श्रीसूत उवाच
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ ॥२,४०।१अब्।
प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ ॥२,४०।१च्द्।
ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ ॥२,४०।२अब्।
सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ ॥२,४०।२च्द्।
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ ॥२,४०।३अब्।
प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ ॥२,४०।३च्द्।
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ ॥२,४०।४अब्।
समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ॥२,४०।४च्द्।
अथ सन्तर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ ॥२,४०।५अब्।
स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ॥२,४०।५च्द्।
तदा ते हिमवत्पादात्पन्ततीं दक्षिणामुखीम् ॥ ॥२,४०।६अब्।
दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ ॥२,४०।६च्द्।
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ ॥२,४०।७अब्।
तदोत्तरप्रवाहायां गङ्गायामवगाह्य च ॥ ॥२,४०।७च्द्।
अविमुक्तेश्वरं लिङ्गं दृष्ट्वाभ्यर्च्य विधानतः ॥ ॥२,४०।८अब्।
प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ॥२,४०।८च्द्।
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ ॥२,४०।९अब्।
आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ॥२,४०।९च्द्।
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ ॥२,४०।१०अब्।
मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ ॥२,४०।१०च्द्।
५९९अ
तथा विलीयमानेषु तपस्विषु महात्मसु ॥ ॥२,४०।११अब्।
सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ॥२,४०।११च्द्।
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ ॥२,४०।१२अब्।
किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ ॥२,४०।१२च्द्।
प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ ॥२,४०।१३अब्।
दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ ॥२,४०।१३च्द्।
शद्धां बुद्धिं ततस्तेषां साम्बे सानुचरे शिवे ॥ ॥२,४०।१४अब्।
समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ॥२,४०।१४च्द्।
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ ॥२,४०।१५अब्।
स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ ॥२,४०।१५च्द्।
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ ॥२,४०।१६अब्।
परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ ॥२,४०।१६च्द्।
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ ॥२,४०।१७अब्।
गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ ॥२,४०।१७च्द्।
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ ॥२,४०।१८अब्।
मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ ॥२,४०।१८च्द्।
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ ॥२,४०।१९अब्।
साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ ॥२,४०।१९च्द्।
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ ॥२,४०।२०अब्।
सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ ॥२,४०।२०च्द्।
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ ॥२,४०।२१अब्।
भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ ॥२,४०।२१च्द्।
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ ॥२,४०।२२अब्।
प्रणम्यावसरं शम्भोः पप्रच्छुः परमादरात् ॥ ॥२,४०।२२च्द्।
स चावसर एवायमितोन्तर्गम्यतामिति ॥ ॥२,४०।२३अब्।
वदन्ययावन्यपरस्त्वरया परया युतः ॥ ॥२,४०।२३च्द्।
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ ॥२,४०।२४अब्।
तेन ते विविशुर्वेश्म पिण्डीभूयाण्डजन्मनः ॥ ॥२,४०।२४च्द्।
प्रविश्य दूरतो देवं प्रणम्य भुवि दण्डवत् ॥ ॥२,४०।२५अब्।
समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ ॥२,४०।२५च्द्।
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ ॥२,४०।२६अब्।
वृत्तान्तं वो मया ज्ञातं वायुरेवाह नो यतः ॥ ॥२,४०।२६च्द्।
भवद्भिः किं कृतं पश्चान्मारुतेन्तर्हिते सति ॥ ॥२,४०।२७अब्।
इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ ॥२,४०।२७च्द्।
गङ्गातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ ॥२,४०।२८अब्।
दर्शनं तत्र लिङ्गानां स्थापितानां सुरेश्वरैः ॥ ॥२,४०।२८च्द्।
अविमुक्तेश्वरस्यापि लिङ्गस्याभ्यर्चनं सकृत् ॥ ॥२,४०।२९अब्।
आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ ॥२,४०।२९च्द्।
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ ॥२,४०।३०अब्।
याथात्म्यवेदनं तस्य चिन्तितस्यापि चात्मभिः ॥ ॥२,४०।३०च्द्।
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ ॥२,४०।३१अब्।
मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ॥२,४०।३१च्द्।
कम्पयित्वा शिरः किञ्चित्प्राह गम्भीरया गिरा ॥ ॥२,४०।३२अब्।
प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ॥२,४०।३२च्द्।
५९९ब्
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ ॥२,४०।३३अब्।
प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ ॥२,४०।३३च्द्।
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ ॥२,४०।३४अब्।
तल्लिङ्गसञ्ज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ॥२,४०।३४च्द्।
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ ॥२,४०।३५अब्।
मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ॥२,४०।३५च्द्।
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ ॥२,४०।३६अब्।
स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ॥२,४०।३६च्द्।
तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ ॥२,४०।३७अब्।
प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ॥२,४०।३७च्द्।
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ ॥२,४०।३८अब्।
प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नन्दिनः ॥ ॥२,४०।३८च्द्।
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ ॥२,४०।३९अब्।
अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ॥२,४०।३९च्द्।
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ॥२,४०।४०अब्।
ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नन्दिना कृतः ॥ ॥२,४०।४०च्द्।
अथ कालेन महता तदर्थे शोचता मया ॥ ॥२,४०।४१अब्।
उपास्य देवं देवीञ्च नन्दिनं चानुनीय वै ॥ ॥२,४०।४१च्द्।
कथञ्चिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ ॥२,४०।४२अब्।
प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ॥२,४०।४२च्द्।
तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ ॥२,४०।४३अब्।
अवज्ञाय हि मामेव तथाहङ्कृतवान्मुनिः ॥ ॥२,४०।४३च्द्।
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ ॥२,४०।४४अब्।
ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ ॥२,४०।४४च्द्।
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ ॥२,४०।४५अब्।
धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति ॥ ॥२,४०।४५च्द्।
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ ॥२,४०।४६अब्।
यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ ॥२,४०।४६च्द्।
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ ॥२,४०।४७अब्।
प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ॥२,४०।४७च्द्।
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ ॥२,४०।४८अब्।
तत्प्रसादार्थमचिरान्नन्दी तत्रागमिष्यति ॥ ॥२,४०।४८च्द्।
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ ॥२,४०।४९अब्।
कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ॥२,४०।४९च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशो ऽध्यायः