श्रीकृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ ॥२,३६।१अब्।
लिङ्गस्यापि च बेरस्य शिवेन विहितं यथा ॥ ॥२,३६।१च्द्।
उपमन्युरुवाच
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ ॥२,३६।२अब्।
शिवशास्त्रोक्तमार्गेण कुर्याल्लिङ्गं प्रमाणवत् ॥ ॥२,३६।२च्द्।
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ ॥२,३६।३अब्।
दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ॥२,३६।३च्द्।
तेषां दशोपचाराणां पूर्वं पूज्य १ विनायकम् ॥ ॥२,३६।४अब्।
स्थानशुद्ध्यादिकं कृत्वालिङ्गं स्नानालयं नयेत् ॥ ॥२,३६।४च्द्।
शलाकया काञ्चनया २ कुङ्कुमादिरसाक्तया ॥ ॥२,३६।५अब्।
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ॥२,३६।५च्द्।
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ ॥२,३६।६अब्।
लिङ्गं पिण्डिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ॥२,३६।६च्द्।
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ ॥२,३६।७अब्।
नीत्वाधिवासयेत्तत्र लिङ्गं पिण्डिकया सह ॥ ॥२,३६।७च्द्।
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ ॥२,३६।८अब्।
सतोरणे सावरणे दर्भमालासमावृते ॥ ॥२,३६।८च्द्।
दिग्गजाष्टकसम्पन्ने दिक्पालाष्टघटान्विते ॥ ॥२,३६।९अब्।
अष्टमङ्गलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ॥२,३६।९च्द्।
तेजसं दारवं वापि कृत्वा पद्मासनाङ्कितम् ॥ ॥२,३६।१०अब्।
विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ॥२,३६।१०च्द्।
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ ॥२,३६।११अब्।
समुद्रश्च विभद्रश्च सुनन्दश्च विनन्दकः ॥ ॥२,३६।११च्द्।
स्नापयित्वा समभ्यर्च्य लिङ्गं वेदिकया सह ॥ ॥२,३६।१२अब्।
सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समन्ततः ॥ ॥२,३६।१२च्द्।
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ ॥२,३६।१३अब्।
प्राक्शिरस्कमधःसूत्रं पिण्डिकां चास्य पश्चिमे ॥ ॥२,३६।१३च्द्।
सर्वमङ्गलसंयुक्तं लिङ्गं तत्राधिवासयेत् ॥ ॥२,३६।१४अब्।
पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ॥२,३६।१४च्द्।
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ ॥२,३६।१५अब्।
सम्पूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ॥२,३६।१५च्द्।
तत्रापि शयनस्थानं कुर्यान्मण्डलमध्यतः ॥ ॥२,३६।१६अब्।
शुद्धैर्जलैः स्नापयित्वा लिङ्गमभ्यर्चयेत्क्रमात् ॥ ॥२,३६।१६च्द्।
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ ॥२,३६।१७अब्।
१ ल्यबार्षः
२ डिढ्ढणञिति डीबभाव आर्षः
५९२ब्
शिवकुम्भं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ॥२,३६।१७च्द्।
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ ॥२,३६।१८अब्।
तस्य पश्चिमतश्चापि चण्डिकापद्ममालिखेत् ॥ ॥२,३६।१८च्द्।
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ ॥२,३६।१९अब्।
प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ॥२,३६।१९च्द्।
तत्र लिङ्गं समानीय सर्वमङ्गलनिःस्वनैः ॥ ॥२,३६।२०अब्।
रक्तेन वस्त्रयुग्मेन सकूर्चेन समन्ततः ॥ ॥२,३६।२०च्द्।
सह पिण्डिकयावेष्ट्य शाययेच्च यथा पुरा ॥ ॥२,३६।२१अब्।
पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ॥२,३६।२१च्द्।
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ ॥२,३६।२२अब्।
परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ॥२,३६।२२च्द्।
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ ॥२,३६।२३अब्।
चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ॥२,३६।२३च्द्।
जुहुयुस्ते विरञ्च्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ ॥२,३६।२४अब्।
दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ॥२,३६।२४च्द्।
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ ॥२,३६।२५अब्।
आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ॥२,३६।२५च्द्।
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ ॥२,३६।२६अब्।
पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ॥२,३६।२६च्द्।
मूर्ध्नि मूलेन लिङ्गस्य शिवहस्तं प्रविन्यसेत् ॥ ॥२,३६।२७अब्।
शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ॥२,३६।२७च्द्।
हुत्वाहुत्वा स्पृशेल्लिङ्गं वेदिकां च पुनः पुनः ॥ ॥२,३६।२८अब्।
पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ॥२,३६।२८च्द्।
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ ॥२,३६।२९अब्।
तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ॥२,३६।२९च्द्।
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ ॥२,३६।३०अब्।
मृदम्भसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ॥२,३६।३०च्द्।
शोधितां चन्दनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ ॥२,३६।३१अब्।
करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ॥२,३६।३१च्द्।
हरितालादिधातूंश्च बीजगन्धौषधैरपि ॥ ॥२,३६।३२अब्।
शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ॥२,३६।३२च्द्।
प्रतिलिङ्गं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ ॥२,३६।३३अब्।
स्थितं बुद्ध्वा तदुत्सृज्य लिङ्गं ब्रह्मशिलोपरि ॥ ॥२,३६।३३च्द्।
प्रागुदक्प्रवरां किञ्चित्स्थापयेन्मूलविद्यया ॥ ॥२,३६।३४अब्।
पिण्डिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ॥२,३६।३४च्द्।
बन्धनं बन्धकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ ॥२,३६।३५अब्।
दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ॥२,३६।३५च्द्।
यथायोग्यं निषेकादि लिङ्गस्य पुरतस्तदा ॥ ॥२,३६।३६अब्।
आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ॥२,३६।३६च्द्।
महापूजामथारभ्य सम्पूज्य कलशान्दश ॥ ॥२,३६।३७अब्।
शिवमन्त्रमनुस्मृत्य शिवकुम्भजलान्तरे ॥ ॥२,३६।३७च्द्।
अङ्गुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ ॥२,३६।३८अब्।
न्यसेदीशानभागस्य मध्ये लिङ्गस्य मन्त्रवित् ॥ ॥२,३६।३८च्द्।
५९३अ
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ ॥२,३६।३९अब्।
लिङ्गमूले शिवजलैस्ततो लिङ्गं निषेचयेत् ॥ ॥२,३६।३९च्द्।
वर्धन्यां पिण्डिकालिङ्गं विद्येशकलशैः पुनः ॥ ॥२,३६।४०अब्।
अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ॥२,३६।४०च्द्।
कृत्वा पञ्चकलान्यासं दीप्तं लिङ्गमनुस्मरेत् ॥ ॥२,३६।४१अब्।
आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ॥२,३६।४१च्द्।
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ ॥२,३६।४२अब्।
अलङ्कृतं सहायान्तं देव्या देवमनुस्मरन् ॥ ॥२,३६।४२च्द्।
सर्वाभरणशोभाढ्यं सर्वमङ्गलनिस्वनैः ॥ ॥२,३६।४२एफ़्।
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ ॥२,३६।४३अब्।
आनन्दक्लिन्नसर्वाङ्गैर्विन्यस्ताञ्जलिमस्तकैः ॥ ॥२,३६।४३च्द्।
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ॥२,३६।४४अब्।
ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ॥२,३६।४४च्द्।
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ ॥२,३६।४५अब्।
प्रतिष्ठां लिङ्गवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ॥२,३६।४५च्द्।
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ ॥२,३६।४६अब्।
जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ॥२,३६।४६च्द्।
कुम्भोदशायितां मन्त्रैर्हृदि तां सन्नियोजयेत् ॥ ॥२,३६।४७अब्।
कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ॥२,३६।४७च्द्।
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ ॥२,३६।४८अब्।
अशक्तश्चेत्प्रतिष्ठाप्य लिङ्गं बेरमथापि वा ॥ ॥२,३६।४८च्द्।
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ ॥२,३६।४९अब्।
गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ॥२,३६।४९च्द्।
कृत्वा कनीयसम्बेरं लिङ्गं वा लक्षणान्वितम् ॥ ॥२,३६।५०अब्।
अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ॥२,३६।५०च्द्।
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ ॥२,३६।५१अब्।
विकीर्य पत्रपुष्पाद्यैर्मध्ये कुम्भं निधाय च ॥ ॥२,३६।५१च्द्।
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ ॥२,३६।५२अब्।
पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ॥२,३६।५२च्द्।
न्यस्य सम्पूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ ॥२,३६।५३अब्।
विशोध्य लिङ्गं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ॥२,३६।५३च्द्।
स्थापयेत्पुष्पसञ्छन्नमुत्तरस्थे वरासने ॥ ॥२,३६।५४अब्।
निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ॥२,३६।५४च्द्।
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ ॥२,३६।५५अब्।
कुम्भैरीशानविद्यान्तैः स्नापयेन्मूलविद्यया ॥ ॥२,३६।५५च्द्।
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ ॥२,३६।५६अब्।
नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ॥२,३६।५६च्द्।
एकमेवाथ वा कुम्भं मूर्तिमन्त्रसमन्वितम् ॥ ॥२,३६।५७अब्।
न्यस्य पद्मान्तरे सर्वं शेषं पूर्ववदाचरेत् ॥ ॥२,३६।५७च्द्।
अत्यन्तोपहतं लिङ्गं विशोध्य स्थापयेत्पुनः ॥ ॥२,३६।५८अब्।
सम्प्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ॥२,३६।५८च्द्।
लिङ्गानि बाणसञ्ज्ञानि स्थापनीयानि वा न वा ॥ ॥२,३६।५९अब्।
तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ॥२,३६।५९च्द्।
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ ॥२,३६।६०अब्।
स्वयमुद्भूतलिङ्गे च दिव्ये चार्षे तथैव च ॥ ॥२,३६।६०च्द्।
५९३ब्
अपीठे पीठमावेश्य कृत्वा सम्प्रोक्षणं विधिम् ॥ ॥२,३६।६१अब्।
यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ॥२,३६।६१च्द्।
दग्धं श्लथं क्षताङ्गं च क्षिपेल्लिङ्गं जलाशये ॥ ॥२,३६।६२अब्।
सन्धानयोग्यं सन्धाय प्रतिष्ठाविधिमाचरेत् ॥ ॥२,३६।६२च्द्।
बेराद्वा विकलाल्लिङ्गाद्देवपूजापुरस्सरम् ॥ ॥२,३६।६३अब्।
उद्वास्य हृदि सन्धानं त्यागं वा युक्तमाचरेत् ॥ ॥२,३६।६३च्द्।
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ ॥२,३६।६४अब्।
द्विरात्रे च महापूजां सम्प्रोक्षणमतः परम् ॥ ॥२,३६।६४च्द्।
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ ॥२,३६।६५अब्।
प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्सम्प्रोक्षणक्रमः ॥ ॥२,३६।६५च्द्।
सम्प्रोक्षणे तु लिङ्गादेर्देवमुद्वास्य पूर्ववत् ॥ ॥२,३६।६६अब्।
अष्टपञ्चक्रमेणैव स्नापयित्वा मृदम्भसा ॥ ॥२,३६।६६च्द्।
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ ॥२,३६।६७अब्।
प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ॥२,३६।६७च्द्।
सपुष्पं सकुशं पाणिं न्यस्य लिङ्गस्य मस्तके ॥ ॥२,३६।६८अब्।
पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ॥२,३६।६८च्द्।
ततो मूलेन मूर्धादिपीठान्तं संस्पृशेदपि ॥ ॥२,३६।६९अब्।
पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ॥२,३६।६९च्द्।
अलब्धे स्थापिते लिङ्गे शिवस्थाने जले ऽथ वा ॥ ॥२,३६।७०अब्।
वह्नौ रवौ तथा व्योम्नि भगवन्तं शिवं यजेत् ॥ ॥२,३६।७०च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्ततिष्ठाविधिवर्णनं नाम षट्त्रिंशो ऽध्यायः