पुलस्त्य उवाच ।
हृद्भवो ब्रह्मणो यो ऽसौ धर्मो दिव्यवपुर्मुने ।
दाक्षायाणी तस्य भार्या तस्यामजनयत्सुतान् ॥ ६।१ ॥
हरिं कुष्णं च देवर्षे नारायणनरौ तथा ।
योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः ॥ ६।२ ॥
नरनारायणौ चैव जगतो हितकाम्यया ।
तप्येतां च तपः सौम्यौ पुराणवृषिसत्त्मौ ॥ ६।३ ॥
प्रालेयाद्रिं समागम्य तीर्थे बदरिकाश्रमे ।
गृमन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥ ६।४ ॥
नरनारायणाभ्यां च जगदेतच्चराचरम् ।
तापितं तपसा ब्रह्मन् शक्रः क्षोभं तदा ययौ ॥ ६।५ ॥
सङ्क्षुब्धस्तपसा ताभ्यां क्षोभमणाय शतक्रतुः ।
रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम् ॥ ६।६ ॥
कन्दर्पश्च सुदुर्धर्षश्चूताङ्कुरमहायुधः ।
समं सहचरेणैव वसन्तेनाश्रमं गतः ॥ ६।७ ॥
ततो माधवकन्दर्पौ ताश्चैवाप्सरसो वराः ।
बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया ॥ ६।८ ॥
ततो वसन्ते सम्प्राप्ते सिंशुका ज्वलनप्रभाः ।
निष्पत्राः सततं रेजुः शोमभयन्तो धरातलम् ॥ ६।९ ॥
शिशिरं नाम मातङ्गं विदार्य नखरैरिव ।
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ ६।१० ॥
मया तुषारौघकरी निर्जितः स्वेन तेजसा ।
तमेव हसतेत्युच्चैः वसन्तः कुन्दकुड्मलैः ॥ ६।११ ॥
वनानि कर्णिकाराणां पुष्पितानि विरेजिरे ।
यथा नरेन्द्रपुत्राणि कनकाभरणानि हि ॥ ६।१२ ॥
तेषामनु तथा नीपाः पिङ्करा इव रेजिरे ।
स्वमिसंलब्धसम्माना भृत्या राजसुतानिव ॥ ६।१३ ॥
रक्ताशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः ।
भृत्वा वसन्तनृपतेः सङ्ग्रामे ऽसृक्प्लुता इव ॥ ६।१४ ॥
मृगवृन्दाः पिञ्जरिता राजन्ते गहने वने ।
पुलकाभिर्वृता यद्वत् सज्जनाः सुहृदागमे ॥ ६।१५ ॥
मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः ।
वक्तुकामा इवाङ्गुल्या को ऽस्माकं सदृशो नगः ॥ ६।१६ ॥
रक्ताशोककरा तन्वी देवर्षे किशुकाङ्घ्रिका ।
नीलाशोककचा श्यामा विकासिकमलानना ॥ ६।१७ ॥
नीलेन्दीवरनेत्रा च ब्रह्मन् बिल्वफलस्तनी ।
प्रफुल्लकुन्ददशना मञ्जरीकरशोभिता ॥ ६।१८ ॥
बन्धुजीवाधरा शुभ्रा सिन्दुवारनखाद्भता ।
पुंस्कोकिलस्वना दिव्या अङ्कोलवसना शुभा ॥ ६।१९ ॥
बर्हिवृन्दकलापा च सारसस्वरनूपुरा ।
प्राग्वंशरसना ब्रह्मन् मत्तहंसगतिस्तथा ॥ ६।२० ॥
पुत्रजीवांशुका भृङ्गरोमराजिविराजिता ।
वसन्तलक्ष्मीः सम्प्राप्ता ब३ह्मन् बदरिकाश्रमे ॥ ६।२१ ॥
ततो नारायणो दृष्ट्वा आश्रमस्यानवद्यताम् ।
समीक्ष्य च दिशः सर्वास्ततो ऽनङ्गमपश्यत ॥ ६।२२ ॥
नारद उवाच। ।
को ऽसावनङ्गो ब्रह्मर्षे तस्मिन् बदरिकाश्रमे ।
यं ददर्श जगन्नाथो देवो नारायणो ऽव्ययः ॥ ६।२३ ॥
पुलस्त्य उवाच ।
कन्दर्पो हर्षतनयो यो ऽसौ कामो निगद्यते ।
स शङ्करेण सन्दग्धो ह्यनङ्गत्वमुपागतः ॥ ६।२४ ॥
नारद उवाच ।
किमर्थं कामदेवो ऽसौ देवदेवेन शम्भुना ।
दग्धस्तु कारणे कस्मिन्नेतद्व्याख्यातुमर्हसि ॥ ६।२५ ॥
पुलस्त्य उवाच ।
यदा दक्षसुता ब्रह्मन् सती याता यमक्षयम् ।
विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः ॥ ६।२६ ॥
ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः ।
अपत्नीकं तदास्त्रेण उन्मादेनाभ्यताडयत् ॥ ६।२७ ॥
ततो हरः शरेणाथ उन्मादेनाशु ताडितः ।
विचचार तदोन्मत्तः काननानि सरांसि च ॥ ६।२८ ॥
स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः ।
न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः ॥ ६।२९ ॥
ततः पपात देवेशः कालिन्दीसरितं मुने ।
निमग्ने शङ्करे आपो दग्धाः कृष्णात्वमागताः ॥ ६।३० ॥
तदाप्रभृति कालिन्द्या भृङ्गाञ्जननिभं जलम् ।
आस्यन्दत् पुण्यतीर्था सा केशपाशमिवावने ॥ ६।३१ ॥
ततो नदीषु पुण्यासु सरस्सु च नदेषु च ।
पुलुनेषु च रम्येषु वापीषु नलिनीषु च ॥ ६।३२ ॥
पर्वतेषु च रम्येषु काननेषु च सानुषु ।
विचारन् स्वेच्छया नैव शर्म लेभे महेश्वरः ॥ ६।३३ ॥
क्षणं गायति देवर्षे क्षणं रोदिति शङ्करः ।
क्षणं ध्यायति तन्वङ्गीं दक्षकन्यां मनोरमाम् ॥ ६।३४ ॥
ध्यात्वा क्षणं प्रस्वपिति क्षणं स्वप्नायते हरः ।
स्वप्ने तथेदं गदति तां दृष्ट्वा दक्षकन्यकाम् ॥ ६।३५ ॥
निर्घृणे तिष्ठ किं मूढे त्यजसे मामनिन्दिते ।
मुग्धे त्वया विरहितो दग्धो ऽस्मि मदनाग्निना ॥ ६।३६ ॥
सति सत्यं प्रकुपिता मा कोपं कुरु सुन्दरि ।
पादप्रणामावनतमभिभाषितु मर्हसि ॥ ६।३७ ॥
श्रूयसे दृश्यसे नित्यं स्पृश्यसे वन्द्यसे प्रिये ।
आलिङ्ग्यसे च सततं किमर्थं नाभिभाषसे ॥ ६।३८ ॥
विलपन्तं जनं दृष्ट्वा कृपा कस्य न जायते ।
विशेषतः पतिं बाले ननुप त्वमतिनिर्घृणा ॥ ६।३९ ॥
त्वयोक्तानि वचांस्येवं पूर्वं मम कृशोदरि ।
विना त्वया न जीवेयं तदसत्यं त्वया कृतम् ॥ ६।४० ॥
एह्येहि कामसन्तप्तं परिष्वज सुलोचने ।
नान्यथा नश्यते तापः सत्येनापि शपे प्रिये ॥ ६।४१ ॥
इत्थं विलप्य स्वप्नान्ते प्रतिबुद्धस्तु तत्क्षणात् ।
उत्कूजति तथारण्ये मुक्तकण्ठं पुनः पुनः ॥ ६।४२ ॥
तं कूजमानं विलपन्तमारात् समीक्ष्य पाचं तरसा वृषकेतनं हि ।
विव्याध चापं तरसा विनाम्य सन्तापनाम्ना तु शरेण भूयः ॥ ६।४३ ॥
सन्तापनास्त्रेण तदा स विद्धो भूयः स सन्तप्ततरो बभूव ।
सन्तापयंश्चापि जगत्समग्रं फूत्कृत्य फूत्कृत्य विवासते स्म ॥ ६।४४ ॥
तं चापि भूयो मदनो जघान विजृण्भणास्त्रेण ततो विजृम्भे ।
ततो भृशं कामशरैर्वितुन्नो विजृम्भमाणः परितो भ्रमंश्च ॥ ६।४५ ॥
ददर्श यक्षाधिपतेस्तनूजं पाञ्चालिकं नाम जगत्प्रधानम् ।
दृष्ट्वा त्रिनेत्रो धनदस्य पुत्रं पार्श्वं समभ्येत्य वचो बभाषे ।
भ्रातृव्य वक्ष्यसि वचो यदद्य तत् त्वं कुरुष्वामितविक्रमो ऽसि ॥ ६।४६ ॥
पाञ्चालिक उवाच ।
यन्नाथ मां वक्ष्यसि तत्करिष्ये सुदुष्करं यद्यपि देवसङ्घै ।
आज्ञापयस्वातुलवीर्य शम्भो दासो ऽस्मि ते भक्तियुतस्तथेश ॥ ६।४७ ॥
ईश्वर उवाच ।
नाशं गतायां वरदाम्बिकायां कामाग्निना प्लुष्सुविग्रहो ऽस्मि ।
विजृम्भणोन्मादसरैर्विभिन्नो धृतिं न विन्दामि रतिं सुखं वा ॥ ६।४८ ॥
विजृम्भणं पुत्र तथैव तापमुन्मादमुग्रं मदनप्रणुन्नम् ।
नान्यः पुमान् धारयितुं हि शक्तो मुक्त्वा भवन्तं हि ततः प्रतीच्छ ॥ ६।४९ ॥
पुलस्त्य उवाच ।
इत्येवमुक्तो वृषभध्वजेन यक्षः प्रतीच्छत् स विजृम्भणादीन् ।
तोषं जगामाशु ततस्त्रिशूली तुष्टस्तदैवं वचनं बभाषे ॥ ६।५० ॥
हर उवाच ।
यस्मात्त्वया पुत्र सुदुर्धराणि विजृम्भणादीन् प्रतीच्छितानि ।
तस्माद्वरं त्वां प्रतिपूजनाय दास्यामि लोक्य च हास्यकारि ॥ ६।५१ ॥
यस्त्वां यदा पश्यति चैत्रमासे स्पृशेन्नरो वार्चयते च भक्त्या ।
वृद्धो ऽथ बालो ऽथ युवाथ योषित् सर्वे तदोन्मादधरा भवन्ति ॥ ६।५२ ॥
गायन्ति नृत्यन्ति रमन्ति यक्ष वाद्यानि यत्नादपि वादयन्ति ।
तवाग्रतो हास्यवचो ऽभिरक्ता भवन्ति ते योगयुतास्तु ते स्युः ॥ ६।५३ ॥
ममैव नाम्ना भवितासि पूज्यः पाञ्चालिकेशः प्रथितः पृथिव्याम् ।
मम प्रसादाद् वरदो नराणां भविष्यसे पूज्यतमो ऽभिगच्छ ॥ ६।५४ ॥
इत्येवमुक्तो विभुना स यक्षो जगाम देशान् सहसैव सर्वान् ।
कालञ्जरस्योत्तरतः सुपुण्यो देशो हिमाद्रेरपि दक्षिणस्थः ॥ ६।५५ ॥
तस्मिन् सुपुण्ये विषये निविष्टो रुद्रप्रसादादभिपूज्यते ऽसौ ।
तस्मिन् प्रयाते भगवांस्त्रिनेत्रो देवो ऽपि विन्ध्यं गिरिमभ्यगच्छत् ॥ ६।५६ ॥
तत्रापि मदनो गत्वा ददर्श वृषकेतनम् ।
दृष्ट्वा प्रहर्त्तुकामं च ततः प्रादुवचद्धरः ॥ ६।५७ ॥
ततो दारुवनं घोरं मदनाभिसृतो हरः ।
विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥ ६।५८ ॥
ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नताभवन् ।
ततस्तान् प्राह भगवान् भिक्षा मे प्रतिदीयताम् ॥ ६।५९ ॥
ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः ।
तदाश्रमाणि सर्वाणि परिचक्राम नारदः ॥ ६।६० ॥
तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः ।
प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः ॥ ६।६१ ॥
ऋते त्वरुन्धतीमेकामनसूयां च भामिनीम् ।
एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः ॥ ६।६२ ॥
ततः सङ्क्षुभिताः सर्वा यत्र याति महेश्वरः ।
तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥ ६।६३ ॥
त्यक्त्वाश्रमणि शून्यानि स्वानिता मुनियोषितः ।
अनुडजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥ ६।६४ ॥
ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने ।
क्रोधान्विताब्रुवन्सर्वे लिङ्गे ऽस्य पततां भुवि ॥ ६।६५ ॥
ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयन् ।
अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥ ६।६६ ॥
ततः स पतितो लिङ्गो विभिद्य वसुधातलम् ।
रसातलं विवेशाशु ब्रह्मण्डं चोर्ध्वतो ऽभिनत् ॥ ६।६७ ॥
ततश्चचाल पृथिवी गिरयः सरितो नगाः ।
पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः ॥ ६।६८ ॥
सङ्क्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः ।
जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥ ६।६९ ॥
तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः ।
उवाच देव भुवनाः किमर्थ क्षुभिता विभो ॥ ६।७० ॥
अथोवाच हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः ।
पातितस्तस्य भारार्ता सञ्चचाल वसुन्धरा ॥ ६।७१ ॥
ततस्तदद्भुततमं श्रुत्वा देवः वितामहः ।
तत्र गच्छाम देवेश एवमाह पुनः पुनः ॥ ६।७२ ॥
ततः पितामहो देवः केशवश्च जगत्पतिः ।
आजग्मतुस्तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥ ६।७३ ॥
ततो ऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् ।
पातालं प्रविवेशाथ विस्मयान्तरितो विभुः ॥ ६।७४ ॥
ब्रह्म पद्मविमानेन उर्ध्वमाक्रम्य सर्वतः ।
नैवान्तमलभद् ब्रह्मन् विस्मितः पुनरागतः ॥ ६।७५ ॥
विष्णुर्गत्वाथ पातालान् सप्त लोकपरायणः ।
चक्रपाणिर्विनिष्क्रान्तो लेभे ऽन्तं न महामुने ॥ ६।७६ ॥
विष्णुः पितामहश्चोभौ हरलिङ्गं समेत्य हि ।
कृताञ्जलिपुटौ भूत्वा स्तोतुं देवं प्रचक्रतुः ॥ ६।७७ ॥
हरिब्रह्माणावूचतुः ।
नमो ऽस्तु ते शूलपाणे नमो ऽस्तु वृषभध्वज ।
जीमूतवाहन कवे शर्व त्र्यम्बक शङ्कर ॥ ६।७८ ॥
महेश्वर महेशान सुपर्णाक्ष वृषाकपे ।
दक्षयज्ञक्षयकर कालरूप नमो ऽस्तु ते ॥ ६।७९ ॥
त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वर ।
भवानन्तश्च भगवान् सर्वगस्त्वं नमो ऽस्तु ते ॥ ६।८० ॥
पुलस्त्य उवाच। ।
एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः ।
स्वरूपी ताविदं वाक्यमुवाच वदतां वरः ॥ ६।८१ ॥
हर उवाच ।
किमर्थं देवतानाथौ परिभूतक्रमं त्विह ।
मां स्तुवाते भृशास्वस्थं कामतापितविग्रहम् ॥ ६।८२ ॥
देवावूचतुः । ।
भक्तः पातितं लिङ्गं यदेतद् भुवि शङ्कर ।
एतत् प्रगृह्यतां भूय अतो देव स्तुवावहे ॥ ६।८३ ॥
हर उवाच। ।
यद्यर्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ ।
तदेतत्प्रतिगृह्णीयां नान्यथेति कथञ्चन ॥ ६।८४ ॥
ततः प्रोवाच भगवानेवमस्त्विति केशव ।
ब्रह्म स्वयं च जग्राह लिङ्गं कनकपिङ्गलम् ॥ ६।८५ ॥
ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने ।
शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानि च । ।
६।८६ आद्यं शैवं परिख्यातमन्यत्पाशुपतं मुने ।
तृतीयं कालवदनं चतुर्थं च कपालिनम् ॥ ६।८७ ॥
शैवश्चासीत्स्वयं शक्तिर्वसिष्ठस्य प्रियः श्रुतः ।
तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥ ६।८८ ॥
महापाशुपतश्चासीद्भरद्वाजस्तपोधनः ।
तस्य शिष्यो ऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥ ६।८९ ॥
कालस्यो भगवानासीदापस्तम्बस्तपोधनः ।
तस्य शिष्योभवद्वैश्यो नाम्ना क्राथेश्वरो मुने ॥ ६।९० ॥
महाव्रती च धनदस्तस्य शिष्यश्च विर्यवान् ।
कर्णोदर इति ख्यातो जात्या शूद्रो महातपाः ॥ ६।९१ ॥
एवं म भगवान्ब्रह्म पूजनाय शिवस्य तु ।
कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥ ६।९२ ॥
गते ब३ह्मणि शर्वो ऽपि उपसंहृत्य तं तदा ।
लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह ।
६।९३ विचरन्तं तदा भूयो महेशं कुसुमायुधः ।
आरात्स्थित्वाग्रतो धन्वी सन्तापयितुमुद्यतः ॥ ६।९४ ॥
ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः ।
स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥ ६।९५ ॥
आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि ।
प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत् ॥ ६।९६ ॥
प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः ।
उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥ ६।९७ ॥
यदासीन्मुष्टिबन्धं तु रुक्मपृष्ठं महाप्रभम् ।
स चम्पकतरुर्जातः सुगन्धाढ्यो गुणाकृतिः ॥ ६।९८ ॥
नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम् ।
तज्जातं केसरारण्यं बकुलं नामतो मुने ॥ ६।९९ ॥
या च कोटी सुभा ह्यासीदिन्द्रनीलविभूषिता ।
जाता सा पाटला रम्या भृङ्गराजिविभूषिता ॥ ६।१०० ॥
नाहोपरि तथा मुष्टौ स्थानं शशिमणिप्रभम् ।
पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥ ६।१०१ ॥
ऊर्द्ध्व मुष्ट्या अधः कोट्योः स्थानं विद्रुमभूषितम् ।
तस्माद्भुपुटा मल्ली सञ्जाता विविधा मुने ॥ ६।१०२ ॥
पुष्पोत्तमानि रम्याणि सुरभीणि च नारद ।
जातियुक्तानि देवेन स्वयमाचरितानि च ॥ ६।१०३ ॥
मुमोच मार्गणान् भूम्यां शरीरे दह्यति स्मरः ।
फलोपगानि वृक्षाणि सम्भूतानि सहस्रशः ॥ ६।१०४ ॥
चूतादीनि सुगन्धीनि स्वादूनि विविधानि च ।
हरप्रसादाज्जातानि भोज्यान्यपि सुरोत्तमैः ॥ ६।१०५ ॥
एवं दग्ध्वा स्मरं रुद्रः संयम्य स्वतनुं विभुः ।
पुष्यार्था शिशिराद्रिं स जगाम तपसे ऽव्ययः ॥ ६।१०६ ॥
एवं पुरा देववरेण शम्भुना कामस्तु दग्धः सशरः सचापः ।
ततस्त्वनङ्गेति महाधनुर्द्धरो देवैस्तु गीतः सुरपूर्वपूजितः ॥ ६।१०७ ॥
इति श्रीवामनपुराणे षष्ठो ऽध्यायः