०९

नारद उवाच ।
नेत्रहीनः कथं राज्ये प्रह्लादेनान्धको मुने ।
अभिषिक्तो जानतापि राजधर्मं सनातनम् ॥ ९।१ ॥
पुलस्त्य उवाच ।
लब्धचक्षुरसौ भूयो हिरण्याक्षे ऽपि जीवति ।
ललो ऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे ॥ ९।२ ॥
नारद उवाच। ।
राज्ये ऽन्धको ऽभिषिक्तस्तु किमाचरत सुव्रत ।
देवादिभिः सह कथं समास्ते तद् वदस्व मे ॥ ९।३ ॥
पुलस्त्य उवाच ।
राज्ये ऽभिषिक्तो दैत्येन्द्रो हिरण्याक्षसुतो ऽन्धकः ।
तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम् ॥ ९।४ ॥
अजेयत्वमवध्यत्वं सुरसिद्धर्षिपन्नगैः ।
अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च ॥ ९।५ ॥
एवं स वरलब्धस्तु दैत्यो राज्यमपालयत् ।
शुक्रं पुरोहितं कृत्वा समध्यास्ते ततो ऽन्धकः ॥ ९।६ ॥
ततश्चक्रो समुद्योगं देवानामन्धको ऽसुरः ।
आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत् ॥ ९।७ ॥
पराजित्य महीपालान् सहायार्थे नियोज्य चा ।
तैः समं मेरुशिखरं जगामाद्भुतदर्शनम् ॥ ९।८ ॥
शक्रो ऽपि सुरसैन्यानि समुद्योज्य महागजम् ।
समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ ॥ ९।९ ॥
शक्रस्यानु तथैवान्ये लोकपाला महौजसः ।
आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः ॥ ९।१० ॥
देवसेनापि च समं शक्रोणाद्भुतकर्मणा ।
निर्जगामातिवेगेन गजवाजिराथादिभिः ॥ ९।११ ॥
अग्रतो द्वादशादित्याः पृष्ठतश्च त्रिलोचनाः ।
मध्ये ऽष्टौ वसवो विश्वे साध्याश्विमरुतां गणाः ।
यभविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः ॥ ९।१२ ॥
नारद उवाच ।
रुद्रादीनां वदस्वेह वाहनानि च सर्वशः ।
एकैकस्यापि धर्मत्र परं कौतूहलं मम ॥ ९।१३ ॥
पुलस्त्य उवाच ।
शृणुष्व कथयिष्यामि सर्वेषामपि नारद ।
वाहनानि समासेन एकैकस्यानुपूर्वशः ॥ ९।१४ ॥
रुद्रहस्तलोत्पन्नो महावीर्यो महाजवः ।
श्वेतवर्णो गजपतिर्देवराजस्य वाहनम् ॥ ९।१५ ॥
रुद्रोरुसम्भवो भीमः कृष्णवर्णो मनोजवः ।
पौण्ड्रको नाम महिषो धर्मराजस्य नारद ॥ ९।१६ ॥
रुद्रकर्ममलोद्भूतः श्यामो जलधिसञ्ज्ञकः ।
शिशुमारो दिव्यगतिः वाहनं वरुणस्य च ॥ ९।१७ ॥
रौद्रः शकटचक्राक्षः शैलाकारो नरोत्तमः ।
अम्बिकापादसम्भूतो वाहनं धनदस्य तु ॥ ९।१८ ॥
एकादशानां रुद्राणां वाहनानि महामुने ।
गन्धर्वाश्च महावीर्या भुजगोन्द्राश्च दारुणाः ।
श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च ॥ ९।१९ ॥
रथं चन्द्रमसश्चार्द्धूसहस्रं हंसवाहनम् ।
हरयो रथवाहाश्च आदित्या मुनिसत्तम ॥ ९।२० ॥
कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः ।
किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ ॥ ९।२१ ॥
सारङ्गधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः ।
सुकारूढाश्च कवयो गन्धर्वाश्च पदातिनः ॥ ९।२२ ॥
आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः ।
सन्नह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः ॥ ९।२३ ॥
नारद उवाच। ।
गदितानि सुरादीनां वाहनानि त्वया मुने ।
दैत्यानां वाहनान्येवं यथावद् वक्तुमर्हसि ॥ ९।२४ ॥
पुलस्त्य उवाच ।
शृणुष्व दानवादीना वाहनानि द्विजोत्तम ।
कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि ॥ ९।२५ ॥
अन्धकस्य रथो दिव्यो युक्तः परमवाजिभिः ।
कृष्णवर्णैः सहस्रारस् त्रनल्वपरिमाणवान् ॥ ९।२६ ॥
प्रह्लादस्य रथो दिव्यश्चन्द्रवर्णैर्हयोत्तमैः ।
उह्यमानस्तथाष्टाभिः श्वेतरुक्ममयः सुभः ॥ ९।२७ ॥
विरोजनस्य च गजः कुजम्भस्य तुरङ्गमः ।
जम्भस्य तु रथो द्वियो हयैः काञ्जनसन्निभैः ॥ ९।२८ ॥
शङ्कुकर्णस्य तुरगो हयग्रीवस्य कुञ्जरः ।
रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः ।
शम्बरस्य विमानो ऽभूदयः शङ्कोर्मृगाधिपः ॥ ९।२९ ॥
वबलवृत्रौ च बलिनौ गदामुसलधारिणौ ।
पद्भ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ ॥ ९।३० ॥
ततो रणो ऽभूत् तुमुलः सङ्कुलो ऽतिभयङ्करः ।
रजसा संवृतो लोकी पिङ्गवर्णेन नारद ॥ ९।३१ ॥
नाज्ञासीच्च पिता पुत्रं न पुत्रः पितरं तथा ।
स्वानेवानये निजघ्नुर्वै परानन्ये च सुव्रत ॥ ९।३२ ॥
अभिद्रुतो महावेगो रथोपरि रथस्तदा ।
गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात् ॥ ९।३३ ॥
पदातिरपि सङ्क्रुद्धः पदातिनमथोल्बणम् ।
परस्परं तु प्रत्यघ्नन्नन्योन्यजयकाङ्क्षिणः ॥ ९।३४ ॥
ततस्तु सङ्कुले तस्मिन् युद्धे दैवासुरे मुने ।
प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः ॥ ९।३५ ॥
शोणितोदा रथावर्त्ता योधसङ्घट्टवाहिनी ।
गजकुम्भमाहकूर्मा शरमीना दुरत्यया ॥ ९।३६ ॥
तीक्ष्णाग्रप्रासमकरा महासिग्राहवाहिनी ।
अन्त्रशैवलसङ्कीर्णा पताकाफेनमालिननी ॥ ९।३७ ॥
गृध्रकङ्कमहाहंसा श्येनचक्रआह्वमण्डिता ।
वनवायसकादम्बा गोमायुश्वापदाकुला ॥ ९।३८ ॥
पिशाचमुनिसङ्कीर्णा दुस्तरा प्राकृतैर्जनैः ।
रथप्लवैः सन्तरन्तः शूरास्तां प्रजगाहिरे ॥ ९।३९ ॥
आगुल्फआदवमज्जन्तः सूदयन्तः परस्परम्ः ।
समुत्तरन्तो वेगेन योधा जयधनेप्सवः ॥ ९।४० ॥
ततस्तु रौद्रो सुरदैत्यसादने महाहवे भीरुभयङ्करे ऽथ ।
रक्षांसि यक्षाश्च सुसप्रहृष्टाः पिशाचयूथास्त्वभिरेमिरे च ॥ ९।४१ ॥
पिबन्त्यसृग्गाढतरं भटानामालिङ्ग्य मांसानि च भक्षयन्ति ।
वसां विलुम्पन्ति च वनिस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि ॥ ९।४२ ॥
मुञ्चन्ति फेत्काररवाञ्शिवाश्च क्रन्दन्ति योधा भुवि वेदनार्त्ताः ।
शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव ॥ ९।४३ ॥
तस्मिञ्शिवाघोररवे प्रवृत्ते मुरासुराणां सुभयङ्करे ह ।
युद्धं बभौ प्राणपणेपविद्धं द्वन्द्वे ऽतिशस्त्राक्षगतो दुरोदरः ॥ ९।४४ ॥
हिरण्यचक्षुस्तनयो रणे ऽन्धको रथे स्थितो वाजिसहस्रयोजिते ।
मत्तेभष्टष्टस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम् ॥ ९।४५ ॥
समापतन्तं महिषाधिरूढं यमं प्रतीच्छद् बलवान् दितीशः ।
प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यातास्त्रः ॥ ९।४६ ॥
विरोचनश्चापि जलेश्वरं त्वगाज्जम्भस्त्वथागाद् धनदं बलाढ्यम् ।
वायुं समभ्येत्य च शम्बरो ऽथ मयो हुताशं युयुधे मुनीन्द्र ॥ ९।४७ ॥
अन्ये हयग्रीवमुखा महाबला दितेस्तनूजा दनुपुङ्गवाश्च ।
सुरान् हुताशार्कवसूरकेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः ॥ ९।४८ ॥
गर्जन्त्यथान्योन्यमुपेत्य युद्धे चापानि कर्षन्त्यतिवेगिताश्च ।
मुञ्चन्ति नाराचगणान् सहस्रश अगच्छ हे तिष्ठसि किं ब्रुवन्तः ॥ ९।४९ ॥
शरैस्तु तीक्ष्णैरतितापयन्तः शस्त्रैरमोघैरभिताडयन्तः ।
मन्दाकिनीवेगनिभां वहन्तीम् प्रवर्तयन्तो भयदां नदीं च ॥ ९।५० ॥
त्रैलोक्यमाकाङ्क्षिभिरुग्रवेगैः सुरासुरैर्नारद सम्प्रयुद्धे ।
पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभै ॥ ९।५१ ॥
वाद्यन्ति तूर्याणि सुरासुराणाम् पश्यन्ति खस्था मुनिसिद्धसङ्घाः ।
नयन्ति तान्प्सरसां गणाग्र्या हता रणे ये ऽभिमुखास्तु शूराः ॥ ९।५२ ॥

इती श्रीवामनपुराणे नवमो ऽध्यायः