उपमन्युरुवाच
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ ॥२,३२।१अब्।
क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ॥२,३२।१च्द्।
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ ॥२,३२।२अब्।
पूजाहोमजपध्यानतपोदानमयं महत् ॥ ॥२,३२।२च्द्।
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ ॥२,३२।३अब्।
दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ॥२,३२।३च्द्।
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ ॥२,३२।४अब्।
प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ॥२,३२।४च्द्।
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ ॥२,३२।५अब्।
परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ॥२,३२।५च्द्।
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ ॥२,३२।६अब्।
न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ॥२,३२।६च्द्।
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ ॥२,३२।७अब्।
स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ॥२,३२।७च्द्।
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ ॥२,३२।८अब्।
यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ॥२,३२।८च्द्।
साधकः सिद्धमन्त्रश्च निरस्तप्रतिबन्धकः ॥ ॥२,३२।९अब्।
विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ॥२,३२।९च्द्।
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ ॥२,३२।१०अब्।
रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ॥२,३२।१०च्द्।
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ ॥२,३२।११अब्।
सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ॥२,३२।११च्द्।
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ ॥२,३२।१२अब्।
पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलङ्कृते ॥ ॥२,३२।१२च्द्।
आलिप्य शकृता १ भूमिं हस्तमानावरां यथा ॥ ॥२,३२।१३अब्।
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ॥२,३२।१३च्द्।
तप्तजाम्बूनदमयमष्टपत्रं सकेसरम् ॥ ॥२,३२।१४अब्।
मध्ये कर्णिकया युक्तं सर्वरत्नैरलङ्कृतम् ॥ ॥२,३२।१४च्द्।
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ ॥२,३२।१५अब्।
तादृशे स्वर्णनिर्माणे कन्दे सम्यग्विधानतः ॥ ॥२,३२।१५च्द्।
तत्राणिमादिकं सर्वं सङ्कल्प्य मनसा पुनः ॥ ॥२,३२।१६अब्।
रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ॥२,३२।१६च्द्।
लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥ ॥२,३२।१६एफ़्।
तत्रावाह्य यजेद्देवं साम्बं सगणमव्ययम् ॥ ॥२,३२।१७अब्।
तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ॥२,३२।१७च्द्।
१ गोरिति शेषः
५८७अ
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ ॥२,३२।१८अब्।
शार्दूलचर्मवसना किञ्चिद्विहसितानना ॥ ॥२,३२।१८च्द्।
वरदाभयहस्ता च मृगटङ्कधरा तथा ॥ ॥२,३२।१९अब्।
अथ वाष्टभुजा चिन्त्या चिन्तकस्य यथारुचि ॥ ॥२,३२।१९च्द्।
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ ॥२,३२।२०अब्।
वामे पाशाङ्कुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ॥२,३२।२०च्द्।
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ ॥२,३२।२१अब्।
तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ॥२,३२।२१च्द्।
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ ॥२,३२।२२अब्।
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ॥२,३२।२२च्द्।
पश्चिमं पूर्णचन्द्राभं सौम्यमिन्दुकलाधरम् ॥ ॥२,३२।२३अब्।
तदङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा ॥ ॥२,३२।२३च्द्।
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ ॥२,३२।२४अब्।
मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ॥२,३२।२४च्द्।
मूर्तिमन्तमथावाह्य यजेत्परमकारणम् ॥ ॥२,३२।२५अब्।
स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ॥२,३२।२५च्द्।
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ ॥२,३२।२६अब्।
पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलङ्कृतम् ॥ ॥२,३२।२६च्द्।
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ ॥२,३२।२७अब्।
सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ॥२,३२।२७च्द्।
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ ॥२,३२।२८अब्।
तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ॥२,३२।२८च्द्।
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ ॥२,३२।२९अब्।
दुकूलाद्येन वस्त्रेण समाच्छाद्य समन्ततः ॥ ॥२,३२।२९च्द्।
सर्वत्र मन्त्रं विन्यस्य तत्तन्मन्त्रपुरस्सरम् ॥ ॥२,३२।३०अब्।
स्नानकाले तु सम्प्राप्ते सर्वमङ्गलनिस्वनैः ॥ ॥२,३२।३०च्द्।
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ॥२,३२।३१अब्।
ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ॥२,३२।३१च्द्।
गन्धपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ ॥२,३२।३२अब्।
उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ॥२,३२।३२च्द्।
गन्धं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ ॥२,३२।३३अब्।
पलावरः स्यादालेप एकादशपलोत्तरः ॥ ॥२,३२।३३च्द्।
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ ॥२,३२।३४अब्।
नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ॥२,३२।३४च्द्।
कमलानि च रक्तानि श्वेतान्यपि च शम्भवे ॥ ॥२,३२।३५अब्।
कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ॥२,३२।३५च्द्।
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ ॥२,३२।३६अब्।
पञ्चब्रह्मषडङ्गानि पूज्यान्यावरणानि च ॥ ॥२,३२।३६च्द्।
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ ॥२,३२।३७अब्।
पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ॥२,३२।३७च्द्।
पञ्चसौगन्धिकोपेतं ताम्बूलं च सुसंस्कृतम् ॥ ॥२,३२।३८अब्।
सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ॥२,३२।३८च्द्।
५८७ब्
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ ॥२,३२।३९अब्।
दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ॥२,३२।३९च्द्।
जपश्च मूलमन्त्रस्य लक्षः परमसङ्ख्यया ॥ ॥२,३२।४०अब्।
एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ॥२,३२।४०च्द्।
दशसङ्ख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ ॥२,३२।४१अब्।
घोररूपश्शिवश्चिन्त्यो मारणोच्चाटनादिषु ॥ ॥२,३२।४१च्द्।
शिवलिङ्गे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ ॥२,३२।४२अब्।
चिन्त्यस्सौम्यतनुश्शम्भुः कार्ये शान्तिकपौष्टिके ॥ ॥२,३२।४२च्द्।
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ ॥२,३२।४३अब्।
तदन्यत्र तु सौवर्णौ शान्तिकाद्येषु कृत्स्नशः ॥ ॥२,३२।४३च्द्।
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ ॥२,३२।४४अब्।
चरुणा सघृतेनैव केवलं पयसापि वा ॥ ॥२,३२।४४च्द्।
जुहुयान्मृत्युविजये तिलै रोगोपशान्तये ॥ ॥२,३२।४५अब्।
घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ॥२,३२।४५च्द्।
समृद्धिकामो जुहुयान्महादारिद्र्यशान्तये ॥ ॥२,३२।४६अब्।
जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ॥२,३२।४६च्द्।
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ ॥२,३२।४७अब्।
तैलेनोच्चाटनं कुर्यात्स्तम्भनं मधुना पुनः ॥ ॥२,३२।४७च्द्।
स्तम्भनं सर्षपेणापि लशुनेन तु पातनम् ॥ ॥२,३२।४८अब्।
ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ॥२,३२।४८च्द्।
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ ॥२,३२।४९अब्।
विद्वेषणं च तैलेन कुर्याल्लाङ्गलकस्य तु ॥ ॥२,३२।४९च्द्।
बन्धनं रोहिबीजेन सेनास्तम्भनमेव च ॥ ॥२,३२।५०अब्।
रक्तसर्षपसम्मिश्रैर्होमद्रव्यैरशेषतः ॥ ॥२,३२।५०च्द्।
हस्तयन्त्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ ॥२,३२।५१अब्।
कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ॥२,३२।५१च्द्।
सर्षपैस्तैलसम्मिश्रैर्जुहुयादाभिचारिके ॥ ॥२,३२।५२अब्।
ज्वरोपशान्तिदं क्षीरं सौभाग्यफलदं तथा ॥ ॥२,३२।५२च्द्।
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ ॥२,३२।५३अब्।
क्षीरेण तन्दुलैश्चैव चरुणा केवलेन वा ॥ ॥२,३२।५३च्द्।
शान्तिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ ॥२,३२।५४अब्।
द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ॥२,३२।५४च्द्।
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ ॥२,३२।५५अब्।
बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ॥२,३२।५५च्द्।
समिधः शान्तिकार्येषु पालाशखदिरादिकाः ॥ ॥२,३२।५६अब्।
करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ॥२,३२।५६च्द्।
प्रशान्तः शान्तिकं कुर्यात्पौष्टिकं च विशेषतः ॥ ॥२,३२।५७अब्।
निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ॥२,३२।५७च्द्।
अतीवदुरवस्थायां प्रतीकारान्तरं न चेत् ॥ ॥२,३२।५८अब्।
आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ॥२,३२।५८च्द्।
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ ॥२,३२।५९अब्।
यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ॥२,३२।५९च्द्।
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ ॥२,३२।६०अब्।
मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ॥२,३२।६०च्द्।
५८८अ
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ ॥२,३२।६१अब्।
कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ॥२,३२।६१च्द्।
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ ॥२,३२।६२अब्।
न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ॥२,३२।६२च्द्।
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ ॥२,३२।६३अब्।
पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ॥२,३२।६३च्द्।
बाणलिङ्गे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ ॥२,३२।६४अब्।
स्वयम्भूते ऽथ वा लिङ्गे आर्षके वैदिके ऽपि वा ॥ ॥२,३२।६४च्द्।
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ ॥२,३२।६५अब्।
मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ॥२,३२।६५च्द्।
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ ॥२,३२।६६अब्।
सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ॥२,३२।६६च्द्।
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ ॥२,३२।६७अब्।
द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ॥२,३२।६७च्द्।
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ ॥२,३२।६८अब्।
तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ॥२,३२।६८च्द्।
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ ॥२,३२।६९अब्।
अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ॥२,३२।६९च्द्।
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ ॥२,३२।७०अब्।
सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ॥२,३२।७०च्द्।
स्वयं गृह्णाति यो लोभात्पूजाङ्गद्रव्यमुत्तमम् ॥ ॥२,३२।७१अब्।
काङ्क्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ॥२,३२।७१च्द्।
अर्चितं यत्तु तल्लिङ्गं गृह्णीयाद्वा नवा स्वयम् ॥ ॥२,३२।७२अब्।
गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ॥२,३२।७२च्द्।
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ ॥२,३२।७३अब्।
फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ॥२,३२।७३च्द्।
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ ॥२,३२।७४अब्।
अपि शत्रुभिराक्रान्तो व्याधिभिर्वाप्यनेकशः ॥ ॥२,३२।७४च्द्।
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ ॥२,३२।७५अब्।
पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ॥२,३२।७५च्द्।
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ ॥२,३२।७६अब्।
शत्रुर्मित्रायते सद्यो विरोधी किङ्करायते ॥ ॥२,३२।७६च्द्।
विषायते यदमृतं विषमप्यमृतायते ॥ ॥२,३२।७७अब्।
स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ॥२,३२।७७च्द्।
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ ॥२,३२।७८अब्।
पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ॥२,३२।७८च्द्।
वनायते यदुद्यानं तदुद्यानायते वनम् ॥ ॥२,३२।७९अब्।
सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ॥२,३२।७९च्द्।
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ ॥२,३२।८०अब्।
स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ॥२,३२।८०च्द्।
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ ॥२,३२।८१अब्।
महावातायते शक्तिर्बलं मत्तगजायते ॥ ॥२,३२।८१च्द्।
५८८ब्
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ ॥२,३२।८२अब्।
शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ॥२,३२।८२च्द्।
शत्रवः कुणपायन्ते जीवन्तोपि सबान्धवाः ॥ ॥२,३२।८३अब्।
आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ॥२,३२।८३च्द्।
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ ॥२,३२।८४अब्।
अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ॥२,३२।८४च्द्।
अनागतादिकं सर्वं करस्थामलकायते ॥ ॥२,३२।८५अब्।
यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ॥२,३२।८५च्द्।
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ ॥२,३२।८६अब्।
अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ॥२,३२।८६च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः