०३

पुलस्त्य उवाच ।
ततः करतले रुद्रः कपाले दारुणे स्थिते ।
सन्तापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः ॥ ३।१ ॥
ततः समागता रौद्रा नीलाञ्चनचयप्रभा ।
सरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम् ॥ ३।२ ॥
तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम् ।
कासि त्वमागता रौद्रे केनाप्यर्थेन तद्वद ॥ ३।३ ॥
कपालिनमथोवाच ब्रह्महत्या सुदारुणा ।
ब्रह्मवध्यास्मि सम्प्राप्तां मां प्रोतीच्छ त्रिलोचन ॥ ३।४ ॥
इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह ।
त्रिशूलपाणिनं रुद्रं सम्प्रतापितविग्रहम् ॥ ३।५ ॥
ब्रह्णहत्याभिभूतश्च शर्वो बदरिकाश्रमम् ।
आगच्छन्न ददर्शाथ नरनारायणावृषी ॥ ३।६ ॥
अदृष्ट्वा धर्मतनयौ चिन्ताशोकसमन्वितः ।
जगाम यमुनां स्नातुं सापि शुष्कजलाभवत् ॥ ३।७ ॥
कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः ।
प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता ॥ ३।८ ॥
ततोनु पुष्करारण्यं मागधारण्यमेव च ।
सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया ॥ ३।९ ॥
तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः ।
स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत ॥ ३।१० ॥
सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः ।
समायुतो योगयुतो ऽपि पापान्नावाप मोक्षं जलदध्वजो ऽसौ ॥ ३।११ ॥
ततो जगाम निर्विण्णः शङ्करः कुरुजाङ्गलम् ।
तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वाजम् ॥ ३।१२ ॥
तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ।
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत् ॥ ३।१३ ॥
हर उवाच ।
नमस्ते देवतानाथ नमस्ते गरुडध्वज ।
शङ्खचक्रगदापाणे वासुदेव नमो ऽस्तु ते ॥ ३।१४ ॥
नमस्ते निर्गुणानन्त अप्रर्क्याय वेधसे ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमो ऽस्तु ते ॥ ३।१५ ॥
रजोयुक्त नमस्ते ऽस्तु ब्रह्ममूर्ते सनातन ।
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम् ॥ ३।१६ ॥
सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज ।
प्रजापाल महाबाहो जनार्दन नमो ऽस्तु ते ॥ ३।१७ ॥
तमोमूर्त्ते अहं ह्येष त्वदंशक्रोधसम्भवः ।
गुणाभियुक्त देवेश सर्वव्यापिन् नमो ऽस्तु ते ॥ ३।१८ ॥
भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः ।
वायुर्बुद्धिर्मनश् चापि शर्वरी त्वं नमो ऽस्तु ते ॥ ३।१९ ॥
धर्मो यज्ञस्तपः सत्यटमहिंसा शौचमार्जवम् ।
क्षमा दानं दया लक्षमीर्ब्रह्मचर्यं त्वमीश्वर ॥ ३।२० ॥
त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः ।
उपवेदा भवानीश सर्वो ऽसि त्वं नमो ऽस्तु ते ॥ ३।२१ ॥
नमो नमस्ते ऽच्युतत चक्रपाणे नमो ऽस्तु ते माधव मीनमूर्ते ।
लोके भवान् कारुणिको मतो मे त्रायस्व मां केश्व पापबन्धात् ॥ ३।२२ ॥
ममाशुभं नाशय विग्रहस्थं यद् ब्रह्महत्याभिभवं बभूव ।
दग्धो ऽस्मि नष्टो ऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थो ऽसि नमो नमस्ते ॥ ३।२३ ॥
पुलस्त्य उवाच ।
इत्थं स्तुतश्चक्रधरः शङ्करेण महात्मना ।
प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि ॥ ३।२४ ॥
हिरिरुवाच ।
महेश्वर शृणुष्वेमां मम वाचं कलस्वनाम् ।
ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम् ॥ ३।२५ ॥
यो ऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवो ऽव्ययः ।
प्रयागे वसते नित्यं योगशायीति विश्रुतः ॥ ३।२६ ॥
चरणाद् दक्षीणात्त्स्य विनिर्याता सरिद्वरा ।
विश्रुता वरणेत्वयेव सर्वपापहरा शुभा ॥ ३।२७ ॥
सव्यादन्या द्वितीया च असिरित्येव विश्रुता ।
ते उभे सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥ ३।२८ ॥
ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः ।
त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम् ।
न तादृशो ऽस्ति गगने न भूभ्यां न रसातले ॥ ३।२९ ॥
तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा ।
यस्यां हि भोगिनो ऽपीश प्रयान्ति भवतो लयम् ॥ ३।३० ॥
विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्रह्मणपुङ्गवानाम् ।
शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान् ॥ ३।३१ ॥
व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा ।
ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थालपद्मिनीयम् ॥ ३।३२ ॥
तुङ्गनि यस्यां सुरमन्दिराणि रुन्धन्ति चन्द्रं रजनीसुखेषु ।
दिवापि सूर्यं पवनाप्लुताभिर्दीर्घाभिरेवं सुपताकिकाभिः ॥ ३।३३ ॥
भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु ।
आलेश्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तरम् ॥ ३।३४ ॥
परिश्रमश्चापि पराजितेषु नरेषु सम्मोहनखेलनेन ।
यस्यां जसक्रीडनसङ्गतासु न स्त्रीषु सम्भो गृहदीर्घोकासु ॥ ३।३५ ॥
न चैव कश्चित् परमन्दिराणि रुणद्धि शम्भो सहसा ऋते ऽक्षन् ।
न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मक्त्वा ॥ ३।३६ ॥
पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ ।
यस्यां मानमदौ पुंसां करिणां यौवनागमे ॥ ३।३७ ॥
प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः ।
तारागणे ऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो ॥ ३।३८ ॥
भृतचिलुब्धा विलासिन्यो भुजङ्गपरिवारिताः ।
चन्द्रभूषितदेहाश्च यस्यां त्वमिव शङ्कर ॥ ३।३९ ॥
ईदृशायां सुरेशान वाराणस्यां महाश्रमे ।
वसते भवांल्लोलः सर्वपापहरो रविः ॥ ३।४० ॥
दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः ।
तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि ॥ ३।४१ ॥
इत्येवमुक्तो गरु।डध्वजेन वृषध्वजस्तं शिरसा प्रणम्य ।
जगाम वेगाद् गरुडो यथासौ वाराणसीं पापविमोचनाय ॥ ३।४२ ॥
गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशश्वमेधम् ।
स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम ॥ ३।४३ ॥
केशवं शङ्करो दृष्ट्वा प्रणिपत्येदमब्रवीत् ।
तवत्प्रसादाद् हृषीकेश ब्रह्महत्या क्षयं गता ॥ ३।४४ ॥
नेदं कपालं देवेश मद्धस्तं परिमुञ्चति ।
कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि ॥ ३।४५ ॥
पुलस्त्य उवाच। ।
महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत् ।
विद्यते कारणं रुद्र तत्सर्वं कथयामि ते ॥ ३।४६ ॥
यो ऽसौ ममाग्रतो दिव्यो ह्रदः पद्मोत्पलैर्युतः ।
एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः ॥ ३।४७ ॥
एतस्मिन्प्रवरे तीर्थे क्नानं शम्भो समाचर ।
स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति ॥ ३।४८ ॥
ततः कपाली लोके च ख्यातो रुद्र भविष्यसि ।
कपालमोचनेत्येवं तीर्थं चेदं भविष्यति ॥ ३।४९ ॥
पुलस्त्य उवाच ।
एवमुक्तः सुरेशेन केशवेन महेश्वरः ।
कपालमोचने सस्नौ वेदोस्तविधिना मुने ॥ ३।५० ॥
स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात् कपालम् ।
नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात् ॥ ३।५१ ॥
इति श्रीवामपुराणे तृतीयो ऽध्ययः