पुलस्त्य उवाच ।
ततः प्रवृत्ते सङ्ग्रामे भीरूणां भयवर्धने ।
सहस्रक्षो महाचापमादाय व्यसृजच्छरान् ॥ १०।१ ॥
अन्धको ऽपि महावेगं धनुराकृष्य भास्वरम् ।
पुरन्दराय चिक्षेप शरान् बर्हिणवाससः ॥ १०।२ ॥
तावन्योन्यं सुतीक्ष्णाग्रैः शरैः सन्नतपर्वभिः ।
रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि ॥ १०।३ ॥
चचः क्रुद्धूः शतमखः कुलिशं भ्राम्य पाणिना ।
चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः ॥ १०।४ ॥
आजघान च बाणौघैरस्त्रैः स नारद ।
तान् भस्मसात्तदा चक्रे नगानिव हुताशनः ॥ १०।५ ॥
ततो ऽतिवेगिनं वज्रं दृष्ट्वा बलवतां वरः ।
समाप्लुत्य रथात्तस्थौ भुवि बाहु सहायवान् ॥ १०।६ ॥
रथं सारथिना सार्धं साश्वध्वजसकूबम् ।
भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ ॥ १०।७ ॥
तमापतन्तं वेगेन मुष्टिनाहत्य भूतले ।
पातयामास बलवान् जगर्ज च तदान्धकः ॥ १०।८ ॥
तं गर्जमानं वीक्ष्याथ वासवः सायकैर्दृढम् ।
ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम् ॥ १०।९ ॥
आजघान तलेनेभं कुम्भमध्ये पदा करे ।
जानुना च समाहत्य विषाणं प्रबभञ्ज च । ।
१०।१० वाममुष्ट्या तथा पार्श्वं समाहत्यान्धकस्त्वरन् ।
गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम् ॥ १०।११ ॥
गजेन्द्रात् पतमानाच्च अवप्लुत्य शतक्रतुः ।
पाणिना वज्रमादाय प्रविवेशामरावतीम् ॥ १०।१२ ॥
परङ्मुखे सहस्राक्षे तदा दैवतबलं महत् ।
पातयामा द्रत्येन्द्रः पादमुष्टितलादिभिः ॥ १०।१३ ॥
ततो वैवस्वतो दण्डं परिभ्राम्य द्विजोत्तम ।
समभ्यधावत् प्रह्लादं हन्तुकामः सुरोत्तमः ॥ १०।१४ ॥
तमापतन्तं बाणैघैर्ववर्षं रविनन्दनम् ।
हिरण्यकशिपोः पुत्रश् चापमानम्य वेगवान् ॥ १०।१५ ॥
तां बाणवृष्टिमतुलां दण्डेनाहत्य भास्करिः ।
शातयित्वा प्रचिक्षेप दण्डं लोकभयङ्करम् ॥ १०।१६ ॥
स वायुपथमास्थाय धर्मराजकरे स्थितः ।
जज्वाल कालग्निनिभो यद्वद् दग्धुं जगत्त्रयम् ॥ १०।१७ ॥
जाज्वल्यमानामायान्तं दण्डं दृष्ट्वा दितेः सुताः ।
प्राक्रोशन्ति हतः कष्टं प्रह्लादो ऽयं यमेन हि ॥ १०।१८ ॥
तमाक्रन्दितमाकर्ण्य हिरण्याक्षसुतो ऽन्धकः ।
प्रोवाच मा भैष्टच मयि स्थिते को ऽयं सुराधमः ॥ १०।१९ ॥
इत्येवसुक्त्वा वचनं वेगेनाबिससार च। जग्राह पाणिना दणेडं हसन् सव्येन नारद ॥ १०।२० ॥
तमादाय ततो वेगाद् भ्रामयामास चान्धकः ।
जगर्ज च महानादं यथा प्रावृषि तोयदः ॥ १०।२१ ॥
प्रह्लादं रक्षितं दृष्ट्वा दण्डाद् दैत्येश्वरेण हि ।
साधुवादं ददुर्हृष्टा दैत्यदानवयूथपाः ॥ १०।२२ ॥
भ्रामयन्तं महादण्डं दृष्ट्वा भानुसुतो मुने ।
दुःसहं दुर्धरं मत्वा अन्तर्धानमगाद् यमः ॥ १०।२३ ॥
अन्तर्हिते धर्मराजे प्रह्लादो ऽपि महामुने ।
दारयामास बलवान् देवसैन्यं समन्ततः ॥ १०।२४ ॥
वरुणः शिशुमारस्थो बद्ध्वा पाशैर्महासुरान् ।
गदया दारयामास तमभ्यागाद् विरोचनः ॥ १०।२५ ॥
तोमरैर्वज्रसंस्पर्शैः शक्तिभिर्मार्गणैरपि ।
जलेशं ताडयामास मुद्गरैः कणपैरपि ॥ १०।२६ ॥
ततस्तं गदयाभ्येत्य पातयित्वा धरातले ।
अभिद्रुत्य बबन्धाथ पाशैर्मत्तगजं बली ॥ १०।२७ ॥
तान् पाशाञ्शतधा चक्रे वेगाच्च दनुजेश्वरः ।
वरुणं च समभ्येत्य मध्ये जग्राह नारद ॥ १०।२८ ॥
ततो दन्ती च शृङ्गाभ्यां प्रचिक्षेप तदाव्ययः ।
ममर्द च तथा पद्भ्यां सवाहं सलिलेश्वराम् ॥ १०।२९ ॥
तं मर्द्यमानं वीक्ष्याथ शशाङ्कः शिशिराशुमान् ।
अभ्येत्य ताडयामास मार्गणैः कायदारणैः ॥ १०।३० ॥
स ताड्यमानः शिशिरांशुबाणैरवाप पीडां परमां गजेन्द्रः ।
दुष्टश्च वेगात् पयसामधीशं मुहुर्मुहुः पादतलैर्ममर्द ॥ १०।३१ ॥
स मृद्यमानो वरुणो गजेन्द्रं पद्भ्यां सुगाढं जगृहे महर्षे ।
पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा ॥ १०।३२ ॥
गृह्याङ्गुलीभिश्च गजस्य पुच्छं कृत्वेह बन्धं भुजगेश्वरेण ।
उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम् ॥ १०।३३ ॥
क्षिप्तो जलेशेन विरोचनस्तु सकुञ्जरो भूमितले पपात ।
साट्टं सन्यत्रार्गलहर्म्यभूमि पुरं सुकेशेरिव भस्करेण ॥ १०।३४ ॥
ततो जलेशः सगदः सपाशः सम्भ्यधावद् दितिजं निहन्तुम् ।
ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम् ॥ १०।३५ ॥
हा हा हतो ऽसौ वरुणेन वीरो विरोचनो दानवसैन्यपालः ।
प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन ॥ १०।३६ ॥
अहो महात्मा बलवाञ्जलेशः सञ्चूर्णयन् दैत्यभटं सवाहम् ।
पाशेन बद्ध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः ॥ १०।३७ ॥
श्रुतत्वाथ शब्दं दितिजैः समीरितं जम्भप्रधाना दितिजेश्वरास्ततः ।
समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम् ॥ १०।३८ ॥
तानागतान् वै प्रसमीक्ष्य देवः प्राह्लादिसुत्सृज्य वितत्य पाशम् ।
गदां समुद्भ्राम्य जलेश्वरस्तु दुद्राव तान् जम्भमुखानरातीन् ॥ १०।३९ ॥
जम्भं च पाशेन तथा निहत्य तारं तलेनाशनिसन्निभेन ।
पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्ट्या ॥ १०।४० ॥
तेनार्दिता देववरेण दैत्याः सम्प्राद्रवन् दिक्षु विमुक्तशस्त्राः ।
ततो ऽन्धकः सत्वरितो ऽभ्युपेयाद् रणाय योद्धुं जलनायकेन ॥ १०।४१ ॥
तमापतन्तं गदया जघान पाशेन बद्ध्वा परुणो ऽसुरेशम् ।
तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स च जलेश्वराय ॥ १०।४२ ॥
तमापतन्तं प्रसमीक्ष्य पाशं गदां च दाक्षायणिनन्दनस्तु ।
विवेश वेगात् पयसां निधानं ततो ऽन्धको देवबलं ममर्द ॥ १०।४३ ॥
ततो हुताशः सुरशत्रुसैन्यं ददाह रोषात् पवनावधूतः ।
तमभ्ययाद् दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः ॥ १०।४४ ॥
तमापतन्तं सह शम्बरेण समीक्ष्य वह्निः पवनेन सार्धम् ।
शक्त्या मयं शम्बरमेत्य कण्ठे सन्ताड्य जग्राह बलान्महर्षे ॥ १०।४५ ॥
शक्त्या स कायावरणे विदारिते सम्भिन्नदेहो न्यपतत् पृथिव्याम् ।
मयः प्रजज्वाल च शम्वरो ऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते ॥ १०।४६ ॥
स दह्यमानो दितिजो ऽग्निनाथ सुविस्वरं घोरतरं रुराव ।
सिंहाभिपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः ॥ १०।४७ ॥
तं शब्दमाकर्ण्य च शम्बरस्य दैत्येश्वरः क्रोधविरक्तदृष्टिः ।
आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च ॥ १०।४८ ॥
ततो ऽब्रुवन् दैत्यभटा दितीशं प्रदह्यते ह्येष हुताशनेन ।
रक्षस्व चाभ्येत्य न शक्यते ऽन्यैर्हुताशनो वारयितुं रणाग्रे ॥ १०।४९ ॥
इत्थं स दैत्यैरभिनोदितस्तु हिरण्यचक्षुस्तनयो महर्षे ।
उद्यम्य वेगात् परिघं हुताशं समाद्रवत् तिष्ठ तिष्ठ ब्रुवन् हि ॥ १०।५० ॥
श्रुत्वान्धकस्यापि वचो ऽव्ययात्मा सङ्क्रुद्धचित्तस्त्वरितो हि दैत्यम् ।
उत्पाट्य भूम्यां च विनिष्पिपेष ततो ऽन्धकः पावकमाससाद ॥ १०।५१ ॥
समाजघानाथ हुताशनं हि वरयुधेनाथ वराङ्गमध्ये ।
समाहतो ऽग्निः परिमुच्य शम्बरं तथान्धकं स त्वरितो ऽभ्यधावत् ॥ १०।५२ ॥
तमापतन्तं परिघेण भूयः समाहनन्मूर्ध्नि तदान्धको ऽपि ।
स ताडितो ऽग्निर्दितिजेश्वरेण भयात् प्रदुद्राव रणाजिराद्वि ॥ १०।५३ ॥
ततो ऽन्धको मारुतचन्द्रभास्करान् साध्यान् सरुद्राश्विवसून् महोरगान् ।
यान् याञ्शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान्कृतवान् रणाजिरात् ॥ १०।५४ ॥
ततो विजित्यामरसैन्यसुग्रं सेन्द्रं सरुद्रं सयमं ससोमम् ।
सम्पूज्यमानो दनुपुङ्गवैस्तु तदान्धको भूमिमुपाजगाम ॥ १०।५५ ॥
आसाद्य भूमिं करदान् नरेन्द्रान् कृत्वा वशे स्थाप्य चराचरं च। जगत्समग्रं प्रविवेश धीमान् पातालमग्र्यं पुरमश्मकाह्वम् ॥ १०।५६ ॥
तत्र स्थितस्यापि महासुरस्य गन्धर्वविद्याधरसिद्धसङ्घाः ।
सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्त ॥ १०।५७ ॥
इति श्रीवामनपुराणे दशमो ऽध्यायः