पुलस्त्य उवाच
ततस्त्रिनेत्रस्य गतः प्रावृट्कालो घनोपरि ।
लोकान्न्दकरी रम्या शरत् समभवन्मुने ॥ २।१ ॥
त्यजन्ति नीलाम्बुधरा नभस्तलं वृक्षांश्च कङ्काः सरितस्तटानि ।
पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयः ॥ २।२ ॥
विकासमायन्ति त पङ्काजानि चन्द्रांशवो भान्ति लताः सुपुष्पाः ।
नन्दन्ति हृष्टान्यपि गोकुलानि सन्तश्च सन्तोषमनुव्रजन्ति ॥ २।३ ॥
सरस्सु पद्म गगने च तारका जलाशयेष्वेव तथा पयांसि ।
सतां च चित्तं हि दिशां मुखैः समं वैमल्यमायान्ति शशङ्ककान्तयः ॥ २।४ ॥
ए तादृशे हरः काले मघपृष्ठाधिवासिनीम् ।
सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ ॥ २।५ ॥
ततो मन्दरपृष्ठे ऽसौ स्थितः समशिलातले ।
रराम शम्भुर्भगवान् सत्या सह महाद्युतिः ॥ २।६ ॥
ततो व्यतीते शरदि प्रतिबुद्धे च केशवे ।
दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम् ॥ २।७ ॥
द्वादशेव स चादित्याञ् शक्रादींश् च सुरोत्तमान् ।
सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत् ॥ २।८ ॥
अरुन्धत्य च सहितं वसिष्ठं शंसितव्रतम् ।
सहानसूययात्रिं च सह धृत्या च कौशिकम् ॥ २।९ ॥
अहल्यया गौतमं च भरद्वाजममायया ।
चन्द्रया सहितं ब्रह्मन्नृषिमङ्गीरसं तथा ॥ २।१० ॥
आमन्त्र्य कृतावान्दक्षः सदस्यान् यज्ञसंसदि ।
विद्वान् गुणसम्पन्नान् वेदवेदाड्गपारगान् ॥ २।११ ॥
धर्मं च स समाहूय भार्ययाहिंसया सह ।
निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत् ॥ २।१२ ॥
अरिष्टनेमिनं चक्रे इध्माहरणकारिणम् ।
भृगुं च मन्त्रसंस्कारे सम्यग् दक्षं प्रयुक्तवान् ॥ २।१३ ॥
तथा चन्द्रमसं देवं रोहिण्या सहितं शुचिम् ।
धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः ॥ २।१४ ॥
जामातृदुहितृश्वैव दौहित्रांश्च प्रजापतिः ।
सशङ्करां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत् ॥ २।१५ ॥
नारद उवाच
किमर्थं लोकपतिना धनाध्यक्षो महेश्वरः ।
ज्येष्ठः श्रेष्ठो वरिष्ठो ऽपि आद्यो ऽपि न निमन्त्रितः ॥ २।१६ ॥
पुलस्त्य उवाच
ज्येष्ठः श्रेष्ठो वरिष्ठो ऽपि आद्यो ऽपि भगवाञ्शिवः ।
कपालीलि विदित्वेशो दक्षेण न निमन्त्रितः ॥ २।१७ ॥
नारद उवाच
किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः कपाली भगवाञ्जातः कर्मणा केन शङ्करः ॥ २।१८ ॥
शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।
प्रोक्तमादिपुराणे च ब्रह्मणाव्यक्तमूर्त्तिना ॥ २।१९ ॥
पुरा त्वेकार्णवं सर्वं जगत्स्थावरजङ्गमम् ।
नष्टटन्द्रार्कनक्षत्रं प्रणष्टपवनानलम् ॥ २।२० ॥
अप्रतर्क्यमविज्ञेयं भावाभावविवर्जितम् ।
निमग्नुपर्वततरु तमोभूतं सुदुर्दसम् ॥ २।२१ ॥
तस्मिन् स शेते भगवान् निद्रां वर्षसहस्रिकीम् ।
रात्र्यन्ते सृजते लोकान् राजसं रूपास्थितः ॥ २।२२ ॥
राजसः पञ्चवदनो वेदवेदाङ्गपारगः ।
स्रष्टा चराचरस्यास्य जगतो ऽद्भुतदर्शनः ॥ २।२३ ॥
तमोमयस्तथैवान्यः समुद्भूतस्त्रिलोचनः ।
शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन् ॥ २।२४ ॥
ततो महात्मा ह्यसृजदहङ्कारं सुदारुणम् ।
येनाक्रान्ताव् उभौ देवौ तावेव ब्रह्मशङ्करौ ॥ २।२५ ॥
अहङ्कारावृतो रुद्रः प्रत्युवाच पितामहम् ।
को भवानिह सम्प्राप्तः केन सृष्टो ऽसि मां वद ॥ २।२६ ॥
पितामहो ऽप्यहङ्कारात् प्रत्युवाचाथ को भवान् ।
भवतो जनकः को ऽत्र जननी वा तदुच्यताम् ॥ २।२७ ॥
इत्यन्योन्यं पुरा ताभ्यां ब्रह्मेशाभ्यां कलिप्रिय ।
परिवादो ऽभवत् तत्र उत्पत्तिर्भवतो ऽभवत् ॥ २।२८ ॥
भवान्प्यन्तरिक्षं हि जातमात्रस्तदोत्पतत् ।
धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम् ॥ २।२९ ॥
ततो विनिर्जितः शम्भुर्मानिना पद्मयोनिना ।
तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी ॥ २।३० ॥
पराजिते लोकपतौ देवेन परमेष्षिना ।
क्रोधान्धकारितं रुद्रं पञ्चमो ऽथ मुखो ऽब्रोवीत् ॥ २।३१ ॥
अहं ते प्रतिजानामि तमोमूर्तो त्रिलोचन ।
दिग्वासा वृषभारूढो लोकक्षयकरो भवान् ॥ २।३२ ॥
इत्युक्ताः शङ्करः क्रुद्धो वदनं घोरचक्षुषा ।
निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः ॥ २।३३ ॥
ततस्त्रिनेत्रस्य समुद्भवन्ति वक्त्राणि पञ्चाथ सुदर्शनानि ।
श्वेतं च रक्तं कनकावदातं नीलं तथा पिङ्गजटं च शुभ्रम् ॥ २।३४ ॥
वक्त्राणि दृष्ट्वार्ऽकसमानि सद्यः पैतामहं वक्त्रमुवाच वाक्यम् ।
समाहतस्याथ जलस्य बुद्बुदा भवन्ति किं तेषु पराक्रमो ऽस्ति ॥ २।३५ ॥
तच्छ्रुत्वा क्रोधयुक्तेन शङ्करेण महात्मना ।
नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम् ॥ २।३६ ॥
तच्छिन्नं शङ्करस्यैव सव्ये करतले ऽपतत् ।
पतते न कदाचिच्च तच्छङ्करकराच्छिरः ॥ २।३७ ॥
अथ क्रोधावृतेनापि ब्रह्मणाद्भुवतकर्मणा ।
सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी ॥ २।३८ ॥
धनुष्पाणिर्महाबाहुर्बाणशक्तिधरो ऽव्ययः ।
चतुर्भुजो महातूणी आदित्यसमदर्शनः ॥ २।३९ ॥
स प्राह गच्छ दुर्बुद्धे मा त्वां शूलिन् निपातये ।
भवान् पापसमायुक्तः पापिष्ठं को जिघांसति ॥ २।४० ॥
इत्युक्ताः शेकरस्तेन पुरुषेण महात्मना ।
त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम् ॥ २।४१ ॥
नरनारायणस्थानं पर्वते हि हिमाश्रये ।
सरस्वती यत्र पुण्या स्तन्दने सरितां वरा ॥ २।४२ ॥
तत्र गत्वा च तं दृष्ट्वा नारायणमुवाच ह ।
भिक्षां प्रयच्छ भगवन् महाकापालिको ऽस्मि भोः ॥ २।४३ ॥
इत्युक्तो धर्मपुत्रस्तु रुद्रं वचनमब्रवीत् ।
सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर ॥ २।४४ ॥
नारायणवचः श्रुत्वा त्रिशूलेन त्रिलोचनः ।
सव्यं नारायणभुजं ताडयामास वेगवान् ॥ २।४५ ॥
त्रिशूलाभिहतान्मार्गात् तिस्रो धारा विनिर्ययुः ।
एका गगनमाक्रम्य स्थिता ताराभिमण्डिता ॥ २।४६ ॥
द्वितीया न्यपतद् भूमौ तां जग्राह तपोधनः ।
अत्रिस्तस्मात् समुद्भूतो दुर्वासाः शङ्करांशतः ॥ २।४७ ॥
तृतीया न्यपतद् धारा कपाले रौद्रदर्शने ।
तस्माच्छिशुः समभवत् सन्नद्धकवचो युवा ॥ २।४८ ॥
श्यामावदातः शरचापपाणिर् गर्जन्यथा प्रावृषि तोयदो ऽसौ ।
इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस् तालफलं यथैव ॥ २।४९ ॥
तं शकरो ऽभ्येत्य वचो वभाषे नरं हि नारायणबाहुजातम् ।
निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम् ॥ २।५० ॥
इत्येवमुक्तः स तु शङ्करेण आद्यं धनुस्त्वाजगवं प्रसिद्धम् ।
जग्राह तूणानि तथाक्षयाणि युद्धाय वीरः स मतिं चकार ॥ २।५१ ॥
ततः प्रयुद्धौ सुभृशं महाबलौ१ ब्रह्मात्मजो बाहुभवश्च शार्वः ।
दिव्यं सहस्रं परिवत्सराणां ततो हरो ऽभ्येत्य विरञ्चिमूचे ॥ २।५२ ॥
जितस्त्वदीयः पुरुषः पितामह नरेण दिव्यद्भुतकर्मणा बली ।
महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव ॥ २।५३ ॥
ब्रह्म तमीशं वचनं बभाषे नेहास्य जन्मान्यजितस्य शम्भो ।
पराजितश्चेष्यते ऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा ॥ २।५४ ॥
इत्येवमुक्तो वचनं त्रिनेत्रश्चिक्षेप सूर्ये पुरुषं विरिञ्चेः ।
नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः ॥ २।५५ ॥
इति श्रीवामनपुराणे द्वितीयः