०४

पुलस्त्य उवाच ।
एवं कपाली सञ्जातो देवर्षे भगवान्हरः ।
अनेन कारणेनासौ दक्षेण न निमन्त्रितः ॥ ४।१ ॥
कपालिजायेति सतीं विज्ञायाथ प्रजापतिः ।
यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता ॥ ४।२ ॥
एतस्मिन्नन्तरे देवीं द्रष्टुं गौतमनन्दिनी ।
जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम् ॥ ४।३ ॥
तामागतां सती दृष्ट्वा जयमेकामुवाच ह ।
किमर्थं विजया नागाज्जयन्ती चापराजिता ॥ ४।४ ॥
सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम् ।
गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः ॥ ४।५ ॥
समं पित्रा गौतमेन मात्रा चैवाप्यहल्यया ।
अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका ॥ ४।६ ॥
किं त्वं न व्रजसे तत्र तथा देवो महेश्वरः ।
नामन्त्रितासि तातेन उताहोस्विद् व्रजिष्यसि ॥ ४।७ ॥
गतास्तु ऋषयः सर्वे ऋषिपत्न्यः सुरास्तथा ।
मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम् ॥ ४।८ ॥
चतुर्दशसु लोकेषु जन्तवो ये चराचराः ।
निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता ॥ ४।९ ॥
पुलस्त्य उवाच। ।
जयायास्तद्वचः श्रुत्वा वज्रपातसमं सती ।
मन्युनाभिप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः ॥ ४।१० ॥
जया मृतां सतीं दृष्ट्वा क्रोधशोकपरिप्लुता ।
मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह ॥ ४।११ ॥
आक्रन्दितध्वनिं श्रुत्वा शूलपाणिस्त्रिलोचनः ।
आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः ॥ ४।१२ ॥
आगतो ददृशे देवीं लतामिव वनस्पतेः ।
कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम् ॥ ४।१३ ॥
देवीं निपतितां दृष्ट्वा जयां पप्रच्छ शङ्करः ।
किमियं पतिता भूमौ निकृत्तेव लता सती ॥ ४।१४ ॥
सा शङ्करवचः श्रुत्वा जया वचनमब्रवीत् ।
श्रत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह ॥ ४।१५ ॥
आदित्याद्यास्त्रिलोकेश समं शक्रादिभिः सुरैः ।
मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती ॥ ४।१६ ॥
पुलस्त्य उवाच ।
एतच्छ्रुत्वा वचो रौद्रं रुद्रः क्रोधाप्लुतो बभौ ।
क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसार्चिषः ॥ ४।१७ ॥
ततः क्रोधात् त्रिनेत्रस्य गात्ररोमोद्भाव मुने ।
गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः ॥ ४।१८ ॥
गणैः परिवृतस्तस्मान्मन्दराद्धिमसाह्वयम् ।
गतः कनखलं तस्माद् यत्र दक्षो ऽयजत् क्रतुम् ॥ ४।१९ ॥
ततो गणानामधिपो वीरभद्रो महाबलः ।
दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने ॥ ४।२० ॥
जया क्रोधाद् गदां गृह्य पूर्वदक्षिणतः स्थिता ।
मध्ये त्रिरशूलधृक् शर्वस्तस्थौ क्रोधान्महामुने ॥ ४।२१ ॥
मडगारिवदनं दृष्ट्वा देवाः शक्रपुरोगमाः ।
ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन् ॥ ४।२२ ॥
ततस्तु धनुरादाय शरांश्चाशीविषोपमान् ।
द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत् ॥ ४।२३ ॥
तमापतन्तं सहसा धर्मं दृष्ट्वा गणेश्वरः ।
करेणैकेन जग्राह त्रिशुलं वह्निसन्निभम् ॥ ४।२४ ॥
कार्मुकं च द्वितीयेन तृतीयेनाथ मार्गणान् ।
चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद् गणः ॥ ४।२५ ॥
ततश्चतुर्भुजं दृष्ट्वा धर्मराजो गणेश्वरम् ।
तस्थावष्टभुनजो भूत्वा नानायुधधरो ऽव्ययः ॥ ४।२६ ॥
खड्गचर्मगदाप्रासपरश्वधवराङ्कुशैः ।
चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम् ॥ ४।२७ ॥
गणेश्वरो ऽपि सङ्क्रुद्धो हन्तुं धर्म सनातनम् ।
ववर्ष मार्गणास्तीक्ष्णान् यथा प्रावृषि तोयदः ॥ ४।२८ ॥
तावन्योन्यं महात्मानौ शरचापधरौ मुने ।
रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः ॥ ४।२९ ॥
ततो वरास्त्रैर्गणनायकेन जितः स धर्मः तरसा प्रसह्य ।
पराङ्मुखो ऽभूद्विमना मुनीन्द्र स वीरभद्रः प्रविवेश यज्ञम् । ।
४।३० यज्ञावाटं प्रविष्टं तं वीरभद्रं गणेश्वरम् ।
दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने ॥ ४।३१ ॥
वसवो ऽष्टौ महाभागा ग्रहा नव सुदारुणाः ।
इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि ॥ ४।३२ ॥
विश्वेदेवाश्च साध्याश्च सिद्धगन्धर्वपन्नगाः ।
यक्षाः किम्पुरुषाश्चैव खगाश्क्रधरास्तथा ॥ ४।३३ ॥
राजा वैवस्ताद्वंशाद् धर्मकीर्तिस्तु विश्रुतः ।
सोमवंशोद्भवश्चोग्रो भोजकीर्तिर्महाभुजः ॥ ४।३४ ॥
दीतिजा दानवाश्चान्ये ये ऽन्ये तत्र समागताः ।
ते सर्वे ऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः ॥ ४।३५ ॥
तानापतत एवाशु चापबाणधरो गणः ।
अभिदुद्राव वेगेन सर्वानेव शरोत्करैः ॥ ४।३६ ॥
ते शस्त्रवर्षमतुलं गणेशाय समुत्सृजन् ।
गणेशो ऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च ॥ ४।३७ ॥
शरैः शस्त्रैश्च सततं वध्यमाना महात्मना ।
वीरभद्रेण देवाद्या अवहारमर्कुत ॥ ४।३८ ॥
ततो विवेश गणपो यज्ञमध्यं सुविस्तृतम् ।
जुह्वाना ऋषयो यत्र हवींषि प्रवितन्वते ॥ ४।३९ ॥
ततो महर्षयो दृष्ट्वा मृगेन्द्रवदनं गणम् ।
भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम् ॥ ४।४० ॥
तानार्ताश्चक्रभृद् दृष्ट्वा महर्षीस्त्रस्तमानसान् ।
न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः ॥ ४।४१ ॥
समानम्य ततः शार्ङ्ग शरानग्निशिखोपमान् ।
मुमोच वीरभद्राय कायावरणदारणान् ॥ ४।४२ ॥
ते तस्य कायमासाद्य अमोघा वै हरेः शराः ।
निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः ॥ ४।४३ ॥
शरास्त्वमोघान्मोघत्वमापन्नान्वीक्ष्य केशवः ।
दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः ॥ ४।४४ ॥
तानस्त्रान्वासुदेवेन प्रक्षिप्तान्गणनायकः ।
वारयामास शूलेन गदया मार्गणैस्तथा ॥ ४।४५ ॥
दृष्ट्वा विपन्नान्यस्त्राणि गदां चिक्षेप माधवः ।
त्रिशुलेन समाहत्य पातयामास भूतले ॥ ४।४६ ॥
मुशलं वीरभद्राय प्रचिक्षेप हलायुधः ।
लाङ्गलं च गणेशो ऽपि गदया प्रत्यवारयत् ॥ ४।४७ ॥
मुशलं सगदं दृष्ट्वा लाङ्गलं च निवारितम् ।
वीरभद्राय चिक्षेप चक्रं क्रोधात् खगध्वजः ॥ ४।४८ ॥
तमापतन्तं शतसूर्यकल्पं सुदर्शनं वीक्ष्य गणेश्वरस्तु ।
शूलं परित्यज्य जगार चक्रं यथा मधुं मीनवपुः सुरेन्द्रः ॥ ४।४९ ॥
चक्रे निगीर्णे गणनायकेन क्रोधातिरक्तो ऽसितचारुनेत्रः ।
मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद् भुवि निष्पिपपेष ॥ ४।५० ॥
हरिबाहूरुवेगेन विनिष्पिष्टस्य भूतले ।
सहितं रुधिरोद्गारैर्मुकाच्चक्रं विनिगतम् ॥ ४।५१ ॥
ततो निःसृतमालोक्य चक्रं कैटभनाशनः ।
समादाय हृषीकेशो वीरभद्रो मुमोच ह ॥ ४।५२ ॥
हृषीकेशेन मुक्तस्तु वीरभद्रो जटाधरम् ।
गत्वा निवेदयामास वासुदेवात्पराजयम् ॥ ४।५३ ॥
ततो जटाधरो दृष्ट्वा गणेशं शोणिताप्लुतम् ।
निश्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः ॥ ४।५४ ॥
ततः क्रोधाभिभूतेन वीरभद्रो ऽथ शम्भुना ।
पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः ॥ ४।५५ ॥
वीरभद्रमथादिश्य भद्रकालीं च शङ्करः ।
विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत् ॥ ४।५६ ॥
ततस्तु देवप्रवरे जटाधरे त्रिशूलपाणौ त्रिपुरान्तकारिणि ।
दक्षस्य यज्ञं विशति क्षयङ्करे जातो ऋषीणां प्रवरो हि साध्वसः ॥ ४।५७ ॥

इति श्रीवामनपुराणे चतुर्थो ऽध्यायः