०८

पुलस्त्य उवाच ।
शार्ङ्गपाणिनमायान्तं दृष्ट्वाग्रे दानवेश्वरः ।
परिभ्राम्य गदां वेगात् मूर्ध्नि साध्यमताडयत् ॥ ८।१ ॥
ताडितस्याथ गदया धर्मपुत्रस्य नारद ।
नेत्राभ्यामपतद् वारि वह्निवर्षनिभं भुवि ॥ ८।२ ॥
मूर्ध्नि नारायणस्यापि सा गदा दानवार्पिता ।
जगाम शतधा ब्रह्मञ्शैलशृङ्गे यथाशनिः ॥ ८।३ ॥
ततो निवृत्य दैत्येन्द्रः समास्थाय रथं द्रुतम् ।
आदाय कार्मुकं वीरस्तूणद् बाणं समाददे ॥ ८।४ ॥
आनम्य चापं वेगेन गार्द्धूपत्राञ्सिलीमुखान् ।
मुमोच साध्याय तदा क्रोधन्धकारिताननः ॥ ८।५ ॥
तानापतत एवाशु बाणांश्चन्द्रार्द्धसन्निभान् ।
चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम् ॥ ८।६ ॥
ततो नारायणं दैत्यो दैत्यं नारायणः शरैः ।
आविध्येतां तदान्योन्यं मर्मभिद्भिरजिह्यगैः ॥ ८।७ ॥
ततो ऽम्बरे सन्निपातो देवानामभवन्मुने ।
दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च ॥ ८।८ ॥
ततः सुराणां दुन्दुभ्यस् त्ववाद्यन्त महास्वनाः ।
पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययौः ॥ ८।९ ॥
ततः पश्यत्सु देवेषु गगनस्थेषु तावुभौ ।
अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम् ॥ ८।१० ॥
बबन्धतुस्तदाकाशं तावुभौ शरवृष्टिभिः ।
दिशश्च विदिशश्चैव छादयेतां शरोत्करैः ॥ ८।११ ॥
ततो नारायणश्चापं समाकृष्य महामुने ।
बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु ॥ ८।१२ ॥
तथा दैत्येश्वरः क्रुद्धश्चापमानम्य वेगवान् ।
बिभेद हृदये बाह्वोर्वदने च नरोत्तमम् ॥ ८।१३ ॥
ततो ऽस्यतो दैत्यपतेः कार्मुकं मुष्टिबन्धनात् ।
चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा ॥ ८।१४ ॥
अपास्यत धनुश्छिन्नं चापमादाय चापरम् ।
अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान् ॥ ८।१५ ॥
तानप्यस्य शरान् साध्यश्छित्त्वा बाणैरवारयत् ।
कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः ॥ ८।१६ ॥
छिन्नं छिन्नं धनुर्दैत्यस्त्वन्यदन्यत्समाददे ।
समादत्तं तदा साध्यो मुने चिच्छेद लाघवात् ॥ ८।१७ ॥
सञ्छिन्नेष्वथ चापेषु जग्राह दितिजेश्वरः ।
परिघं दारुणां दीर्घं सर्वलोहमयं दृढम् ॥ ८।१८ ॥
परिगृह्याथ परिघं भ्रामयामास दानवः ।
भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः ॥ ८।१९ ॥
छिन्ने तु परिघे श्रीमान् प्रह्लादो दानवेश्वरः ।
मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे ॥ ८।२० ॥
तमापतन्तं बलवान् मार्गणैर्दशभिर्मुने ।
चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि ॥ ८।२१ ॥
मुद्गरे वितथे जाते प्रासमाविध्य वेगवान् ।
प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः ॥ ८।२२ ॥
प्रासे छिन्ने ततो दैत्यः शक्तिमादाय चिक्षिपे ।
तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः ॥ ८।२३ ॥
छिन्नेषु तेषु शस्त्रेषु दानवो ऽन्यन्महद्धनुः ।
समादाय ततो बाणैरवतस्तार नारद ॥ ८।२४ ॥
ततो नारायणो देवो दैत्यनाथं जगद्गुरुः ।
नाराचेन जघानाथ हृदये सुरतापसः ॥ ८।२५ ॥
सम्भिन्निहृदयो ब्रह्मन् देवेनाद्भुतकर्मणा ।
निपपात रथोपस्थे तमपोवाह सारथिः ॥ ८।२६ ॥
स सञ्ज्ञां सुचिरेणैव प्रतिलभ्य दितीश्वरः ।
सुदृढं चापमादाय भूयो योद्धमुपागतः ॥ ८।२७ ॥
तमागतं सन्निरीक्ष्य प्रत्युवाच नराग्रजः ।
गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ॥ ८।२८ ॥
एवमुक्तो दितीशस्तु साध्येनाद्भुतकर्मणा ।
जगाम नैमिषारण्यं क्रियां चक्रे तदाऽह्निकीम् ॥ ८।२९ ॥
एवं युध्यति देवे च प्रह्लादो ह्यसुरो मुने ।
रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम् ॥ ८।३० ॥
एवं नारायणेनासौ सहायुध्यत नारद ।
दिव्यं वर्षसस्रं तु दैत्यो देवं न चाजयत् ॥ ८।३१ ॥
ततो वर्षसहस्रान्ते ह्यजिते पुरुषोत्तमे ।
पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत् ॥ ८।३२ ॥
किमर्थं देवदेवेश साध्यं नारायणं हरिम् ।
विजेतुं नाद्य शक्नोमि एतन्मे कारणं वद ॥ ८।३३ ॥
पीतवासा उवाच ।
दुर्जयो ऽसौ महाबाहुस्त्वया प्रह्लाद धर्मजः ।
साध्यो विप्रवरो धीमान् मृधे देवासुरैरपि ॥ ८।३४ ॥
प्रह्लाद उवाच ।
यद्यसौ दुर्जयो देव मया साध्यो रणाजिरे ।
तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति ॥ ८।३५ ॥
हीनप्रतिज्ञो देवेश कथं जीवेत मादृशः ।
तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम् ॥ ८।३६ ॥
पुल्स्त्य उवाच ।
इत्येवमुक्त्वा वचनं देवाग्रे दानवेश्वरः ।
शिरःस्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम् ॥ ८।३७ ॥
ततो दैत्यपतिं विष्णुं पीतवासाब्रवीद्वचः ।
गच्छ जेष्यसि भक्त्या तं न युद्धेन कथञ्चन ॥ ८।३८ ॥
प्रह्लाद उवाच ।
मया जितं देवदेव त्रैलोक्यमपि सुव्रत ।
जितो ऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः ॥ ८।३९ ॥
असौ यद्यजयो देव त्रैलोक्येनापि सुव्रतः ।
न स्थातुं त्वत्प्रसादेव शक्यं किमु करोम्यज ॥ ८।४० ॥
पीतवासा उवाच ।
सो ऽहं दानवशार्दूल लोकानां हितकाम्यया ।
धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः ॥ ८।४१ ॥
तस्माद्यदिच्छसि जयं तमाराधय दानव ।
तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम् ॥ ८।४२ ॥
पुलस्त्य उवाच। ।
इत्युक्तः पीतवासेन दानवेन्द्रो महात्मना ।
अब्रवीद्वचनं हृष्टः समाहूयान्धकं मुनेष ॥ ८।४३ ॥
दैत्याश्च दानवाश्चैव परिपाल्यास्त्वयान्धक ।
मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज ॥ ८।४४ ॥
इत्येवमुक्तो जग्राह राज्यं हैरण्यलोचनिः ।
प्रह्लादो ऽपि तदागच्छत् पुण्यं बदरिकाश्रमम् ॥ ८।४५ ॥
दृष्ट्वा नारायणं देवं नरं च दितिजेश्वरः ।
कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः ॥ ८।४६ ॥
तमुवाच महातेजा वाक्यं नारायणो ऽव्ययः ।
किमर्थं प्रणतो ऽसीह मामजित्वा महासुर ॥ ८।४७ ॥
प्रह्लाद उवाच। ।
कस्त्वां जेतुं प्रभो शक्तः कस्त्वत्तः पुरुषो ऽधिकः ।
त्वं हि नारायणो ऽनन्तः पीतवासा जनार्दनः ॥ ८।४८ ॥
त्वं देवः पुण्डरीकाक्षस्त्वं विष्णुः शार्ङ्गचापधृक् ।
त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः ॥ ८।४९ ॥
त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः ।
जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः ॥ ८।५० ॥
त्वमच्युको हृषीकेशश्चक्रपाणिर्धराधरः ।
महामीनो हयशिरास्त्वमेव वरकच्छपः ॥ ८।५१ ॥
हिरण्याक्षरिपुः श्रीमान् भगवानथ सूकरः ।
मत्पितुर्नाशनकरो भवानपि नृकेसरी ॥ ८।५२ ॥
ब्रह्म त्रिनेत्रो ऽमरराड् हुताशः प्रेताधिपो नीरपतिः समीरः ।
सूर्यो मृगाङ्को ऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो ॥ ८।५३ ॥
त्वं पृथ्वी ज्योतिराकाशं जलं भूत्वा सहस्रशः ।
त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव ॥ ८।५४ ॥
भक्त्या यदि हृषीकेश तोषमेषि जगद्गुरो ।
नान्यथा त्वं प्रशक्तो ऽसि जेतुं सर्वगताव्यय ॥ ८।५५ ॥
भगवानुवाच। ।
परितुष्टो ऽस्मि ते दैत्य स्तवेनानेन सुव्रत ।
भक्त्या त्वनान्यया चाहं त्वया दैत्य पराजितः ॥ ८।५६ ॥
पराजितश्च पुरुषो दैत्य दण्डं प्रयच्छति ।
दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥ ८।५७ ॥
प्रह्लाद उवाच ।
नारायण वरं याचे यं त्वं मे दातुमर्हसि ।
तन्मे पापं लयं यातु शारीरं मानसं तथा ॥ ८।५८ ॥
वाचिकं च जगन्नाथ यत्त्वया सह युध्यतः ।
नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे ॥ ८।५९ ॥
नारायण उवाच ।
एवं भवतु दैद्येन्द्र पापं ते यातु सङ्क्षयम् ।
द्वितीयं प्रार्थय वरं तं ददामि तवासुर ॥ ८।६० ॥
प्रह्लाद उवाच ।
या या जायेय मे बुद्धिः सा सा विष्णो त्वदाश्रिता ।
देवार्चने च निरता त्वच्चित्ता त्वत्परायणा ॥ ८।६१ ॥
नारायण उवाच ।
एवं भविष्यत्यसुर वरमन्यं यमिच्छसि ।
तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन् ॥ ८।६२ ॥
प्रह्लाद उवाच। ।
सर्वमेव मया लब्धं त्वत्प्रसादादधोक्षज ।
त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम ॥ ८।६३ ॥
एवमस्त्वपरं चास्तु नित्यमेवाक्षयो ऽव्ययः ।
अजरश्चामरश्चापि मत्प्रसादाद् भविष्यसि ॥ ८।६४ ॥
गच्छस्व दैत्यशार्दूल स्वमावासं क्रियारतः ।
न कर्मबन्धो भवतो मच्चित्त्स्य भविष्यति ॥ ८।६५ ॥
प्रशासयदमून् दैत्यान् राज्यं पालय शाश्वतम् ।
स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम् ॥ ८।६६ ॥
पुलस्त्य उवाच ।
इत्युक्तो लोकनाथेन प्रह्लादो देवमब्रवीत् ।
कथं राज्यं समादास्ये परित्यक्तं जगद्गुरो ॥ ८।६७ ॥
तमुवाच जगत्स्वामी गच्छ त्वं निजमाश्रयम् ।
हितोपदेष्टा दैत्यानां दानवानां तथा भव ॥ ८।६८ ॥
नारायणेनैवमुक्तः स तदा दैत्यनायकः ।
प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम् ॥ ८।६९ ॥
दृष्टः सभाजितश्चापि दानवैरन्धकेन च ।
निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद ॥ ८।७० ॥
राज्यं परित्यज्य महासुरेन्द्रो नियोजयन् सत्पथि दानवेन्द्रान् ।
ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः ॥ ८।७१ ॥
एवं पुरा नारद दानवेन्द्रो नारायणेनोत्तमपूरुषेण ।
पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य ॥ ८।७२ ॥

इति श्रीवामनपुराणे अष्टमो ऽध्यायः