पुलस्त्य उवाच ।
जटाधरं हरिर्द्दष्ट्वा क्रोधादारक्तलोचनम् ।
तस्मात् स्थानादपाक्रम्य कुब्जाम्रे ऽन्तर्हितः स्थितः ॥ ५।१ ॥
वसवो ऽष्टौ हरं दृष्ट्वा सुस्रुवुर्वेगतो मुने ।
सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती ॥ ५।२ ॥
एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः ।
कान्दिशीका लयं जग्मुः समभ्येत्यैव शङ्करम् ॥ ५।३ ॥
विश्वे ऽश्विनौ चच साध्याश्च मरुतो ऽनलभास्कराः ।
समासाद्य पुरोडाशं भक्ष्याश्च महामुने ॥ ५।४ ॥
चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन् ।
उत्पत्यरुह्य गगनं स्वमधिष्ठानमास्थितः ॥ ५।५ ॥
कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम् ।
पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने ॥ ५।६ ॥
असकृद् दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम् ।
शक्रादीनां सुरेशानां कृपणं विललाप ह ॥ ५।७ ॥
ततः क्रोधाभिभूतेन शङ्करेण महात्मना ।
तलप्रहारैरमरा बहवो विनिपातिताः ॥ ५।८ ॥
पादप्रहारैरमरा त्रिशुलेनापरे मुने ।
दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः ॥ ५।९ ॥
ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान् ।
क्रोधाद् बाहू प्रसार्यथ प्रदुद्राव महेश्वरम् ॥ ५।१० ॥
तमापतन्तं भगवान् सन्निरीक्ष्य त्रिलोचनः ।
बाहुभ्यां प्रतिजग्राह करेणैकेन शङ्करः ॥ ५।११ ॥
कराभ्यां प्रगृहीतस्य शम्भुनांशुमतो ऽपि हि ।
कराङ्गुलिभ्यो निश्चेरुरसृग्धाराः समन्ततः ॥ ५।१२ ॥
ततो वेगेन महता अंशुमन्तं दिवाकरम् ।
भ्रामयामास सततं सिंहो मृगशिशुं यथा ॥ ५।१३ ॥
भ्रामितस्यातिवेगेन नारदांशुमतो ऽपि हि ।
भुजौ हस्वत्वमापन्नौ त्रुटितस्नायुबन्धनौ ॥ ५।१४ ॥
रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः ।
सन्निरीभ्योत्ससर्जैनमन्यतो।भिजगाम ह ॥ ५।१५ ॥
ततस्तु पूषा विहसन् दशनानि विदर्शयन् ।
प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम् ॥ ५।१६ ॥
ततः क्रोधाभिभूतेन पूष्णे वेगेन शम्भुना ।
मुष्टिनाहत्य दशनाः पातिता धरणीतले ॥ ५।१७ ॥
भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः ।
पपात भुवि निःसञ्ज्ञो वज्राहत इवाचलः ॥ ५।१८ ॥
भगो।भिवीभ्य पूषाणं पतितं रुधिरोक्षितम् ।
नेत्राभ्यां घोररूपाभ्यां वृषध्वजमवैक्षत ॥ ५।१९ ॥
त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी ।
निपातयामास भुवि क्षोभयन्सर्वदेवताः ॥ ५।२० ॥
ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम् ।
मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश । ।
५।२१ प्रतियातेषु देवेषु प्रह्लादाद्या दितीस्वराः ।
नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने ॥ ५।२२ ॥
ततस्तं यज्ञवाटं तु शङ्करो घोरचक्षुषा ।
ददर्श दग्धुं कोपेन सर्वांश्चैव सुरामुरान् ॥ ५।२३ ॥
ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुस्तथा ।
भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम् ॥ ५।२४ ॥
त्रयो ऽग्नयस्त्रिभिर्नेर्दुःसहं समवैक्षत ।
दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात् ॥ ५।२५ ॥
अग्नौ प्रणष्टे यज्ञो ऽपि भूत्वा दिव्यवपुर्मृगः ।
दुद्राव विक्लवगतिर्दक्षिणासहितो ऽम्बरे ॥ ५।२६ ॥
तमेवानुससारेशश्चापमानम्य वेगवान् ।
शरं पाशुपतं कृत्वा कालरूपी महेश्वरः ॥ ५।२७ ॥
अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः ।
अर्द्धेन गगने शर्वः कालरूपी च कथ्यते ॥ ५।२८ ॥
नारद उवाच ।
कालरूपी त्वयाख्यातः शम्भुर्गगनगोचरः ।
लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि ॥ ५।२९ ॥
पुलस्त्य उवाच ।
स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालपूपिणः ।
येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना ॥ ५।३० ॥
यत्राश्विनी च भरणी कुत्तिकायास्तथांशकः ।
मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः ॥ ५।३१ ॥
आग्नेयाशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम् ।
सौम्यार्द्ध वृषनामेदं वदनं परिकीर्तितम् ॥ ५।३२ ॥
मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहं त्विदम् ।
मिथुनं भुजयोस्तदस्य गगनस्थस्य शूलिनः ॥ ५।३३ ॥
आदित्यांशश्च पुष्यं च आश्लेषा शशिनो गृहम् ।
राशिः कर्कटको नाम पार्श्वे मखविनाशिनः।थ ।
५।३४ पित्र्यर्क्षं भगदैवत्यमुत्तरांश् च केसरी ।
सूर्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिगीयते ॥ ५।३५ ॥
उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम् ।
सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः ॥ ५।३६ ॥
चित्रांशद्वितयं स्वातिर्विशाखायांशकत्रयम् ।
द्वितीयं सुक्रसदनं तुला नाभिरुदाहृता ॥ ५।३७ ॥
विशाखांशमनूराधा ज्येष्ठा भौमगृहं त्विदम् ।
द्वितीयं वृश्चिको राशिर्मेढ्रं कालसवरूपिणः ॥ ५।३८ ॥
मूलं पूर्वोत्तरांशश्च देवाचजार्यगृहं धनुः ।
ऊरुयुगलमीशस्य अमरर्षे प्रगीयते ॥ ५।३९ ॥
उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ।
धनिष्ठार्धं शतभिषा जानुनी परमेष्ठिनः ॥ ५।४० ॥
धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम् ।
सौरेः सद्मापरमिदं कुम्भो जङ्घे च विश्रते ॥ ५।४१ ॥
प्रोष्ठपद्यांशमेकं तु उत्तरा रेवती तथा ।
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥ ५।४२ ॥
एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गराजघान ।
विद्धश्चासौ वेदनाबुद्धिमुक्तः खे सन्तस्थौ तारकाभिश्चिताङ्गः ॥ ५।४३ ॥
नारद उवाच ।
राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम ।
तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः ॥ ५।४४ ॥
पुलस्त्य उवाच ।
स्वरूपं तव वक्ष्यामि राशीनां शृणु नारद ।
यादृशा यत्र सञ्चारा यस्मिन् स्थाने वसन्ति च ॥ ५।४५ ॥
मेषः समानमूर्तिश्च अजाविकधनादिषु ।
सञ्चारस्थानमेवास्य धान्यरत्नाकरादिषु ॥ ५।४६ ॥
नवशादूलसञ्छन्नवसुधायां च सर्वशः ।
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ॥ ५।४७ ॥
वृषः सदृशरूपो हि चरते गोकुलादिषु ।
तस्याधिवासभूमित्तु कुषीवलधराश्रयः ॥ ५।४८ ॥
स्त्रीपुंसयोः समं रूपं शय्यासनपरिग्रहः ।
वीणावाद्यधृङ् मिथुनं गीतनर्तकशिल्पिषु ॥ ५।४९ ॥
स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु ।
मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः ॥ ५।५० ॥
कर्किः कुलीरेण समः सलिलस्थः प्रकीर्तितः ।
केदारवापीपुलिने विविक्तावनिरेव च ॥ ५।५१ ॥
सिहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु ।
वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥ ५।५२ ॥
व्रीहिप्रदीपिककरा मनावारूढा च कन्यका ।
चरते स्त्रीरतिस्थाने वसते नड्वलेषु च ॥ ५।५३ ॥
तुलापाणिश्च पुरुषो वीथ्यापणविचारकः ।
नगराध्वानशालासु वसते तत्र नारद ॥ ५।५४ ॥
श्वभ्रवल्मीकसञ्चारी वृश्चिको वृश्चिकाकृतिः ।
विषगोमयकीटादिपाषाणादिषु संस्थितः ॥ ५।५५ ॥
धनुस्तु रङ्गजघनो दीप्यमानो धनुर्धरः ।
वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु ॥ ५।५६ ॥
मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः ।
मकरो ऽसौ नदीचारी वसते च महोदधौ ॥ ५।५७ ॥
रिक्तमुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः ।
द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु ॥ ५।५८ ॥
मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसञ्चरः ।
वसते पुण्यदेशेषु देवब्राह्नणसद्मसु ॥ ५।५९ ॥
लक्षणा गदितास्तुभ्यं मेषादीनां महामुने ।
न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम् ॥ ५।६० ॥
एतन् मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रमाथ यज्ञम् ।
पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च ॥ ५।६१ ॥
इति श्रीवामनपुराणे पञ्चमो ऽध्यायः