०७

पुलस्त्य उवाच ।
ततो ऽनङ्गं विभुर्द्दष्ट्वा ब्रह्मन् नारायणो मुनिः ।
प्रहस्यैवं वचः प्राह कन्दर्व इह आस्यताम् ॥ ७।१ ॥
तदक्षुब्धत्वमीक्ष्यास्य कामो विस्मयमागतः ।
वसन्तो ऽपि महाचिन्तां जगामाशु महामुने ॥ ७।२ ॥
ततश्चाप्सरसो दृष्ट्वा स्वागतेनाभिपूज्य च ।
वसन्तमाह भगवानेह्येहि स्थीयतामिति ॥ ७।३ ॥
ततो विहस्य भगवान् मञ्जरीं कुसुमावृताम् ।
आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे ॥ ७।४ ॥
ऊरूद्भवां स कन्दर्पो दृष्ट्वा सर्वाङ्गसुन्दरीम् ।
अमन्यत तदानङ्गः किमियं सा प्रिया रतिः ॥ ७।५ ॥
तदेव वदनं चारु स्वक्षिभ्रूकुटिलालकम् ।
सुनासावंशाधरोष्ठमालोकनपरायणम् ॥ ७।६ ॥
तावेवाहार्य विरलौ पीवरौ मग्नचूचुकौ ।
राजेते ऽस्यः कुचौ पीनौ सज्जनावि संहतौ ॥ ७।७ ॥
तदेव तनु चार्वङ्ग्या वलित्रयविभूषितम् ।
उदरं राजते श्लक्ष्णं रोमावलिविभूषितम् ॥ ७।८ ॥
रोमावलीच जघनाद् यान्ती स्तनतटं त्वियम् ।
राजते भृङ्गमालेव पुलिनात् कमलाकरम् ॥ ७।९ ॥
जघनं त्वतिविस्तीर्ण भात्यस्या रशनावृतम् ।
श्रीरोदमथने नद्धूं भूजङ्गेनेव मन्दरम् ॥ ७।१० ॥
कदलीस्तम्भसदृशैरूर्ध्वमूलैरथोरुभिः ।
विभाति सा सुचार्वङ्गी पद्मकिढ्जल्कसन्निभा ॥ ७।११ ॥
जानुनी गूढगुल्फे च शुभे जङ्घे त्वरोमशे ।
विभातो ऽस्यास्तथा पादावलक्तकसमत्विषौ ॥ ७।१२ ॥
इति सञ्चिन्तयन् कामस्तामनिन्दितलोचनाम् ।
कामातुरो ऽसौ सञ्जातः किमुतान्यो जनो मुने ॥ ७।१३ ॥
माधवो ऽप्युर्वशीं दृष्ट्वा सञ्चिन्तयत नारद ।
किंस्वित् कामनरेन्द्रस्य राजधानी स्वयं स्थिता ॥ ७।१४ ॥
आयाता शशिनो नूनमियं कान्तिर्निशाक्षये ।
रविरश्मिप्रतापार्तिभीता शरणमागता ॥ ७।१५ ॥
इत्थं सञ्चितयन्नेव अवष्टभाप्सरोगणम् ।
तस्थौ मुनिरिव ध्यानमास्थितः स तु माधवः ॥ ७।१६ ॥
ततः स विस्मितान् सर्वान् कन्दर्पादीन् महामुने ।
दृष्ट्वा प्रोवाच वचनं स्मितं कृत्वा शुभव्रतः ॥ ७।१७ ॥
इयं ममोरुसम्भृता कामाप्सरस माधव ।
नीयतां सुरलोकाय दीयतां वासवाय च ॥ ७।१८ ॥
इत्युक्ताः कम्पमानास्ते जग्मुर्गृह्योर्वशीं दिवम् ।
सहस्राक्षाय तां प्रादाद् रूपयौवनशालिनीम् ॥ ७।१९ ॥
आचक्षुश्चरितं ताभ्यां धर्मजाभ्यां महामुने ।
देवाराजाय कामाद्यास्ततो ऽभृद् विस्मयः परः ॥ ७।२० ॥
एताद्शं हि चरितं ख्यातिमग्र्यां जगाम ह ।
पातालेषु तथा मर्त्यै दिक्ष्वष्टासु जगाम च ॥ ७।२१ ॥
एकदा निहते रौद्रो हिरण्यकशिपौ मुने ।
अभिषिक्तस्तदा राज्ये प्रह्लादौ नाम दानवः ॥ ७।२२ ॥
तस्मिञ्शासति दैत्येन्द्रे देवब्राह्मणपूजके ।
मखानि भुवि राजानो यजन्ते विधिवत्तदा ॥ ७।२३ ॥
ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते ।
वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥ ७।२४ ॥
चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि ।
आवर्त्तत ततो देवा वृत्त्या युक्ताभवान् मुने ॥ ७।२५ ॥
ततस्तु च्यवनो नाम भार्गवेन्द्रो महातपाः ।
जगाम नर्मदां स्नातुं तीर्थं चैवाकुलीश्वरम् ॥ ७।२६ ॥
तत्र दृष्ट्वा महादेवं नदीं स्नातुमवातरत् ।
अवतीर्णं प्रजग्राह नागः केकरलोहितः ॥ ७।२७ ॥
गृहीतस्तेन नागेन सस्मार मनसा हरिम् ।
संस्मृते पुण्डरीकाक्षे निर्विषो ऽभून्महोरगः ॥ ७।२८ ॥
नीतस्तेनातिरौद्रेण पन्नगेन रसातलम् ।
निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः ॥ ७।२९ ॥
सन्त्यक्तमात्रो नागेन च्यवनो भार्गवोत्तमः ।
चचार नागकन्याभिः पूज्यचमानः समन्ततः ॥ ७।३० ॥
विचारन् प्रविवेशाथ दानवानां महत् पुरम् ।
सम्पूज्यमानो दैत्येन्द्रः प्रह्लादो ऽथ ददर्श तम् ॥ ७।३१ ॥
भृगुपुत्रे महातेजाः पूजां चक्रे यथार्हतः ।
सम्पूजितोपविष्टश्च पृष्टश्चागमनं प्रति ॥ ७।३२ ॥
स चोवाच महाराज महातीर्थं महाफलम् ।
स्नातुमेवागतो ऽस्म्यद्य द्रष्टुञ्चैवाकुलीश्वरम् ॥ ७।३३ ॥
नद्यामेवावतीर्णो ऽस्मि गृहीतश्चाहिना बलान् ।
समानीतो ऽस्मि पाताले दृष्टश्चात्र भवानपि ॥ ७।३४ ॥
एतच्छ्रुत्वा तु वचनं च्यवनस्य दितीश्वरः ।
प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः ॥ ७।३५ ॥
प्रह्लाद उवाच ।
भगवन् कानि तीर्थानि पृथिव्यां कानि चाम्बरे ।
रसातले च कानि स्युरेतद् वक्तुं ममार्हसि ॥ ७।३६ ॥
च्यवन उवाच ।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ।
चक्रतीर्थं महाबाहो रसातलतले विदुः ॥ ७।३७ ॥
पुलस्त्य उवाच ।
श्रुत्वा तद्भार्गववचो दैत्यराजो महामुने ।
नेमिषै गन्तुकामस्तु दानवानितदब्रवीत् ॥ ७।३८ ॥
प्रह्लाद उवाच ।
उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थं हि नैमिषम् ।
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् ॥ ७।३९ ॥
पुलस्त्य उवाच ।
इत्युक्ता दानवेन्द्रेण सर्वे ते दैत्यदानवाः ।
चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात् ॥ ७।४० ॥
ते समभ्येत्य दैतेया दानवाश्च महाबलाः ।
नेमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः ॥ ७।४१ ॥
ततो दितीश्वरः श्रीमान् मृगव्यां स चचार ह ।
चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम् ॥ ७।४२ ॥
तस्यादूरे महाशाखं शलवृक्षं शरैश्चितम् ।
ददर्श बाणानपरान् मुखे लग्नान् परस्परम् ॥ ७।४३ ॥
ततस्तानद्भुताकारान् बाणान् नागोपवीतकान् ।
दृष्ट्वातुलं तदा चक्रे क्रोधं दैत्येश्वरः किल ॥ ७।४४ ॥
स ददर्श ततो ऽदूरात्कृष्णाजिनधरौ मुनी ।
समुन्नतजटाभारौ तपस्यासक्तमानसौ ॥ ७।४५ ॥
तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते ।
शार्ङ्गमागवं चैव अक्ष्य्यौ च महेषुधी ॥ ७।४६ ॥
तौ दृष्ट्वामन्यत तदा दामिबिकाविति दानवः ।
ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ ॥ ७।४७ ॥
किं भवद्भ्यां समारःधं दम्भं धर्मविनाशनम् ।
क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ ॥ ७।४८ ॥
अथोवाच नरो दैत्यं का ते चिन्ता दितीश्वर ।
सामर्थ्ये सति यः कुर्यात् तत्सम्पद्येत तस्य हि ॥ ७।४९ ॥
अथोवाच दितीशस्तौ का शक्तिर्युवयोरिह ।
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ ७।५० ॥
नरस्तं प्रत्युवाचाथ आवाभ्यां शक्तिरूर्जिता ।
न कश्चिच्छक्नुयाद् योद्धुं नरनारायणौ युधि ॥ ७।५१ ॥
दैत्येश्वरस्तस्तः क्रुद्धः प्रतिज्ञामारुरोह च ।
यथा कथञ्चिज्जेष्यामि नरनारायणौ रणे ॥ ७।५२ ॥
इत्येवमुक्त्वा वचनं महात्मा दितीश्वरः स्थाप्य बलं वनान्ते ।
वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार ॥ ७।५३ ॥
ततो नरस्त्वाजगवं हि चापमानम्य बाणान् सुबहुञ्शिताग्रान् ।
मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्यस्तपनीयपुङ्खैः ॥ ७।५४ ॥
छिन्नान् समीक्ष्याथ नरः पृषत्कान् दैत्येश्वरेणाप्रतिमेव सङ्ख्ये ।
क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान् ॥ ७।५५ ॥
एकं नरो द्वौ दितिजेश्वरश्च त्रीन् धर्मसूनुश्चतुरो दितीशः ।
नरस्तु बाणान् प्रमुमोच पञ्च षड् द्रत्यनाथो निशितान् पृषत्कान् ॥ ७।५६ ॥
सप्तर्षिमुख्यो द्विचतुश्च दैत्यो नरस्तु षट् त्रीणि च दैत्यमुख्ये ।
षट्त्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र ॥ ७।५७ ॥
एकं च षट् पञ्च नरेण मुक्तास्त्वष्टौ शराः सप्त च दानवेन ।
षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज्ज ॥ ७।५८ ॥
शतं नरस्त्रीणि शतानि दैत्यः षड् धर्मपुत्रो दश दैत्यराजः ।
ततो ऽप्यसङ्ख्येयतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात् ॥ ७।५९ ॥
ततो नरो बाणगणैरसख्यैरवास्तरद्भूमिमथो दिशः खम् ।
स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः ॥ ७।६० ॥
ततः पतत्त्रिभिर्वीरौ सुभृशं नरदानवौ ।
युद्धे वरास्त्रैर्युध्येतां घोररूपैः परस्परम् ॥ ७।६१ ॥
ततस्तु दैत्येन वरास्त्रपाणिना चापे नियुक्तं तु पितामहास्त्रम् ।
महेश्वरास्त्रं पुरुषोत्तमेव समं समाहत्य निपेततुस्तौ ॥ ७।६२ ॥
ब्रह्मस्त्रे तु प्रशमिते प्रह्लादः क्रोधमूर्छितः ।
गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात् ॥ ७।६३ ॥
गदापाणिं समायान्तं दैत्यं नारायणस्तदा ।
दृष्ट्वाथ पृष्ठतश्चक्रे नरं योद्धूमनाः स्वयम् ॥ ७।६४ ॥
ततो दीतीशः सगदः समाद्रवत् सशार्ङ्गपाणिं तपसां निधानम् ।
ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम् ॥ ७।६५ ॥

इति श्रीवामनपुराणे सप्तमो ऽध्यायः