३१ शिवमहास्तोत्रवर्णनम्

उपमन्युरुवाच
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ॥ ॥२,३१।१अब्।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ ॥२,३१।१च्द्।
जय जय जगदेकनाथ शम्भो प्रकृतिमनोहर नित्यचित्स्वभाव ॥ ॥२,३१।२अब्।
अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ ॥२,३१।२च्द्।
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥ ॥२,३१।३अब्।
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ॥२,३१।३च्द्।
अनन्तकान्तिसम्पन्न जयासदृशविग्रह ॥ ॥२,३१।४अब्।
अतर्क्यमहिमाधार जयानाकुलमङ्गल ॥ ॥२,३१।४च्द्।
निरञ्जन निराधार जय निष्कारणोदय ॥ ॥२,३१।५अब्।
निरन्तरपरानन्द जय निर्वृतिकारण ॥ ॥२,३१।५च्द्।
जयातिपरमैश्वर्य जयातिकरुणास्पद ॥ ॥२,३१।६अब्।
जय स्वतन्त्रसर्वस्व जयासदृशवैभव ॥ ॥२,३१।६च्द्।
जयावृतमहाविश्व जयानावृत केनचित् ॥ ॥२,३१।७अब्।
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ॥२,३१।७च्द्।
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥ ॥२,३१।८अब्।
जयामेय जयामाय जयाभाव जयामल ॥ ॥२,३१।८च्द्।
महाभुज महासार महागुण महाकथ ॥ ॥२,३१।९अब्।
महाबल महामाय महारस महारथ ॥ ॥२,३१।९च्द्।
नमः परमदेवाय नमः परमहेतवे ॥ ॥२,३१।१०अब्।
नमश्शिवाय शान्ताय नमश्शिवतराय ते ॥ ॥२,३१।१०च्द्।
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ ॥२,३१।११अब्।
अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥ ॥२,३१।१२अब्।
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥ ॥२,३१।१३अब्।
भवानतो ऽनुगृह्यास्मै प्रार्थितं सम्प्रयच्छतु ॥ ॥२,३१।१३च्द्।
जयाम्बिके जगन्मातर्जय सर्वजगन्मयि ॥ ॥२,३१।१४अब्।
जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ ॥२,३१।१४च्द्।
जय वाङ्मनसातीते जयाचिद्ध्वान्तभञ्जिके ॥ ॥२,३१।१५अब्।
जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ ॥२,३१।१५च्द्।
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥ ॥२,३१।१६अब्।
जय विश्वसुराराध्ये जय विश्वविजृम्भिणि ॥ ॥२,३१।१६च्द्।
जय मङ्गलदिव्याङ्गि जय मङ्गलदीपिके ॥ ॥२,३१।१७अब्।
जय मङ्गलचारित्रे जय मङ्गलदायिनि ॥ ॥२,३१।१७च्द्।
नमः परमकल्याणगुणसञ्चयमूर्तये ॥ ॥२,३१।१८अब्।
त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ ॥२,३१।१८च्द्।
५८२ब्

त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥ ॥२,३१।१९अब्।
जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥ ॥२,३१।१९च्द्।
अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥ ॥२,३१।२०अब्।
पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥ ॥२,३१।२०च्द्।
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥ ॥२,३१।२१अब्।
शिवभक्तिसमारूढः शान्त्यतीतस्सदाशिवः ॥ ॥२,३१।२१च्द्।
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ ॥२,३१।२१एफ़्।
सदाशिवाङ्कमारूढा शक्तिरिच्छा शिवाह्वया ॥ ॥२,३१।२२अब्।
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ ॥२,३१।२२च्द्।
शिवयोर्दयिता पुत्रौ देवौ हेरम्बषण्मुखौ ॥ ॥२,३१।२३अब्।
शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥ ॥२,३१।२३च्द्।
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥ ॥२,३१।२४अब्।
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ ॥२,३१।२४च्द्।
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥ ॥२,३१।२५अब्।
स्वेच्छावतारं कुर्वन्तौ स्वांशभेदैरनेकशः ॥ ॥२,३१।२५च्द्।
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥ ॥२,३१।२६अब्।
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ ॥२,३१।२६च्द्।
शुद्धस्फटिकसङ्काशमीशानाख्यं सदाशिवम् ॥ ॥२,३१।२७अब्।
मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ ॥२,३१।२७च्द्।
शिवार्चनरतं शान्तं शान्त्यतीतं मखास्थितम् ॥ ॥२,३१।२८अब्।
पञ्चाक्षरान्तिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ ॥२,३१।२८च्द्।
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥ ॥२,३१।२९अब्।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ॥२,३१।२९च्द्।
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥ ॥२,३१।३०अब्।
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ ॥२,३१।३०च्द्।
शान्त्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥ ॥२,३१।३१अब्।
प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥ ॥२,३१।३१च्द्।
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥ ॥२,३१।३२अब्।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ॥२,३१।३२च्द्।
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥ ॥२,३१।३३अब्।
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ॥२,३१।३३च्द्।
विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥ ॥२,३१।३४अब्।
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ॥२,३१।३४च्द्।
शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥ ॥२,३१।३५अब्।
पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ॥२,३१।३५च्द्।
कुङ्कुमक्षोदसङ्काशं वामाख्यं वरवेषधृक् ॥ ॥२,३१।३६अब्।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ॥२,३१।३६च्द्।
वारिमण्डलमध्यस्थं महादेवार्चने रतम् ॥ ॥२,३१।३७अब्।
तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ॥२,३१।३७च्द्।
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ ॥२,३१।३८अब्।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ॥२,३१।३८च्द्।
शङ्खकुन्देन्दुधवलं सन्ध्याख्यं सौम्यलक्षणम् ॥ ॥२,३१।३९अब्।
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ॥२,३१।३९च्द्।
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ ॥२,३१।४०अब्।
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ॥२,३१।४०च्द्।
५८३अ

देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ ॥२,३१।४१अब्।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ॥२,३१।४१च्द्।
शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ ॥२,३१।४२अब्।
तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ॥२,३१।४२च्द्।
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ ॥२,३१।४३अब्।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ॥२,३१।४३च्द्।
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ ॥२,३१।४४अब्।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ॥२,३१।४४च्द्।
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ ॥२,३१।४५अब्।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ॥२,३१।४५च्द्।
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥ ॥२,३१।४६अब्।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ॥२,३१।४६च्द्।
वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥ ॥२,३१।४७अब्।
बलो विकरणश्चैव बलप्रमथनः परः ॥ ॥२,३१।४७च्द्।
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥ ॥२,३१।४८अब्।
प्रार्थितं मे प्रयच्छन्तु शिवयोरेव शासनात् ॥ ॥२,३१।४८च्द्।
अथानन्तश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥ ॥२,३१।४९अब्।
एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखण्डकः ॥ ॥२,३१।४९च्द्।
तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥ ॥२,३१।५०अब्।
ते मे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ॥२,३१।५०च्द्।
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥ ॥२,३१।५१अब्।
महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ॥२,३१।५१च्द्।
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥ ॥२,३१।५२अब्।
सत्कृत्य शिवयोराज्ञां दिशन्तु फलमीप्सितम् ॥ ॥२,३१।५२च्द्।
वृक्षराजो महातेजा महामेघसमस्वनः ॥ ॥२,३१।५३अब्।
मेरुमन्दरकैलासहिमाद्रिशिखरोपमः ॥ ॥२,३१।५३च्द्।
सिताभ्रशिखराकारः ककुदा परिशोभितः ॥ ॥२,३१।५४अब्।
महाभोगीन्द्रकल्पेन वालेन च विराजितः ॥ ॥२,३१।५४च्द्।
रक्तास्यशृङ्गचरणौ रक्तप्रायविलोचनः ॥ ॥२,३१।५५अब्।
पीवरोन्नतसर्वाङ्गस्सुचारुगमनोज्ज्वलः ॥ ॥२,३१।५५च्द्।
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥ ॥२,३१।५६अब्।
शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥ ॥२,३१।५६च्द्।
तथा तच्चरणन्यासपावितापरविग्रहः ॥ ॥२,३१।५७अब्।
गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥ ॥२,३१।५७च्द्।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ॥२,३१।५७एफ़्।
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥ ॥२,३१।५८अब्।
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वन्दितः ॥ ॥२,३१।५८च्द्।
शर्वस्यान्तःपुरद्वारि सार्धं परिजनैः स्थितः ॥ ॥२,३१।५९अब्।
सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥ ॥२,३१।५९च्द्।
सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥ ॥२,३१।६०अब्।
शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥ ॥२,३१।६०च्द्।
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥ ॥२,३१।६१अब्।
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ ॥२,३१।६१च्द्।
महाकालो महाबाहुर्महादेव इवापरः ॥ ॥२,३१।६२अब्।
५८३ब्

महादेवाश्रितानां १ तु नित्यमेवाभिरक्षतु ॥ ॥२,३१।६२च्द्।
शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥ ॥२,३१।६३अब्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ॥२,३१।६३च्द्।
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥ ॥२,३१।६४अब्।
महामोहात्मतनयो मधुमांसासवप्रियः ॥ ॥२,३१।६४च्द्।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ॥२,३१।६४एफ़्।
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ ॥२,३१।६५अब्।
वाराही चैव माहेन्द्री चामुण्डा चण्डविक्रमा ॥ ॥२,३१।६५च्द्।
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ ॥२,३१।६६अब्।
प्रार्थितं मे प्रयच्छन्तु परमेश्वरशासनात् ॥ ॥२,३१।६६च्द्।
मत्तमातङ्गवदनो गङ्गोमाशङ्करात्मजः ॥ ॥२,३१।६७अब्।
आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ॥२,३१।६७च्द्।
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ ॥२,३१।६८अब्।
शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ॥२,३१।६८च्द्।
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ ॥२,३१।६९अब्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ॥२,३१।६९च्द्।
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ ॥२,३१।७०अब्।
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ॥२,३१।७०च्द्।
गङ्गायाश्च गणाम्बायाः कृत्तिकानां तथैव च ॥ ॥२,३१।७१अब्।
विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ॥२,३१।७१च्द्।
इन्द्रजिच्चन्द्रसेनानीस्तारकासुरजित्तथा ॥ ॥२,३१।७२अब्।
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ॥२,३१।७२च्द्।
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥ ॥२,३१।७३अब्।
कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥ ॥२,३१।७३च्द्।
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥ ॥२,३१।७४अब्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ॥२,३१।७४च्द्।
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥ ॥२,३१।७५अब्।
तयोराज्ञां पुरस्कृत्य सा मे दिशतु काङ्क्षितम् ॥ ॥२,३१।७५च्द्।
त्रैलोक्यवन्दिता साक्षादुल्काकारा गणाम्बिका ॥ ॥२,३१।७६अब्।
जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥ ॥२,३१।७६च्द्।
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥ ॥२,३१।७७अब्।
दक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ॥२,३१।७७च्द्।
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥ ॥२,३१।७८अब्।
अपर्णायाश्च जननी पाटलायास्तथैव च ॥ ॥२,३१।७८च्द्।
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥ ॥२,३१।७९अब्।
सत्कृट्य शिवयोराज्ञां सा मे दिशतु काङ्क्षितम् ॥ ॥२,३१।७९च्द्।
चण्डः सर्वगणेशानः शम्भोर्वदनसम्भवः ॥ ॥२,३१।८०अब्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु काङ्क्षितम् ॥ ॥२,३१।८०च्द्।
पिङ्गलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥ ॥२,३१।८१अब्।
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ॥२,३१।८१च्द्।
भृङ्गीशो नाम गणपः शिवराधनतत्परः ॥ ॥२,३१।८२अब्।

१ सम्बन्धसामान्यविवक्षया कर्मणि पष्ठी

५८४अ

प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥ ॥२,३१।८२च्द्।
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः ॥ ॥२,३१।८३अब्।
भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता ॥ ॥२,३१।८३च्द्।
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥ ॥२,३१।८४अब्।
उपेन्द्रेन्द्रयमादीनां देवानामङ्गतक्षकः ॥ ॥२,३१।८४च्द्।
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥ ॥२,३१।८५अब्।
शिवयोः शासनादेव स मे दिशतु काङ्क्षितम् ॥ ॥२,३१।८५च्द्।
सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥ ॥२,३१।८६अब्।
शिवयोः पूजने सक्ता स मे दिशतु काङ्क्षितम् ॥ ॥२,३१।८६च्द्।
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥ ॥२,३१।८७अब्।
शिवयोः शासनादेव सा मे दिशतु काङ्क्षितम् ॥ ॥२,३१।८७च्द्।
महामोटी महादेव्याः पादपूजापरायणा ॥ ॥२,३१।८८अब्।
तस्या एव नियोगेन सा मे दिशतु काङ्क्षितम् ॥ ॥२,३१।८८च्द्।
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥ ॥२,३१।८९अब्।
विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥ ॥२,३१।८९च्द्।
निशम्भशुम्भसंहत्री मधुमांसासवप्रिया ॥ ॥२,३१।९०अब्।
सत्कृत्य शासनं मातुस्सा मे दिशतु काङ्क्षितम् ॥ ॥२,३१।९०च्द्।
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥ ॥२,३१।९१अब्।
भूताख्याश्च महावीर्या महादेवसमप्रभाः ॥ ॥२,३१।९१च्द्।
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥ ॥२,३१।९२अब्।
सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥ ॥२,३१।९२च्द्।
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥ ॥२,३१।९३अब्।
परस्परानुरक्ताश्च परस्परमनुव्रताः ॥ ॥२,३१।९३च्द्।
परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥ ॥२,३१।९४अब्।
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ॥२,३१।९४च्द्।
सौम्याधारास्तथा मिश्राश्चान्तरालद्वयात्मिकाः ॥ ॥२,३१।९५अब्।
विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥ ॥२,३१।९५च्द्।
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशन्तु वै ॥ ॥२,३१।९६अब्।
देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ॥२,३१।९६च्द्।
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥ ॥२,३१।९७अब्।
तृतीयावरणे शम्भोर्भक्त्या नित्यं समर्चितः ॥ ॥२,३१।९७च्द्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ॥२,३१।९८अब्।
दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमण्डलः ॥ ॥२,३१।९८च्द्।
निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः ॥ ॥२,३१।९९अब्।
अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥ ॥२,३१।९९च्द्।
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ ॥२,३१।१००अब्।
एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः ॥ ॥२,३१।१००च्द्।
चतुर्थावरणे शम्भोः पूजितश्चानुगैः सह ॥ ॥२,३१।१०१अब्।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ॥२,३१।१०१च्द्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ॥२,३१।१०२अब्।
दिवाकरषडङ्गानि दीप्ताद्याश्चाष्टशक्तयः ॥ ॥२,३१।१०२च्द्।
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ॥२,३१।१०३अब्।
अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥ ॥२,३१।१०३च्द्।
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥ ॥२,३१।१०४अब्।
५८४ब्

उषा प्रभा तथा प्राज्ञा सन्ध्या चेत्यपि शक्तयः ॥ ॥२,३१।१०४च्द्।
सोमादिकेतुपर्यन्ता ग्रहाश्च शिवभाविताः ॥ ॥२,३१।१०५अब्।
शिवयोराज्ञयानुन्ना मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।१०५च्द्।
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥ ॥२,३१।१०६अब्।
ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः ॥ ॥२,३१।१०६च्द्।
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥ ॥२,३१।१०७अब्।
सप्तसप्तगणाश्चैते सप्तच्छन्दोमया हयाः ॥ ॥२,३१।१०७च्द्।
वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥ ॥२,३१।१०८अब्।
सत्कृत्यशिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।१०८च्द्।
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥ ॥२,३१।१०९अब्।
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ ॥२,३१।१०९च्द्।
निर्गुणो गुणसङ्कीर्णस्तथैव गुणकेवलः ॥ ॥२,३१।११०अब्।
अविकारात्मको देवस्ततस्साधारणः पुरः ॥ ॥२,३१।११०च्द्।
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥ ॥२,३१।१११अब्।
भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः ॥ ॥२,३१।१११च्द्।
चतुर्थावरणे शम्भो पूजितश्च सहानुगैः ॥ ॥२,३१।११२अब्।
शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥ ॥२,३१।११२च्द्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ॥२,३१।११३अब्।
हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः ॥ ॥२,३१।११३च्द्।
सनत्कुमारः सनकः सनन्दश्च सनातनः ॥ ॥२,३१।११४अब्।
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ॥२,३१।११४च्द्।
एकादश सपत्नीका धर्मस्सङ्कल्प एव च ॥ ॥२,३१।११५अब्।
शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥ ॥२,३१।११५च्द्।
शिवाज्ञावशगास्सर्वे दिशन्तु मम मङ्गलम् ॥ ॥२,३१।११६अब्।
चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥ ॥२,३१।११६च्द्।
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥ ॥२,३१।११७अब्।
परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥ ॥२,३१।११७च्द्।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।११८अब्।
अथ रुद्रो महादेवः शम्भोर्मूर्तिर्गरीयसी ॥ ॥२,३१।११८च्द्।
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥ ॥२,३१।११९अब्।
शिवाभिमानसम्पन्नो निर्गुणस्त्रिगुणात्मकः ॥ ॥२,३१।११९च्द्।
केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥ ॥२,३१।१२०अब्।
अविकाररतः पूर्वं ततस्तु समविक्रियः ॥ ॥२,३१।१२०च्द्।
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ॥२,३१।१२१अब्।
ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ ॥२,३१।१२१च्द्।
जनकस्तनयश्चापि विष्णोरपि नियामकः ॥ ॥२,३१।१२२अब्।
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ ॥२,३१।१२२च्द्।
अण्डस्यान्तर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥ ॥२,३१।१२३अब्।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ॥२,३१।१२३च्द्।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ॥ ॥२,३१।१२४अब्।
तस्य ब्रह्म षडङ्गानि विद्येशान्तं तथाष्टकम् ॥ ॥२,३१।१२४च्द्।
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ॥ ॥२,३१।१२५अब्।
शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥ ॥२,३१।१२५च्द्।
५८५अ

शिवस्याज्ञां पुरस्कृत्य मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।१२५एफ़्।
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥ ॥२,३१।१२६अब्।
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ ॥२,३१।१२६च्द्।
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥ ॥२,३१।१२७अब्।
अविकाराभिमानी च त्रिसाधारणविक्रियः ॥ ॥२,३१।१२७च्द्।
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥ ॥२,३१।१२८अब्।
दक्षिणाङ्गभवेनापि स्पर्धमानः स्वयम्भुवा ॥ ॥२,३१।१२८च्द्।
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥ ॥२,३१।१२९अब्।
अण्डस्यान्तर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥ ॥२,३१।१२९च्द्।
असुरान्तकरश्चक्री शक्रस्यापि तथानुजः ॥ ॥२,३१।१३०अब्।
प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥ ॥२,३१।१३०च्द्।
भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥ ॥२,३१।१३१अब्।
अप्रमेयबलो मायी मायया मोहयञ्जगत् ॥ ॥२,३१।१३१च्द्।
मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥ ॥२,३१।१३२अब्।
वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ ॥२,३१।१३२च्द्।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ॥२,३१।१३३अब्।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ॥ ॥२,३१।१३३च्द्।
वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥ ॥२,३१।१३४अब्।
सङ्कर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥ ॥२,३१।१३४च्द्।
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥ ॥२,३१।१३५अब्।
रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥ ॥२,३१।१३५च्द्।
चक्रं नारायणस्यास्त्रं पाञ्चजन्यं च शार्ङ्गकम् ॥ ॥२,३१।१३६अब्।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।१३६च्द्।
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥ ॥२,३१।१३७अब्।
शिवयोः शासनादेता मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।१३७च्द्।
इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥ ॥२,३१।१३८अब्।
वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥ ॥२,३१।१३८च्द्।
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥ ॥२,३१।१३९अब्।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ ॥२,३१।१३९च्द्।
त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥ ॥२,३१।१४०अब्।
खड्गपाशाङ्कुशाश्चैव पिनाकश्चायुधोत्तमः ॥ ॥२,३१।१४०च्द्।
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥ ॥२,३१।१४१अब्।
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वन्तु मे सदा ॥ ॥२,३१।१४१च्द्।
वृषरूपधरो देवः सौरभेयो महाबलः ॥ ॥२,३१।१४२अब्।
वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः ॥ ॥२,३१।१४२च्द्।
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥ ॥२,३१।१४३अब्।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ॥२,३१।१४३च्द्।
नन्दा सुनन्दा सुरभिः सुशीला सुमनास्तथा ॥ ॥२,३१।१४४अब्।
पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥ ॥२,३१।१४४च्द्।
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥ ॥२,३१।१४५अब्।
शिवयोः शासनादेव दिशन्तु मम वाञ्छितम् ॥ ॥२,३१।१४५च्द्।
क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥ ॥२,३१।१४६अब्।
दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥ ॥२,३१।१४६च्द्।
रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥ ॥२,३१।१४७अब्।
५८५ब्

रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥ ॥२,३१।१४७च्द्।
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥ ॥२,३१।१४८अब्।
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ ॥२,३१।१४८च्द्।
क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥ ॥२,३१।१४९अब्।
शिवप्रणामपरमः शिवसद्भावभावितः ॥ ॥२,३१।१४९च्द्।
शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥ ॥२,३१।१५०अब्।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ ॥२,३१।१५०च्द्।
तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥ ॥२,३१।१५१अब्।
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥ ॥२,३१।१५१च्द्।
भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः ॥ ॥२,३१।१५२अब्।
ते ऽपि मामनुगृह्णन्तु शिवशासनगौरवात् ॥ ॥२,३१।१५२च्द्।
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥ ॥२,३१।१५३अब्।
साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥ ॥२,३१।१५३च्द्।
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥ ॥२,३१।१५४अब्।
सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥ ॥२,३१।१५४च्द्।
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥ ॥२,३१।१५५अब्।
शिवयोराज्ञया मह्यं दिशन्तु मम काङ्क्षितम् १ ॥ ॥२,३१।१५५च्द्।
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥ ॥२,३१।१५६अब्।
सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥ ॥२,३१।१५६च्द्।
असुरा राक्षसाश्चैव पातालतलवासिनः ॥ ॥२,३१।१५७अब्।
अनन्ताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥ ॥२,३१।१५७च्द्।
कूष्माण्डाः प्रेतवेताला ग्रहा भूतगणाः परे ॥ ॥२,३१।१५८अब्।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ ॥२,३१।१५८च्द्।
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥ ॥२,३१।१५९अब्।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ ॥२,३१।१५९च्द्।
गिरयश्च सुमेर्वाद्याः कननानि समन्ततः ॥ ॥२,३१।१६०अब्।
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ ॥२,३१।१६०च्द्।
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥ ॥२,३१।१६१अब्।
अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः ॥ ॥२,३१।१६१च्द्।
वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः ॥ ॥२,३१।१६२अब्।
ब्रह्माण्डधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥ ॥२,३१।१६२च्द्।
यच्च किञ्चिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥ ॥२,३१।१६३अब्।
सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥ ॥२,३१।१६३च्द्।
अथ विद्या परा शैवी पशुपाशविमोचिनी ॥ ॥२,३१।१६४अब्।
पञ्चार्थसञ्ज्ञिता दिव्या पशुविद्याबहिष्कृता ॥ ॥२,३१।१६४च्द्।
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥ ॥२,३१।१६५अब्।
शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसम्मितम् ॥ ॥२,३१।१६५च्द्।
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥ ॥२,३१।१६६अब्।
शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥ ॥२,३१।१६६च्द्।

१ सर्वाभिलाषमित्यर्थः

५८६अ

ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥ ॥२,३१।१६७अब्।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ ॥२,३१।१६७च्द्।
श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः ॥ ॥२,३१।१६८अब्।
तत्सन्ततीया गुरवो विशेषाद्गुरवो मम ॥ ॥२,३१।१६८च्द्।
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥ ॥२,३१।१६९अब्।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ ॥२,३१।१६९च्द्।
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥ ॥२,३१।१७०अब्।
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ ॥२,३१।१७०च्द्।
साङ्ख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥ ॥२,३१।१७१अब्।
सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥ ॥२,३१।१७१च्द्।
शिष्टाः सर्वे विशिष्टा च शिवशासनयन्त्रिताः ॥ ॥२,३१।१७२अब्।
कर्मेदमनुमन्यन्तां ममाभिप्रेतसाधकम् ॥ ॥२,३१।१७२च्द्।
शैवाः सिद्धान्तमार्गस्थाः शैवाः पाशुपतास्तथा ॥ ॥२,३१।१७३अब्।
शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥ ॥२,३१।१७३च्द्।
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥ ॥२,३१।१७४अब्।
सर्वे ममानुगृह्णन्तु शंसन्तु सफलक्रियाम् ॥ ॥२,३१।१७४च्द्।
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥ ॥२,३१।१७५अब्।
अविरोधेन वर्तन्तां मन्त्रश्रेयो ऽर्थिनो मम ॥ ॥२,३१।१७५च्द्।
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥ ॥२,३१।१७६अब्।
पाषण्डाश्चातिपापाश्च वर्तन्तां दूरतो मम ॥ ॥२,३१।१७६च्द्।
बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥ ॥२,३१।१७७अब्।
सर्वे मामनुगृह्णन्तु सन्तः शंसन्तु मङ्गलम् ॥ ॥२,३१।१७७च्द्।
नमश्शिवाय साम्बाय ससुतायादिहेतवे ॥ ॥२,३१।१७८अब्।
पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ ॥२,३१।१७८च्द्।
इत्युक्त्वा दण्डवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥ ॥२,३१।१७९अब्।
जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम् ॥ ॥२,३१।१७९च्द्।
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥ ॥२,३१।१८०अब्।
कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥ ॥२,३१।१८०च्द्।
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयङ्गमम् ॥ ॥२,३१।१८१अब्।
सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥ ॥२,३१।१८१च्द्।
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥ ॥२,३१।१८२अब्।
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ ॥२,३१।१८२च्द्।
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥ ॥२,३१।१८३अब्।
शरणागतघाती च मित्रविश्रम्भघातकः ॥ ॥२,३१।१८३च्द्।
दुष्टपापसमाचारो मातृहा पितृहापि वा ॥ ॥२,३१।१८४अब्।
स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥ ॥२,३१।१८४च्द्।
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥ ॥२,३१।१८५अब्।
यदि सङ्कीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥ ॥२,३१।१८५च्द्।
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥ ॥२,३१।१८६अब्।
स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ ॥२,३१।१८६च्द्।
असम्पूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥ ॥२,३१।१८७अब्।
सम्पूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ ॥२,३१।१८७च्द्।
५८६ब्

आस्तामियं फलावाप्तिरस्मिन्सङ्कीर्तिते सति ॥ ॥२,३१।१८८अब्।
सार्धमम्बिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥ ॥२,३१।१८८च्द्।
तस्मान्नभसि सम्पूज्य देवं देवं सहोमया ॥ ॥२,३१।१८९अब्।
कृताञ्जलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥ ॥२,३१।१८९च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं नामैकत्रिंशो ऽध्यायः