अथ श्रीवामनपुराणम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।
त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ ।
श्रीधराय नमस्तस्मै छद्मवामनरूपिणे ॥ १।१ ॥
पुलस्त्यमुषिमासीनमाश्रमे वाग्विदां वरम् ।
नारदः परिपप्रच्छ पुराणं वामनाश्रयम् ॥ १।२ ॥
कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना ।
वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः ॥ १।३ ॥
कथं च वैष्णवनो भूत्वा प्रह्लादो दैत्यसत्तमः ।
त्रिदशैर्युयुधे सार्थमत्र मै संशयो महान् ॥ १।४ ॥
श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती ।
शङ्करस्य प्रिया भार्या बभुव वरवर्णिनी ॥ १।५ ॥
किमर्थं सा परित्यज्य स्वरीरं वरानना ।
जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः ॥ १।६ ॥
पुनश्च देवदेववस्य पत्नीत्वमगमच्छुभा ।
एतन्मे संशयं छिन्धि सर्ववित् त्वं मतो ऽसि मे ॥ १।७ ॥
तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम ।
व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज ॥ १।८ ॥
एवभुक्तो नारदेन पुलस्त्यो सुनिसत्तमः ।
प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम ॥ १।९ ॥
पुलस्त्य उवाच ।
पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः ।
अवधानं स्थिरं कृत्वा शृणुष्व मुनिसत्त्म ॥ १।१० ॥
पुरा हैमवती देवी मन्दरस्थं महेश्वरम् ।
उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम् ॥ १।११ ॥
ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम् ।
यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः ॥ १।१२ ॥
एवमुक्तो भवान्या तु शङ्करो वाक्यमब्रवीत् ।
निराश्रयो ऽहं सुदती सदारण्यचरः शुभे ॥ १।१३ ॥
इत्युक्ता शङ्करेणाथ वृक्षच्छायासु नारद ।
निदाघकालमनयत् समं शर्वेण सा सती ॥ १।१४ ॥
निदाघान्ते समुद्रभूतो निर्जनाचरितो ऽद्भुतः ।
घनान्धकारिताशो वै प्रावृट्कालोषतिरागवान् ॥ १।१५ ॥
तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम् ।
प्रोवाच वाक्यं देवेशं सती सप्रणयं तदा ॥ १।१६ ॥
विवान्ति वाता हृदयावदारणा गर्जन्त्यमी लोयधरा महेश्वर ।
स्फुरन्ति नीलाभ्रगणेषु विद्युतो वाशन्ति केकारवमेव बर्हिणः ॥ १।१७ ॥
पतन्ति धारा गगनात् परिच्युता बका बलाकाश्च सरन्ति तोयदान् ।
कदम्बसर्ज्जार्जुनकेतकीद्रुमाः पुष्पाणि मुञ्चन्ति सुमारुताहताः ॥ १।१८ ॥
श्रुत्वैव मघस्य दृढं तु गर्जितं त्यजन्ति हंसाश्च सरांसि तत्क्षणात् ।
यथाश्रयान् योगिगणः समन्तात् प्रवृद्धमूलानपि सन्त्यजन्ति ॥ १।१९ ॥
इमानि यूथानि वने मृगाणां चरन्ति धावन्ति रमन्ति शम्भो ।
तथाचिराभाः सुतरां स्फुरन्ति पश्येह नीलेषु घनेषु देव ।
नूनं समृद्धिं सलिलस्य दृष्ट्वा चरन्ति शूरास्तरुणद्रुमेषु ॥ १।२० ॥
उद्वत्त्वेगाः सहसैव निम्नगा जाताः शशङ्काङ्कितचारुमैले ।
किमत्र चित्रं यदनुज्ज्वलं जनं निषेव्य योषिद् भवति त्वशीला ॥ १।२१ ॥
नीलैश्च मेघैश्च समावृतं नभः पुष्षैश्च सर्ज्जा मुकुलैश्च नीपाः ।
फलैश्च बिल्वाः पयसा तथापगाः पत्रैः सपद्मैश्च महासरांसि ॥ १।२२ ॥
काले सुरौद्रे ननु ते ब्रवीमि ।
गृहं कुरुष्वात्र महाचजलोत्तमे सुनिर्वृता येन भवामि शम्भो ॥ १।२३ ॥
इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे ।
न मे ऽस्ति वित्तं गृहसञ्चयार्थे मृगारिचर्मावरणं मम प्रिये ॥ १।२४ ॥
ममोपवीतं भुजगेश्वरः शुभे कर्णे ऽपि पद्मश्च तथैव पिङ्गलः ।
केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनञ्जयः ॥ १।२५ ॥
सव्येतरे तक्षक उत्तरे तथा ।
नीलो ऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः ॥ १।२६ ॥
पुलस्त्य उवाच ।
इति वचनमथोग्रं शङ्करात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता ।
अवनितसमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्म् ॥ १।२७ ॥
देव्युवाच ।
कथं हि देवदेवेश प्रावट्कालो गमिष्यति ।
वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः ॥ १।२८ ॥
शङ्कर उवाच ।
घनावस्थितदेहायाः प्रावृट्घनखण्डमुन्नतमारुह्य तस्थौ सह दक्षकन्यया ।
ततो ऽभवन्नाम तेदश्वरस्य जीमूतकेतुस्त्विति विश्रुतं दिवि ॥ १।३० ॥
इति श्रीवामनपुराणे प्रथमो ऽध्यायः