि शङ्करात् प्राप्य वरं गगनगं पुरम् ।
रेमे निशाचरैः सार्द्धू सदा धर्मपथि स्थितः ॥ ११।६ ॥
स कदाचिद् गतो ऽरण्यं मागधं राक्षसेश्वरः ।
तत्राश्रमांस्तु ददृशो ऋषीणां भावितात्मनाम् ॥ ११।७ ॥
महर्षिन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च। प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः ॥ ११।८ ॥
सुकेशिरुवाच ।
प्रष्टुमिच्छामि भवतः संशयो ऽयं हृदि स्थितः ।
कथयन्तु भवन्तो मे न चौवाज्ञापयाम्यहम् ॥ ११।९ ॥
किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः ।
केन पूज्यस्तथा सत्सु केनासौ सुखमेधते ॥ ११।१० ॥
पुलस्त्य उवाच। ।
इत्थं सुकेशिवचनं निशम्य परमर्षयः ।
प्रोचुर्विमृस्य श्रेयोर्ऽथमिह लोके परत्र च ॥ ११।११ ॥
ऋष ऊचुः ।
श्रूयतां कथयिष्यामस्तव राक्षसपुङ्गव ।
यद्धि श्रेयो भवेद् वीर इह चामुत्र चाव्ययम् ॥ ११।१२ ॥
श्रेयो धर्मः परे लोके इह च क्षणदाचर ।
तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत् ॥ ११।१३ ॥
सुकेशिरुवाच ।
किंलक्षणो भवेद् धर्मः किमाचरणसत्क्रियः ।
यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम् ॥ ११।१४ ॥
ऋषय ऊचुः ।
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता ॥ ११।१५ ॥
दैत्यानां बाहुशलित्वं मात्सर्यं युद्धसत्क्रिया ।
वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता ॥ ११।१६ ॥
सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा ।
स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ॥ ११।१७ ॥
उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता ।
सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते ॥ ११।१८ ॥
विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः ।
विद्याधराणां धर्मो ऽयं भवान्यां भक्तिरेव च ॥ ११।१९ ॥
गन्धर्वविद्यावेदित्वं भक्तिर्भानौ तथा स्थिरा ।
कौशल्यं सर्वशिल्पानां धर्मः किम्पुरुषः स्मृतः ॥ ११।२० ॥
ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा ।
सर्वत्र कामचारितवं धर्मो ऽयं पैतृकः स्मृतः ॥ ११।२१ ॥
ब्रह्मचर्यं यताशित्वं जप्यं ज्ञानं च राक्षस ।
नियमाद्धर्मवेदित्वमार्थो धर्मः प्रचक्ष्यते ॥ ११।२२ ॥
स्वाध्यायं ब्रह्मचर्यं च दानं यजनमेव च ।
अकार्पण्यमनायासं दयाहिंसा क्षमा दमः ॥ ११।२३ ॥
जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते ।
शङ्करे भास्करे देव्यां धर्मो ऽयं मानवः स्मृतः ॥ ११।२४ ॥
धनाधिपत्यं भोगानि स्वाध्यायं शकरर्चनम् ।
अहङ्कारमशौण्डीर्यं धर्मो ऽयं गुह्यकेष्विति ॥ ११।२५ ॥
परदारावमर्शित्वं पारक्येर्ऽथे च लोलुपा ।
स्वाध्यायं त्र्यम्बके भक्तिर्धर्मो ऽयं राक्षसः स्मृतः ॥ ११।२६ ॥
अविवेकमथाज्ञानं शौचहानिरसत्यता ।
पिशाचानामयं धर्मः सदा चामिषगृध्नुता ॥ ११।२७ ॥
योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस ।
ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः ॥ ११।२८ ॥
सुकेशिरुवाच ।
भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः ।
तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ ॥ ११।२९ ॥
ऋषय ऊचुः ।
शृणुष्व मनुजादीनां धर्मास्तु क्षणदाचर ।
ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु ॥ ११।३० ॥
योजनानां प्रमाणेणन पञ्चाशत्कोटिरायता ।
जलोपरि महीयं हि नौरिवास्ते सरिज्जले ॥ ११।३१ ॥
तस्योपरि च देवेशो ब्रह्म शौलेन्द्रमुत्तमम् ।
कर्णिकाकारमत्युच्चं स्थापयामास सत्त्म ॥ ११।३२ ॥
तस्येमां निर्ममे पुण्यां प्रजां देवश्चतुर्दिशम् ।
स्थानानि द्वीपसञ्ज्ञानि कृतवांश्च प्रजापतिः ॥ ११।३३ ॥
तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम् ।
तल्लक्षं योजनानां च प्रमाणेन निगद्यते ॥ ११।३४ ॥
ततो जलनिधी रौद्रो बाह्यतो द्विगुणः स्थितः ।
तस्यापि द्विगुणः प्लक्षो बाह्यतः सम्प्रतिष्ठितः ॥ ११।३५ ॥
ततस्त्विक्षुरसोदश्च बाह्यतो वलयासृतिः ।
द्विगुणः शाल्मलिद्वीपो द्विगुणो ऽस्य महोदधेः ॥ ११।३६ ॥
सुरोदो द्विगुणस्तस्य तस्माच्च द्विगुणः कुशः ।
घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः ॥ ११।३७ ॥
घृतोदाद् द्विगुणः प्रोक्तः क्रौञ्चद्वीपो निशाचर ।
ततो ऽपि द्विगुणः प्रोक्तः समुद्रो दधिसञ्ज्ञितः ॥ ११।३८ ॥
समुद्राद् द्विगुणः शाकः शाकाद् दुग्धाब्धिरुत्तमः ।
द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः ।
एते च द्विगुणाः सर्वे परस्परमपि स्थिताः ॥ ११।३९ ॥
चत्वारिंशदिमाः कोट्यो लक्षाश्च नवतिः स्मृताः ।
योजनानां राक्षसेन्द्र पञ्च चाति सुवुस्तृताः ।
जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः ॥ ११।४० ॥
तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम् ।
कोट्यश्चतस्रो लक्षाणां द्विपञ्चाशच्च राक्षस ॥ ११।४१ ॥
पुष्करद्वीपमानो ऽयं तावदेव तथोदधिः ।
लक्षमण्डकटाहेन समन्तादिभिपूरितम् ॥ ११।४२ ॥
एवं द्वीपास्त्विमे सप्त पृथग्धर्माः पृथक्क्रियाः ।
गदिष्यामस्तव वयं शृमुष्व त्वं निशाचर ॥ ११।४३ ॥
प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः ।
शाकान्तेषु न तेष्वस्ति युगावस्था कथञ्चन ॥ ११।४४ ॥
मोदन्ते देववत्तेषां धर्मो दिव्य उदाहृतः ।
कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज ॥ ११।४५ ॥
ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने ।
पैशाचमाश्रिता धर्मं कर्मान्ते ते विनाशिनः ॥ ११।४६ ॥
सुकेशिरुवाच ।
किमर्थं पुष्कद्वीपो भवद्भिः समुदाहृतः ।
दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत् ॥ ११।४७ ॥
तस्मिन् निशाचर द्वीपे नरकाः सन्ति दारुणाः ।
रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः ॥ ११।४८ ॥
सुकेशिरुवाच ।
कियन्त्येतानि रौद्राणि नरकाणि तपोधनः ।
कियन्मात्राणि मार्गेण का च तेषु स्वरूपता ॥ ११।४९ ॥
ऋषय ऊचुः ।
शृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा ।
सर्वेषां रौरवादीनां सङ्ख्या या त्वेकविंशतिः ॥ ११।५० ॥
द्वे सहस्रे योजनानां ज्वलिताङ्गारविस्तृते ।
रौरवो नाम नरकः प्रथमः परिकीर्त्तितः ॥ ११।५१ ॥
तप्तताम्रमयी भूमिरधस्ताद्वाह्नितापिता ।
द्वितीयो द्विगुस्तस्मान्महारौरव उच्यते ॥ ११।५२ ॥
ततो ऽपि द्विःस्थितश्चान्यस्तमिस्रो नरकः स्मृतः ।
अन्धतामिस्रको नाम चतुर्थो द्विगुमः परः ॥ ११।५३ ॥
ततस्तु कालचक्रेति पञ्चमः परिगीयते ।
अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम् ॥ ११।५४ ॥
असिपत्रवनं चान्यत्सहस्राणि द्विसप्ततिः ।
योजनानां परिख्यातमष्टमं नरकोत्तमम् ॥ ११।५५ ॥
नमकं तप्तकुम्भं च दशमं कूटशाल्मलिः ।
करपत्रस्तथैवोक्तस्तथान्यः श्वानभोजनः ॥ ११।५६ ॥
सन्दंशो लोहपिण्डश्च करम्भसिकता तथा ।
घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः ।
तथाष्टादशमी प्रोक्ता घोरा वैतरणी नदी ॥ ११।५७ ॥
तथापरः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः ।
संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन् ॥ ११।५८ ॥

इति श्रीवामनपुराणे एकादशो ऽध्यायः