३७ योगगतिवर्णनम्

शीकृष्ण उवाच
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य सङ्ग्रहात् ॥ ॥२,३७।१अब्।
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ॥२,३७।१च्द्।
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ ॥२,३७।२अब्।
साधिकारं च साङ्गं च सविधिं सप्रयोजनम् ॥ ॥२,३७।२च्द्।
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ ॥२,३७।३अब्।
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ॥२,३७।३च्द्।
तच्च तत्कारणं चैव तत्कालकरणानि च ॥ ॥२,३७।४अब्।
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ॥२,३७।४च्द्।
उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ॥२,३७।५अब्।
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ॥२,३७।५च्द्।
निरुद्धवृत्त्यन्तरस्यं शिवे चित्तस्य निश्चला ॥ ॥२,३७।६अब्।
या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ॥२,३७।६च्द्।
मन्त्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ ॥२,३७।७अब्।
अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ॥२,३७।७च्द्।
मन्त्राभ्यासवशेनैव मन्त्रवाच्यार्थगोचरः ॥ ॥२,३७।८अब्।
अव्याक्षेपा मनोवृत्तिर्मन्त्रयोग उदाहृतः ॥ ॥२,३७।८च्द्।
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ ॥२,३७।९अब्।
स मन्त्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ॥२,३७।९च्द्।
विलीनावयवं विश्वं रूपं सम्भाव्यते यतः ॥ ॥२,३७।१०अब्।
५९४अ

अभावयोगः सम्प्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ॥२,३७।१०च्द्।
शिवस्वभाव एवैकश्चिन्त्यते निरुपाधिकः ॥ ॥२,३७।११अब्।
यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ॥२,३७।११च्द्।
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ ॥२,३७।१२अब्।
यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ॥२,३७।१२च्द्।
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ ॥२,३७।१३अब्।
दर्शनादेव सततं विरक्तं जायते मनः ॥ ॥२,३७।१३च्द्।
अष्टाङ्गो वा षडङ्गो वा सर्वयोगः समासतः ॥ ॥२,३७।१४अब्।
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ॥२,३७।१४च्द्।
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ ॥२,३७।१५अब्।
समाधिरिति योगाङ्गान्यष्टावुक्तानि सूरिभिः ॥ ॥२,३७।१५च्द्।
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ॥२,३७।१६अब्।
ध्यानं समाधिर्योगस्य षडङ्गानि समासतः ॥ ॥२,३७।१६च्द्।
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ ॥२,३७।१७अब्।
शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ॥२,३७।१७च्द्।
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ ॥२,३७।१८अब्।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ ॥२,३७।१८च्द्।
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ॥२,३७।१८एफ़्।
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ ॥२,३७।१९अब्।
इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ॥२,३७।१९च्द्।
स्वस्तिकं पद्ममध्येन्दुं वीरं योगं प्रसाधितम् ॥ ॥२,३७।२०अब्।
पर्यङ्कं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ॥२,३७।२०च्द्।
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ ॥२,३७।२१अब्।
तद्रोचकं पूरकं च कुम्भकं च त्रिधोच्यते ॥ ॥२,३७।२१च्द्।
नासिकापुटमङ्गुल्या पीड्यैकमपरेण तु ॥ ॥२,३७।२२अब्।
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ॥२,३७।२२च्द्।
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ ॥२,३७।२३अब्।
नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ॥२,३७।२३च्द्।
न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ॥ ॥२,३७।२४अब्।
सम्पूर्णं कुम्भवत्तिष्ठेदचलः स तु कुम्भक ॥ ॥२,३७।२४च्द्।
रेचकाद्यं त्रयमिदं न द्रुतं न विलम्बितम् ॥ ॥२,३७।२५अब्।
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ॥२,३७।२५च्द्।
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ ॥२,३७।२६अब्।
स्वेच्छोत्क्रमणपर्यन्तः प्रोक्तो योगानुशासने ॥ ॥२,३७।२६च्द्।
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ ॥२,३७।२७अब्।
तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ॥२,३७।२७च्द्।
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ ॥२,३७।२८अब्।
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ॥२,३७।२८च्द्।
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ ॥२,३७।२९अब्।
स्वेदकम्पादिजनकः प्राणायामस्तदुत्तरः ॥ ॥२,३७।२९च्द्।
आनन्दोद्भवरोमाञ्चनेत्राश्रूणां विमोचनम् ॥ ॥२,३७।३०अब्।
जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ॥२,३७।३०च्द्।
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ ॥२,३७।३१अब्।
अङ्गुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ॥२,३७।३१च्द्।
५९४ब्

मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ ॥२,३७।३२अब्।
नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ॥२,३७।३२च्द्।
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ ॥२,३७।३३अब्।
जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ॥२,३७।३३च्द्।
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ ॥२,३७।३४अब्।
तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ॥२,३७।३४च्द्।
प्राणस्य विजयादेव जीयन्ते देह १वायवः ॥ ॥२,३७।३५अब्।
प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ॥२,३७।३५च्द्।
नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ॥ ॥२,३७।३६अब्।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ॥२,३७।३६च्द्।
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ ॥२,३७।३७अब्।
व्यानो व्यानशयत्यङ्गान्यशेषाणि विवर्धयन् ॥ ॥२,३७।३७च्द्।
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ ॥२,३७।३८अब्।
समं नयति सर्वाङ्गं समानस्तेन गीयते ॥ ॥२,३७।३८च्द्।
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ ॥२,३७।३९अब्।
कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृम्भणे ॥ ॥२,३७।३९च्द्।
न जहाति मृतं चापि सर्वव्यापी धनञ्जयः ॥ ॥२,३७।४०अब्।
क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ॥२,३७।४०च्द्।
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ ॥२,३७।४१अब्।
प्राणे तु विजिते सम्यक् तच्चिह्नान्युपलक्षयेत् ॥ ॥२,३७।४१च्द्।
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ ॥२,३७।४२अब्।
बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ॥२,३७।४२च्द्।
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ ॥२,३७।४३अब्।
सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ॥२,३७।४३च्द्।
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ ॥२,३७।४४अब्।
तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ॥२,३७।४४च्द्।
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ ॥२,३७।४५अब्।
इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ॥२,३७।४५च्द्।
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ ॥२,३७।४६अब्।
नमःपूर्वाणीन्द्रियाणि स्वर्गं नरकमेव च ॥ ॥२,३७।४६च्द्।
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ ॥२,३७।४७अब्।
तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ॥२,३७।४७च्द्।
इन्द्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ ॥२,३७।४८अब्।
धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ॥२,३७।४८च्द्।
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ ॥२,३७।४९अब्।
कालं कञ्चावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ॥२,३७।४९च्द्।
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ ॥२,३७।५०अब्।
मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ॥२,३७।५०च्द्।
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ॥२,३७।५१अब्।
ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ॥ ॥२,३७।५१च्द्।
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ॥२,३७।५२अब्।
ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ॥२,३७।५२च्द्।

१ दश वायव इति पाठान्तरम्

५९५अ
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ ॥२,३७।५३अब्।
सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः ॥ ॥२,३७।५३च्द्।
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ ॥२,३७।५४अब्।
तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ॥२,३७।५४च्द्।
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ ॥२,३७।५५अब्।
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ॥२,३७।५५च्द्।
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ ॥२,३७।५६अब्।
इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ॥२,३७।५६च्द्।
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ ॥२,३७।५७अब्।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ॥२,३७।५७च्द्।
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ॥ ॥२,३७।५८अब्।
निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ॥२,३७।५८च्द्।
जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् ॥ ॥२,३७।५९अब्।
जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ॥२,३७।५९च्द्।
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ॥२,३७।६०अब्।
ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ॥२,३७।६०च्द्।
समाधिर्न्नाम योगाङ्गमन्तिमं परिकीर्तितम् ॥ ॥२,३७।६१अब्।
समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ॥२,३७।६१च्द्।
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ ॥२,३७।६२अब्।
स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ॥२,३७।६२च्द्।
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ ॥२,३७।६३अब्।
निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ॥२,३७।६३च्द्।
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ ॥२,३७।६४अब्।
न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥ ॥२,३७।६४च्द्।
नवाभिमन्यते किञ्चिद्बध्यते न च काष्टवत् ॥ ॥२,३७।६५अब्।
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ॥२,३७।६५च्द्।
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ ॥२,३७।६६अब्।
तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ॥२,३७।६६च्द्।
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ ॥२,३७।६७अब्।
तदन्तराया नश्यन्ति विघ्नाः सर्वे शनैःशनैः ॥ ॥२,३७।६७च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशो ऽध्यायः