उपमन्युरुवाच
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ ॥२,३८।१अब्।
अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥ ॥२,३८।१च्द्।
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ ॥२,३८।२अब्।
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ ॥२,३८।२च्द्।
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ ॥२,३८।३अब्।
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ॥२,३८।३च्द्।
प्रमादो नाम योगस्य साधना नाम भावना ॥ ॥२,३८।४अब्।
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ॥२,३८।४च्द्।
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ ॥२,३८।५अब्।
५९५ब्
अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ॥२,३८।५च्द्।
विपर्यस्ता मतिर्या सा भ्रान्तिरित्यभिधीयते ॥ ॥२,३८।६अब्।
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ॥२,३८।६च्द्।
आधिभौतिकमङ्गोत्थं यच्च दुःखं पुरा कृतैः ॥ ॥२,३८।७अब्।
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ॥२,३८।७च्द्।
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ ॥२,३८।८अब्।
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ॥२,३८।८च्द्।
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ ॥२,३८।९अब्।
उपसर्गाः प्रवर्तन्ते दिव्यास्ते सिद्धिसूचकाः ॥ ॥२,३८।९च्द्।
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ ॥२,३८।१०अब्।
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ ॥२,३८।१०च्द्।
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ ॥२,३८।११अब्।
प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ॥२,३८।११च्द्।
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ ॥२,३८।१२अब्।
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ ॥२,३८।१२च्द्।
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ ॥२,३८।१३अब्।
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ ॥२,३८।१३च्द्।
स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ ॥२,३८।१४अब्।
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ ॥२,३८।१४च्द्।
सन्तिष्ठन्ते च रत्नानि प्रयच्छन्ति बहूनि च ॥ ॥२,३८।१५अब्।
स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ ॥२,३८।१५च्द्।
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ ॥२,३८।१६अब्।
सिध्यन्ति प्रणिपत्यैनं दिशन्ति सुरयोषितः ॥ ॥२,३८।१६च्द्।
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ ॥२,३८।१७अब्।
दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ ॥२,३८।१७च्द्।
कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ ॥२,३८।१८अब्।
नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ ॥२,३८।१८च्द्।
पार्थिवांशं विना नित्यं सुरभिर्गन्धसङ्ग्रहः ॥ ॥२,३८।१९अब्।
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ ॥२,३८।१९च्द्।
जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ ॥२,३८।२०अब्।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ॥२,३८।२०च्द्।
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ ॥२,३८।२१अब्।
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ ॥२,३८।२१च्द्।
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ ॥२,३८।२२अब्।
रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ ॥२,३८।२२च्द्।
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ ॥२,३८।२३अब्।
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ ॥२,३८।२३च्द्।
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ ॥२,३८।२४अब्।
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ ॥२,३८।२४च्द्।
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ ॥२,३८।२५अब्।
दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ ॥२,३८।२५च्द्।
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ ॥२,३८।२५एफ़्।
एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ ॥२,३८।२६अब्।
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ ॥२,३८।२६च्द्।
५९६अ
पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ ॥२,३८।२७अब्।
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ ॥२,३८।२७च्द्।
अङ्गुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ ॥२,३८।२८अब्।
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ ॥२,३८।२८च्द्।
द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ ॥२,३८।२९अब्।
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ ॥२,३८।२९च्द्।
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ॥२,३८।३०अब्।
आकाशलङ्घनं चैव स्वदेहे तन्निवेशनम् ॥ ॥२,३८।३०च्द्।
आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ॥२,३८।३१अब्।
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ॥२,३८।३१च्द्।
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ॥२,३८।३२अब्।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ॥२,३८।३२च्द्।
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ॥२,३८।३३अब्।
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ॥२,३८।३३च्द्।
संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ॥२,३८।३४अब्।
एतच्चान्द्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ ॥२,३८।३४च्द्।
छेदनं ताडनं चैव बन्धनं मोचनं तथा ॥ ॥२,३८।३५अब्।
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ ॥२,३८।३५च्द्।
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ॥२,३८।३६अब्।
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ॥२,३८।३६च्द्।
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ॥२,३८।३७अब्।
सर्गः सङ्कल्पमात्रेण त्राणं संहरणं तथा ॥ ॥२,३८।३७च्द्।
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ॥२,३८।३८अब्।
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ॥२,३८।३८च्द्।
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ॥२,३८।३९अब्।
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ॥२,३८।३९च्द्।
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ॥२,३८।४०अब्।
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ॥२,३८।४०च्द्।
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ॥२,३८।४०एफ़्।
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ ॥२,३८।४१अब्।
विष्णुना तत्पदं किञ्चिज्ज्ञातुमन्यैर्न शक्यते ॥ ॥२,३८।४१च्द्।
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ ॥२,३८।४२अब्।
निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु ॥ ॥२,३८।४२च्द्।
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ ॥२,३८।४३अब्।
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ॥२,३८।४३च्द्।
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ ॥२,३८।४४अब्।
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ॥२,३८।४४च्द्।
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ ॥२,३८।४५अब्।
यथाकामङ्गुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ॥२,३८।४५च्द्।
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ ॥२,३८।४६अब्।
शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ ॥२,३८।४६च्द्।
विजने जन्तुरहिते निःशब्दे बाधवर्जिते ॥ ॥२,३८।४६एफ़्।
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ ॥२,३८।४७अब्।
मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ ॥२,३८।४७च्द्।
कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ ॥२,३८।४८अब्।
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ ॥२,३८।४८च्द्।
५९६ब्
न दंशमशकाकीर्णे सर्पश्वापदसङ्कुले ॥ ॥२,३८।४९अब्।
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ॥२,३८।४९च्द्।
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ ॥२,३८।५०अब्।
नदीनदसमुद्राणां तीरे रथ्यान्तरे ऽपि वा ॥ ॥२,३८।५०च्द्।
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निन्दिते ॥ ॥२,३८।५१अब्।
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ॥२,३८।५१च्द्।
नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ ॥२,३८।५२अब्।
न चातिचिन्ताकुलितो न चातिक्षुत्पिपासितः ॥ ॥२,३८।५२च्द्।
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ ॥२,३८।५३अब्।
युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ॥२,३८।५३च्द्।
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ ॥२,३८।५४अब्।
आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ॥२,३८।५४च्द्।
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ ॥२,३८।५५अब्।
अभिवन्द्य स्वगुर्वन्तानभिवाद्याननुक्रमात् ॥ ॥२,३८।५५च्द्।
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ ॥२,३८।५६अब्।
किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ॥ ॥२,३८।५६च्द्।
दन्ताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ ॥२,३८।५७अब्।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ॥२,३८।५७च्द्।
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ ॥२,३८।५८अब्।
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ॥२,३८।५८च्द्।
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ ॥२,३८।५९अब्।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ॥२,३८।५९च्द्।
सम्भृतप्राणसञ्चारः पाषाण इव निश्चलः ॥ ॥२,३८।६०अब्।
स्वदेहायतनस्यान्तर्विचिन्त्य शिवमम्बया ॥ ॥२,३८।६०च्द्।
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ ॥२,३८।६१अब्।
मूले नासाग्रतो नाभौ कण्ठे वा तालुरन्ध्रयोः ॥ ॥२,३८।६१च्द्।
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ ॥२,३८।६२अब्।
परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ॥२,३८।६२च्द्।
तत्र सावरणं वापि निरावरणमेव वा ॥ ॥२,३८।६३अब्।
द्विदलेषोडशारे वा द्वादशारे यथाविधि ॥ ॥२,३८।६३च्द्।
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ ॥२,३८।६४अब्।
भ्रुवोरन्तरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ॥२,३८।६४च्द्।
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ ॥२,३८।६५अब्।
विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ॥२,३८।६५च्द्।
षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ ॥२,३८।६६अब्।
पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ॥२,३८।६६च्द्।
ककारादिटकारान्ता वर्णाः पर्णान्यनुक्रमात् ॥ ॥२,३८।६७अब्।
भानुवर्णस्य पद्मस्य ध्येयं तद् १धृदयान्तरे ॥ ॥२,३८।६७च्द्।
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ ॥२,३८।६८अब्।
अधो दलस्याम्बुजस्य एतस्य २ च दलानि षट् ॥ ॥२,३८।६८च्द्।
विधूमाङ्गारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ ॥२,३८।६९अब्।
मूलाधारारविन्दस्य हेमाभस्य यथाक्रमम् ॥ ॥२,३८।६९च्द्।
वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ ॥२,३८।६९एफ़्।
एतेष्वथारविन्देषु यत्रैवाभिरतं मनः ॥ ॥२,३८।७०अब्।
तत्रैव देवं देवीं च चिन्तयेद्धीरया धिया ॥ ॥२,३८।७०च्द्।
अङ्गुष्ठमात्रममलं दीप्यमानं समन्ततः ॥ ॥२,३८।७१अब्।
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ ॥२,३८।७१च्द्।
इन्दुरेखासमाकारं तारारूपमथापि वा ॥ ॥२,३८।७२अब्।
नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ ॥२,३८।७२च्द्।
कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ ॥२,३८।७३अब्।
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ ॥२,३८।७३च्द्।
तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिन्तयेत् ॥ ॥२,३८।७४अब्।
सदाशिवान्ता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ ॥२,३८।७४च्द्।
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ॥२,३८।७५अब्।
घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ ॥२,३८।७५च्द्।
फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ ॥२,३८।७६अब्।
घोराश्चेच्चिन्तिताः कुर्युः पापरोगपरिक्षयम् ॥ ॥२,३८।७६च्द्।
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ ॥२,३८।७७अब्।
सौम्ये मुक्तिर्विशेषेण शान्तिः प्रज्ञा प्रसिध्यति ॥ ॥२,३८।७७च्द्।
सिध्यन्ति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ॥२,३८।७८अब्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशो ऽध्यायः