३५ हरिविधिमोहनिवारणम्

उपमन्युरुवाच
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ॥२,३५।१अब्।
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ॥२,३५।१च्द्।
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ ॥२,३५।२अब्।
रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ॥२,३५।२च्द्।
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ ॥२,३५।३अब्।
अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ॥२,३५।३च्द्।
तत्राकारः श्रितो भागे ज्वलल्लिङ्गस्य दक्षिणे ॥ ॥२,३५।४अब्।
उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ॥२,३५।४च्द्।
अर्धमात्रात्मको नादः श्रूयते लिङ्गमूर्धनि ॥ ॥२,३५।५अब्।
विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ॥२,३५।५च्द्।
विभावार्थं च तौ देवौ न किञ्चिदवजग्मतुः ॥ ॥२,३५।६अब्।
वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ॥२,३५।६च्द्।
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ ॥२,३५।७अब्।
मकारस्साम सञ्जातो नादस्त्वाथर्वणी श्रुतिः ॥ ॥२,३५।७च्द्।
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ ॥२,३५।८अब्।
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ॥२,३५।८च्द्।
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ ॥२,३५।९अब्।
कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ॥२,३५।९च्द्।
लिङ्गभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ ॥२,३५।१०अब्।
चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ॥२,३५।१०च्द्।
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ ॥२,३५।११अब्।
अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ॥२,३५।११च्द्।
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ ॥२,३५।१२अब्।
स्थितिं लोकेष्वन्तरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ॥२,३५।१२च्द्।
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ ॥२,३५।१३अब्।
मध्यं तु लिङ्गभागेषु योनिं च त्रिषु हेतुषु ॥ ॥२,३५।१३च्द्।
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ॥२,३५।१४अब्।
ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ॥२,३५।१४च्द्।
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ ॥२,३५।१५अब्।
संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ॥२,३५।१५च्द्।
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ ॥२,३५।१६अब्।
लिङ्गभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ॥२,३५।१६च्द्।
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ ॥२,३५।१७अब्।
अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ॥२,३५।१७च्द्।
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ ॥२,३५।१८अब्।
५९०ब्

क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ॥२,३५।१८च्द्।
भूतानुग्रहणं चैव मुच्यन्ते येन जन्तवः ॥ ॥२,३५।१९अब्।
लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ॥२,३५।१९च्द्।
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ ॥२,३५।२०अब्।
सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ॥२,३५।२०च्द्।
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ ॥२,३५।२१अब्।
शान्तिं च शान्त्यतीतां च व्यापिकां चै कलास्वपि ॥ ॥२,३५।२१च्द्।
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ ॥२,३५।२२अब्।
मूर्धानमपि लिङ्गस्य नादभागेष्वनुत्तमम् ॥ ॥२,३५।२२च्द्।
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ ॥२,३५।२३अब्।
तत्तेष्वपि तदा बिन्दोर्नादाच्छक्तेस्ततः परात् ॥ ॥२,३५।२३च्द्।
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ ॥२,३५।२४अब्।
कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ॥२,३५।२४च्द्।
अनन्ताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ ॥२,३५।२५अब्।
सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ॥२,३५।२५च्द्।
सर्वमन्त्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ ॥२,३५।२६अब्।
पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ॥२,३५।२६च्द्।
तस्मादपि पराद्बिन्दोरर्धेदोश्च ततः परात् ॥ ॥२,३५।२७अब्।
ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ॥२,३५।२७च्द्।
ततः परात्सुषुम्नेशाद्ब्रह्मरन्ध्रेश्वरादपि ॥ ॥२,३५।२८अब्।
ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ॥२,३५।२८च्द्।
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ ॥२,३५।२९अब्।
कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ॥२,३५।२९च्द्।
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ ॥२,३५।३०अब्।
सर्वैश्वर्येण सम्पन्नं सर्वेश्वरमनीश्वरम् ॥ ॥२,३५।३०च्द्।
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ ॥२,३५।३१अब्।
अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ॥२,३५।३१च्द्।
तत्पराच्छुद्धविद्याद्यादुन्मनान्तात्परात्परात् ॥ ॥२,३५।३२अब्।
परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ॥२,३५।३२च्द्।
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ ॥२,३५।३३अब्।
इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ॥२,३५।३३च्द्।
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ॥२,३५।३४अब्।
ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ॥२,३५।३४च्द्।
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ ॥२,३५।३५अब्।
यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ॥२,३५।३५च्द्।
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ ॥२,३५।३६अब्।
साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ॥२,३५।३६च्द्।
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ ॥२,३५।३७अब्।
अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ॥२,३५।३७च्द्।
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ ॥२,३५।३८अब्।
अध्वात्मकं तु त्रितयं शिवविद्यात्मसञ्ज्ञितम् ॥ ॥२,३५।३८च्द्।
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ ॥२,३५।३९अब्।
५९१अ

अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ॥२,३५।३९च्द्।
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ ॥२,३५।४०अब्।
द्वयोः प्रमापको नादो नदान्तश्च मदात्मकः ॥ ॥२,३५।४०च्द्।
तस्मान्ममार्थस्वातन्त्र्यात्प्रधानः परमेश्वरः ॥ ॥२,३५।४१अब्।
यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ॥२,३५।४१च्द्।
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ ॥२,३५।४२अब्।
सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ॥२,३५।४२च्द्।
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ ॥२,३५।४३अब्।
शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ॥२,३५।४३च्द्।
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ॥२,३५।४४अब्।
चिन्तया रहितो रुद्रो वाचोयन्मनसा सह ॥ ॥२,३५।४४च्द्।
अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः ॥ ॥२,३५।४५अब्।
एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ॥२,३५।४५च्द्।
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ ॥२,३५।४६अब्।
एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ॥२,३५।४६च्द्।
दक्षिणाङ्गान्महेशस्य जातो ब्रह्मात्मसञ्ज्ञिकः ॥ ॥२,३५।४७अब्।
वामाङ्गादभवद्विष्णुस्ततो विद्येति सञ्ज्ञितः ॥ ॥२,३५।४७च्द्।
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसञ्ज्ञिकः ॥ ॥२,३५।४८अब्।
सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ॥२,३५।४८च्द्।
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ॥२,३५।४९अब्।
तस्मात्त्रयस्ते कथ्यन्ते जगतः कारणानि च ॥ ॥२,३५।५०अब्।
कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ॥२,३५।५०च्द्।
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ ॥२,३५।५१अब्।
युवयोः प्रतिबोधाय मध्ये लिङ्गमुपस्थितम् ॥ ॥२,३५।५१च्द्।
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ॥२,३५।५२अब्।
ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ॥२,३५।५२च्द्।
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ ॥२,३५।५३अब्।
स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ॥२,३५।५३च्द्।
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ ॥२,३५।५४अब्।
लिङ्गेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ॥२,३५।५४च्द्।
तद्दृष्ट्वा मुद्रितं लिङ्गे प्रसादाल्लिङ्गिनस्तदा ॥ ॥२,३५।५५अब्।
प्रशान्तमनसौ देवौ प्रबुद्धौ सम्बभूवतुः ॥ ॥२,३५।५५च्द्।
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ॥२,३५।५६अब्।
ततः परतरं धाम धामवन्तं च पूरुषम् ॥ ॥२,३५।५६च्द्।
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ ॥२,३५।५७अब्।
पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ॥२,३५।५७च्द्।
अकुतोभयमत्यन्तमवृद्धिक्षयमव्ययम् ॥ ॥२,३५।५८अब्।
वाह्यमाभ्यन्तरं व्याप्तं वाह्याभ्यन्तरवर्जितम् ॥ ॥२,३५।५८च्द्।
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ ॥२,३५।५९अब्।
अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ॥२,३५।५९च्द्।
प्रकाशैकरसं शान्तं प्रसन्नं सततोदितम् ॥ ॥२,३५।६०अब्।
सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ॥२,३५।६०च्द्।
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ ॥२,३५।६१अब्।
रचयित्वाञ्जलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ॥२,३५।६१च्द्।
५९१ब्

ब्रह्मोवाच
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ॥२,३५।६२अब्।
ईदृशीं भ्रान्तिमापन्न इति को ऽत्रापराध्यति ॥ ॥२,३५।६२च्द्।
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ ॥२,३५।६३अब्।
निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ॥२,३५।६३च्द्।
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ ॥२,३५।६४अब्।
पादप्रणामफलदो नाथस्य भवतो यतः ॥ ॥२,३५।६४च्द्।
विष्णुरुवाच
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ ॥२,३५।६५अब्।
प्रभोरग्रे विधेयानां तूष्णीम्भावो व्यतिक्रमः ॥ ॥२,३५।६५च्द्।
किमत्र सङ्घटेत्कृत्यमित्येवावसरोचितम् ॥ ॥२,३५।६६अब्।
अजानन्नपि यत्किञ्चित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ॥२,३५।६६च्द्।
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ ॥२,३५।६७अब्।
मोहितो ऽहङ्कृतश्चापि पुनरेवास्मि शासितः ॥ ॥२,३५।६७च्द्।
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ ॥२,३५।६८अब्।
यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ॥२,३५।६८च्द्।
त्वामुशन्ति महादेवं भीतानामार्तिनाशनम् ॥ ॥२,३५।६९अब्।
अतो व्यतिक्रमं मे ऽद्य क्षन्तुमर्हसि शङ्कर ॥ ॥२,३५।६९च्द्।
इति विज्ञापितस्ताभ्याम् ईश्वराभ्यां महेश्वरः ॥ ॥२,३५।७०अब्।
प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ॥२,३५।७०च्द्।
ईश्वर उवाच
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ ॥२,३५।७१अब्।
युवां प्रभुत्वे ऽहङ्कृत्य बुद्धवैरो परस्परम् ॥ ॥२,३५।७१च्द्।
विवादं युद्धपर्यन्तं कृत्वा नोपरतौ किल ॥ ॥२,३५।७२अब्।
ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ॥२,३५।७२च्द्।
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ ॥२,३५।७३अब्।
तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ॥२,३५।७३च्द्।
एवं निवारितावद्यलिङ्गाविर्भावलीलया ॥ ॥२,३५।७४अब्।
तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ॥२,३५।७४च्द्।
यथास्वं कर्म कुर्यातां भवन्तौ वीतमत्सरौ ॥ ॥२,३५।७५अब्।
पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ॥२,३५।७५च्द्।
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ ॥२,३५।७६अब्।
मन्त्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ॥२,३५।७६च्द्।
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ॥२,३५।७७अब्।
ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ॥२,३५।७७च्द्।
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ ॥२,३५।७८अब्।
एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ॥२,३५।७८च्द्।
मन्त्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ ॥२,३५।७९अब्।
तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ॥२,३५।७९च्द्।
महार्थं मन्त्ररत्नं च तथैव सकलाः कलाः ॥ ॥२,३५।८०अब्।
दण्डवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ॥२,३५।८०च्द्।
अतिष्ठतां वीतभयावानन्दास्तिमितौ तदा ॥ ॥२,३५।८१अब्।
एतस्मिन्नन्तरे चित्रमिन्द्रजालवदैश्वरम् ॥ ॥२,३५।८१च्द्।
लिङ्गं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ॥२,३५।८२अब्।
ततो विलप्य हाहेति सद्यःप्रणयभङ्गतः ॥ ॥२,३५।८२च्द्।
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ ॥२,३५।८३अब्।
अचिन्त्यवैभवं शम्भोर्विचिन्त्य च गतव्यथौ ॥ ॥२,३५।८३च्द्।
५९२अ

अभ्युपेत्य परां मैत्रीमालिङ्ग्य च परस्परम् ॥ ॥२,३५।८४अब्।
जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुङ्गवौ ॥ ॥२,३५।८४च्द्।
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ॥२,३५।८५अब्।
ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ ॥२,३५।८५च्द्।
लिङ्गप्रतिष्ठा कुर्वन्ति लिङ्गे तं पूजयन्ति च ॥ ॥२,३५।८५एफ़्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः