उपमन्युरुवाच
श्रीकण्ठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ ॥२,३९।१अब्।
प्रसिध्यन्तीति मत्वैके तं वै ध्यायन्ति योगिनः ॥ ॥२,३९।१च्द्।
स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ ॥२,३९।२अब्।
स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ ॥२,३९।२च्द्।
शिवे तु चिन्तिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ ॥२,३९।३अब्।
मूर्त्यन्तरेषु ध्यातेषु शिवरूपं विचिन्तयेत् ॥ ॥२,३९।३च्द्।
लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ ॥२,३९।४अब्।
ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ ॥२,३९।४च्द्।
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ ॥२,३९।५अब्।
बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ ॥२,३९।५च्द्।
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ ॥२,३९।६अब्।
तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ॥२,३९।६च्द्।
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ ॥२,३९।७अब्।
यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ॥२,३९।७च्द्।
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ ॥२,३९।८अब्।
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ॥२,३९।८च्द्।
निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ ॥२,३९।९अब्।
तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ॥२,३९।९च्द्।
अन्ते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ ॥२,३९।१०अब्।
प्राणायामेन सिध्यन्ति देव्याः शान्त्यादयः क्रमात् ॥ ॥२,३९।१०च्द्।
शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ ॥२,३९।११अब्।
शमः सर्वापदां चैव शान्तिरित्यभिधीयते ॥ ॥२,३९।११च्द्।
५९७ब्
तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ ॥२,३९।१२अब्।
बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ ॥२,३९।१२च्द्।
स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ॥२,३९।१३अब्।
कारणानि च सर्वाणि सबाह्याभ्यन्तराणि च ॥ ॥२,३९।१३च्द्।
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ॥२,३९।१४अब्।
ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ ॥२,३९।१४च्द्।
एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ ॥२,३९।१४एफ़्।
ज्ञानवैराग्यसम्पन्नो नित्यमव्यग्रमानसः ॥ ॥२,३९।१५अब्।
श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ ॥२,३९।१५च्द्।
ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ॥ ॥२,३९।१६अब्।
योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ ॥२,३९।१७अब्।
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ ॥२,३९।१७च्द्।
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ ॥२,३९।१८अब्।
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलम्बनम् ॥ ॥२,३९।१९अब्।
ध्येयमित्युच्यते सद्भिस्तच्च साम्बः स्वयं शिवः ॥ ॥२,३९।१९च्द्।
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ ॥२,३९।२०अब्।
शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ ॥२,३९।२०च्द्।
यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ ॥२,३९।२१अब्।
तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ ॥२,३९।२१च्द्।
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ ॥२,३९।२२अब्।
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ॥२,३९।२२च्द्।
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥ ॥२,३९।२३अब्।
योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ ॥२,३९।२३च्द्।
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ ॥२,३९।२४अब्।
पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ ॥२,३९।२४च्द्।
यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ ॥२,३९।२५अब्।
तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ ॥२,३९।२५च्द्।
अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ ॥२,३९।२६अब्।
योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ ॥२,३९।२६च्द्।
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ ॥२,३९।२७अब्।
यद्भवेत्सुमहच्छ्रेयस्तस्यान्तो नैव विद्यते ॥ ॥२,३९।२७च्द्।
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ ॥२,३९।२८अब्।
नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ ॥२,३९।२८च्द्।
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ ॥२,३९।२९अब्।
योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारणात् ॥ ॥२,३९।२९च्द्।
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ॥२,३९।३०अब्।
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ॥२,३९।३०च्द्।
यथेहान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ ॥२,३९।३१अब्।
तथान्तर्ध्याननिरताः प्रियाश्शम्भोर्न कर्मिणः ॥ ॥२,३९।३१च्द्।
बहिस्करा यथा लोके नातीव फलभोगिनः ॥ ॥२,३९।३२अब्।
५९८अ
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ॥२,३९।३२च्द्।
यद्यन्तरा विपद्यन्ते ज्ञानयोगार्थमुद्यतः ॥ ॥२,३९।३३अब्।
योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ॥२,३९।३३च्द्।
अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ॥२,३९।३४अब्।
ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ॥२,३९।३४च्द्।
जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ ॥२,३९।३५अब्।
न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ॥२,३९।३५च्द्।
द्विजानां वेदविदुषां कोटिं सम्पूज्य यत्फलम् ॥ ॥२,३९।३६अब्।
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ॥२,३९।३६च्द्।
यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ ॥२,३९।३७अब्।
योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ॥२,३९।३७च्द्।
ये चापवादं कुर्वन्ति विमूढाश्शिवयोगिनाम् ॥ ॥२,३९।३८अब्।
श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ॥२,३९।३८च्द्।
सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ ॥२,३९।३९अब्।
तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ॥२,३९।३९च्द्।
ये पुनः सततं भक्त्या भजन्ति शवयोगिनः ॥ ॥२,३९।३९एफ़्।
ते विदन्ति महाभोगानन्ते योगं च शाङ्करम् ॥ ॥२,३९।४०अब्।
भोगार्थिभिर्नरैस्तस्मात्सम्पूज्याः शिवयोगिनः ॥ ॥२,३९।४०च्द्।
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ ॥२,३९।४१अब्।
योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ॥२,३९।४१च्द्।
वज्रतन्दुलवज्ज्ञेयं तथा पापेन योगिनः ॥ ॥२,३९।४२अब्।
न लिप्यन्ते च तापौघैः पद्मपत्रं यथाम्भसा ॥ ॥२,३९।४२च्द्।
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ ॥२,३९।४३अब्।
सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ ॥२,३९।४३च्द्।
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ ॥२,३९।४४अब्।
सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ॥२,३९।४४च्द्।
सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ ॥२,३९।४५अब्।
भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ॥२,३९।४५च्द्।
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ ॥२,३९।४६अब्।
त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ॥२,३९।४६च्द्।
यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ ॥२,३९।४७अब्।
स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ॥२,३९।४७च्द्।
स तत्र निवसन्नेव यदि धीरमना नरः ॥ ॥२,३९।४८अब्।
प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ॥२,३९।४८च्द्।
कृत्वाप्यनशनं चैव हुत्वा चाङ्गं शिवानले ॥ ॥२,३९।४९अब्।
क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ॥२,३९।४९च्द्।
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ ॥२,३९।५०अब्।
सद्य एव विमुच्येत नात्र कार्या विचारणा २ ॥ ॥२,३९।५०च्द्।
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ ॥२,३९।५१अब्।
म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ ॥२,३९।५१च्द्।
१ उद्योगं कुर्वत इत्यर्थः
२ न चासावात्मघातक इति पाठान्तरम्
५९८ब्
यथा हि मरणं श्रेष्ठमुशन्त्यनशनादिभिः ॥ ॥२,३९।५२अब्।
शास्त्रविश्रम्भधीरेण मनसा क्रियते यतः ॥ ॥२,३९।५२च्द्।
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ ॥२,३९।५३अब्।
यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ॥२,३९।५३च्द्।
शिवनिन्दारतं हन्तुमशक्तो यः स्वयं मृतः ॥ ॥२,३९।५४अब्।
सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ ॥२,३९।५४च्द्।
शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ ॥२,३९।५५अब्।
न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ॥२,३९।५५च्द्।
तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमण्डलात् ॥ ॥२,३९।५६अब्।
एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ॥२,३९।५६च्द्।
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ ॥२,३९।५७अब्।
पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ॥२,३९।५७च्द्।
नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ ॥२,३९।५८अब्।
शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ ॥२,३९।५८च्द्।
खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ ॥२,३९।५८एफ़्।
क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ ॥२,३९।५९अब्।
अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ ॥२,३९।५९च्द्।
कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ ॥२,३९।६०अब्।
धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ ॥२,३९।६०च्द्।
नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ॥२,३९। ६०एफ़्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशो ऽध्यायः