३४ हरिविधिमोहवर्णनम्

उपमन्युरुवाच
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ ॥२,३४।१अब्।
सा सर्वा लभ्येत सद्यो लिङ्गबेरप्रतिष्ठया ॥ ॥२,३४।१च्द्।
सर्वो लिङ्गमयो लोकस्सर्वं लिङ्गे प्रतिष्ठितम् ॥ ॥२,३४।२अब्।
तस्मात्प्रतिष्ठिते लिङ्गे भवेत्सर्वं पतिष्ठितम् ॥ ॥२,३४।२च्द्।
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ ॥२,३४।३अब्।
लिङ्गप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ॥२,३४।३च्द्।
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ ॥२,३४।४अब्।
पर्तिष्ठितं शिवेनापि लिङ्गं वैश्वेश्वरं यतः ॥ ॥२,३४।४च्द्।
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ ॥२,३४।५अब्।
स्थापयेत्परमेशस्य लिङ्गं बेरमथापि वा ॥ ॥२,३४।५च्द्।
श्रीकृष्ण उवाच
किमिदं लिङ्गमाख्यातं कथं लिङ्गी महेश्वरः ॥ ॥२,३४।६अब्।
कथं च लिङ्गभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ॥२,३४।६च्द्।
उपमन्युरुवाच
अव्यक्तं लिङ्गमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ ॥२,३४।७अब्।
अनाद्यनन्तं विश्वस्य यदुपादानकारणम् ॥ ॥२,३४।७च्द्।
तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ ॥२,३४।८अब्।
तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ॥२,३४।८च्द्।
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ॥२,३४।९अब्।
ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ॥२,३४।९च्द्।
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ ॥२,३४।१०अब्।
अत एव शिवो लिङ्गो लिङ्गमाज्ञापयेद्यतः ॥ ॥२,३४।१०च्द्।
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ॥२,३४।११अब्।
ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ॥२,३४।११च्द्।
अनेन लिङ्गतां तस्य भवेन्नान्येन केनचित् ॥ ॥२,३४।१२अब्।
लिङ्गं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ॥२,३४।१२च्द्।
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ ॥२,३४।१३अब्।
लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः ॥ ॥२,३४।१३च्द्।
तयोः सम्पूजनादेव स च सा च समर्चितौ ॥ ॥२,३४।१४अब्।
न तयोर्लिङ्गदेहत्वं विद्यते परमार्थतः ॥ ॥२,३४।१४च्द्।
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ ॥२,३४।१५अब्।
तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ॥२,३४।१५च्द्।
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ ॥२,३४।१६अब्।
न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ॥२,३४।१६च्द्।
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ ॥२,३४।१७अब्।
पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ॥२,३४।१७च्द्।
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ ॥२,३४।१८अब्।
५८९ब्

यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ॥२,३४।१८च्द्।
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ ॥२,३४।१९अब्।
मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ॥२,३४।१९च्द्।
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ ॥२,३४।२०अब्।
स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ॥२,३४।२०च्द्।
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ ॥२,३४।२१अब्।
तमाह चान्तस्सङ्क्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ॥२,३४।२१च्द्।
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ ॥२,३४।२२अब्।
इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ॥२,३४।२२च्द्।
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ ॥२,३४।२३अब्।
वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ॥२,३४।२३च्द्।
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ ॥२,३४।२४अब्।
त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ॥२,३४।२४च्द्।
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ ॥२,३४।२५अब्।
इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ॥२,३४।२५च्द्।
अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ ॥२,३४।२६अब्।
भवानपि ममैवाङ्गादवतीर्णः पुराव्ययात् ॥ ॥२,३४।२६च्द्।
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ ॥२,३४।२७अब्।
सृजस्यवसि चान्ते तत्पुनः प्रतिसृजस्यपि ॥ ॥२,३४।२७च्द्।
विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ ॥२,३४।२८अब्।
तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ॥२,३४।२८च्द्।
तवापराधो नास्त्यत्र भ्रान्तोसि मम मायया ॥ ॥२,३४।२९अब्।
मत्प्रसादादियं भ्रान्तिरपैष्यति तवाचिरात् ॥ ॥२,३४।२९च्द्।
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ॥२,३४।३०अब्।
कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ॥२,३४।३०च्द्।
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ ॥२,३४।३१अब्।
अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ॥२,३४।३१च्द्।
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ ॥२,३४।३२अब्।
तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ॥२,३४।३२च्द्।
मध्ये समाविरभवल्लिङ्गमैश्वरमद्भुतम् ॥ ॥२,३४।३३अब्।
ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ॥२,३४।३३च्द्।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ ॥२,३४।३४अब्।
तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ॥२,३४।३४च्द्।
विसृज्य युद्धं किं त्वेतदित्यचिन्तयतां तदा ॥ ॥२,३४।३५अब्।
न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ॥२,३४।३५च्द्।
तदा समुद्यतौ स्यातां तस्याद्यन्तं परीक्षितुम् ॥ ॥२,३४।३६अब्।
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ ॥२,३४।३७अब्।
मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ॥२,३४।३७च्द्।
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ ॥२,३४।३८अब्।
वाराहममितं रूपमस्थाय गतवानधः ॥ ॥२,३४।३८च्द्।
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ ॥२,३४।३९अब्।
नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः ॥ ॥२,३४।३९च्द्।
तावत्कालं गतश्चोर्ध्वं तस्यान्तं ज्ञातुमिच्छया ॥ ॥२,३४।४०अब्।
श्रान्तोत्यन्तमदृष्ट्वान्तं पापताधः पितामहः ॥ ॥२,३४।४०च्द्।
५९०अ

तथैव भगवान् विष्णुः श्रान्तः संविग्नलोचनः ॥ ॥२,३४।४१अब्।
क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ॥२,३४।४१च्द्।
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ ॥२,३४।४२अब्।
मायया मोहितौ शम्भोः कृत्याकृत्यं न जग्मतुः ॥ ॥२,३४।४२च्द्।
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ ॥२,३४।४३अब्।
प्रणिपत्य किमात्मेदमित्यचिन्तयतां तदा ॥ ॥२,३४।४३च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशो ऽध्यायः