४१ व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनम्

सूत उवाच
तत्र स्कन्दसरो नाम सरस्सागरसन्निभम् ॥ ॥२,४१।१अब्।
अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम् ॥ ॥२,४१।१च्द्।
समन्ततः सङ्घटितं स्फटिको पलसञ्चयैः ॥ ॥२,४१।२अब्।
सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ ॥२,४१।२च्द्।
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ॥ ॥२,४१।३अब्।
तरङ्गैरभ्रसङ्काशैराकाशमिव भूमिगम् ॥ ॥२,४१।३च्द्।
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ॥ ॥२,४१।४अब्।
सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम् ॥ ॥२,४१।४च्द्।
६००अ

तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ॥ ॥२,४१।५अब्।
स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ॥२,४१।५च्द्।
जटाशिखायनैर्मुण्डैस्त्रिपुण्ड्रकृतमण्डनैः ॥ ॥२,४१।६अब्।
विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ॥२,४१।६च्द्।
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ॥ ॥२,४१।७अब्।
कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ॥२,४१।७च्द्।
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ॥ ॥२,४१।८अब्।
आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ॥२,४१।८च्द्।
अन्तर्जलशिलारूढैर्नीचानां स्पर्शशङ्कया ॥ ॥२,४१।९अब्।
आचारवद्भिर्मुनिभिः कृतभस्माङ्गधूसरैः ॥ ॥२,४१।९च्द्।
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ॥ ॥२,४१।१०अब्।
तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ ॥२,४१।१०च्द्।
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ॥ ॥२,४१।११अब्।
निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ॥२,४१।११च्द्।
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ॥ ॥२,४१।१२अब्।
सौरार्घ्यपूर्वं कुर्वद्भिःस्थण्डलेभ्यर्चनादिकम् ॥ ॥२,४१।१२च्द्।
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ॥ ॥२,४१।१३अब्।
क्वचिच्च तृषयायातमृगीमृगतुरङ्गमम् ॥ ॥२,४१।१३च्द्।
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ॥ ॥२,४१।१४अब्।
क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ ॥२,४१।१४च्द्।
क्वचित्कारण्डवरवैः क्वचित्सारसकूजितैः ॥ ॥२,४१।१५अब्।
क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ ॥२,४१।१५च्द्।
स्नानपानादिकरणैः स्वसम्पद्द्रुमजीविभिः ॥ ॥२,४१।१६अब्।
प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ ॥२,४१।१६च्द्।
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ॥ ॥२,४१।१७अब्।
आतपोपहतान्सर्वान्नामन्त्रयदिवानिशम् ॥ ॥२,४१।१७च्द्।
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ॥ ॥२,४१।१८अब्।
वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ ॥२,४१।१८च्द्।
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ॥ ॥२,४१।१९अब्।
तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ ॥२,४१।१९च्द्।
उपास्यमानं मुनिभिर्योगीन्द्रैरपि पूजितम् ॥ ॥२,४१।२०अब्।
ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ ॥२,४१।२०च्द्।
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ॥ ॥२,४१।२१अब्।
तुमुलः शुश्रुवे तावद्दिवि दुन्दुभिनिस्वनः ॥ ॥२,४१।२१च्द्।
ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ॥ ॥२,४१।२२अब्।
गणेश्वरैरसङ्ख्येयैः संवृतं च समन्ततः ॥ ॥२,४१।२२च्द्।
अप्सरोगणसङ्कीर्णं रुद्रकन्याभिरावृतम् ॥ ॥२,४१।२३अब्।
मृदङ्गमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ ॥२,४१।२३च्द्।
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ॥ ॥२,४१।२४अब्।
मुनिभिस्सिद्धगन्धर्वैर्यक्षचारणकिन्नरैः ॥ ॥२,४१।२४च्द्।
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ॥ ॥२,४१।२५अब्।
वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ ॥२,४१।२५च्द्।
कृतगोपुरसत्कारं केतुना मान्यहेतुना ॥ ॥२,४१।२६अब्।
तस्य मध्ये विमानस्य चामरद्वितयान्तरे ॥ ॥२,४१।२६च्द्।
छत्त्रस्य मणिदण्डस्य चन्द्रस्येव शुचेरधः ॥ ॥२,४१।२७अब्।
दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ ॥२,४१।२७च्द्।
६००ब्

श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ॥ ॥२,४१।२८अब्।
प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ ॥२,४१।२८च्द्।
अविलङ्घ्य जगत्कर्तुराज्ञापनमिवागतम् ॥ ॥२,४१।२९अब्।
सर्वानुग्रहणं शम्भोः साक्षादिव पुरःस्थितम् ॥ ॥२,४१।२९च्द्।
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ॥ ॥२,४१।३०अब्।
विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ ॥२,४१।३०च्द्।
विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् ॥ ॥२,४१।३१अब्।
चतुर्बाहुमुदाराङ्गं चन्द्ररेखाविभूषितम् ॥ ॥२,४१।३१च्द्।
कण्ठे नागेन मौलौ च शशाङ्केनाप्यलङ्कृतम् ॥ ॥२,४१।३२अब्।
सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ ॥२,४१।३२च्द्।
समाप्तमिव निर्वाणं सर्वज्ञमिव सङ्गतम् ॥ ॥२,४१।३३अब्।
दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ ॥२,४१।३३च्द्।
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ॥ ॥२,४१।३४अब्।
अथ तत्रान्तरे तस्मिन्विमाने चावनिं गते ॥ ॥२,४१।३४च्द्।
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ॥ ॥२,४१।३५अब्।
षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ॥ ॥२,४१।३५च्द्।
आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकाङ्क्षया ॥ ॥२,४१।३५एफ़्।
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नन्दीछित्त्वा पाशान्दृष्टिपातेन सद्यः ॥ ॥२,४१।३६अब्।
शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥ ॥२,४१।३६च्द्।
सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ॥ ॥२,४१।३७अब्।
व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥ ॥२,४१।३७च्द्।
नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ॥ ॥२,४१।३८अब्।
नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥ ॥२,४१।३८च्द्।
मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ॥ ॥२,४१।३९अब्।
तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमन्ते नियतं ददाति ॥ ॥२,४१।३९च्द्।
परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् ॥ ॥२,४१।४०अब्।
अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥ ॥२,४१।४०च्द्।
सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ॥ ॥२,४१।४१अब्।
काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥ ॥२,४१।४१च्द्।
अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ॥ ॥२,४१।४२अब्।
अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिन्दिताः ॥ ॥२,४१।४२च्द्।
व्यास उवाच
एतच्छिवपुराणं हि समाप्तं हितमादरात् ॥ ॥२,४१।४३अब्।
पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ ॥२,४१।४३च्द्।
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ॥ ॥२,४१।४४अब्।
अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ॥२,४१।४४च्द्।
एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ॥ ॥२,४१।४५अब्।
अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ ॥२,४१।४५च्द्।
पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ॥ ॥२,४१।४६अब्।
तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ ॥२,४१।४६च्द्।
६०१अ

पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ॥ ॥२,४१।४७अब्।
परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ ॥२,४१।४७च्द्।
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥ ॥२,४१।४८अब्।
सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ ॥२,४१।४८च्द्।
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ॥ ॥२,४१।४९अब्।
इह भुक्त्वाखिलान्भोगानन्ते मुक्तिं लभेच्च सः ॥ ॥२,४१।४९च्द्।
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ॥ ॥२,४१।५०अब्।
भुक्तिमुक्तिप्रदं ब्रह्मसम्मितं भक्तिवर्धनम् ॥ ॥२,४१।५०च्द्।
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ॥ ॥२,४१।५१अब्।
सगणस्ससुतस्साम्बश्शं करोतु स शङ्करः ॥ ॥२,४१।५१च्द्।

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशो ऽध्यायः
समाप्तो ऽयं ग्रन्थः
६०१ब्