३३ आमुष्मिककर्मविधिवर्णनम्

उपमन्युरुवाच
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ ॥२,३३।१अब्।
नैतेन सदृशं किञ्चित्कर्मास्ति भुवनत्रये ॥ ॥२,३३।१च्द्।
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ॥२,३३।२अब्।
ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ॥२,३३।२च्द्।
इन्द्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ ॥२,३३।३अब्।
विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ॥२,३३।३च्द्।
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ ॥२,३३।४अब्।
नन्दीश्वरमहाकालभृङ्गीशाद्यैर्गणेश्वरैः ॥ ॥२,३३।४च्द्।
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ ॥२,३३।५अब्।
सिद्धैर्यक्षैश्च गन्धर्वै रक्षोभूतपिशाचकैः ॥ ॥२,३३।५च्द्।
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ ॥२,३३।६अब्।
अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ॥२,३३।६च्द्।
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ ॥२,३३।७अब्।
रुद्रो रुद्रत्वमापन्न इन्द्रश्चेन्द्रत्वमागतः ॥ ॥२,३३।७च्द्।
गणेशश्च गणेशत्वमनेन विधिना गतः ॥ ॥२,३३।८अब्।
सितचन्दनतोयेन लिङ्गं स्नाप्य शिवं शिवाम् ॥ ॥२,३३।८च्द्।
श्वेतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च ॥ ॥२,३३।८एफ़्।
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ ॥२,३३।९अब्।
विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ॥२,३३।९च्द्।
मध्ये केसरजालास्य स्थाप्य लिङ्गं कनीयसम् ॥ ॥२,३३।१०अब्।
अङ्गुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ॥२,३३।१०च्द्।
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ ॥२,३३।११अब्।
अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ॥२,३३।११च्द्।
उत्तरे चन्दनं दद्याद्धरितालं तु पूर्वतः ॥ ॥२,३३।१२अब्।
सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ॥२,३३।१२च्द्।
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ ॥२,३३।१३अब्।
वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ॥२,३३।१३च्द्।
पायसं घृतसम्मिश्रं घृतदीपांश्च दापयेत् ॥ ॥२,३३।१४अब्।
सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ॥२,३३।१४च्द्।
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ ॥२,३३।१५अब्।
सर्वोपहारसम्मिश्रं ततो लिङ्गं निवेदयेत् ॥ ॥२,३३।१५च्द्।
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ ॥२,३३।१६अब्।
एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ॥२,३३।१६च्द्।
५८९अ

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ॥२,३३।१७अब्।
एतद्व्रतोत्तमं गुह्यं शिवलिङ्गमहाव्रतम् ॥ ॥२,३३।१७च्द्।
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ ॥२,३३।१८अब्।
देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ॥२,३३।१८च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः