तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ ॥२,३०।१अब्।
गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरम्बषण्मुखौ ॥ ॥२,३०।१च्द्।
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ ॥२,३०।२अब्।
सशक्तिकानि सद्यान्तं प्रथमावरणे यजेत् ॥ ॥२,३०।२च्द्।
षडङ्गान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ ॥२,३०।३अब्।
शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ॥२,३०।३च्द्।
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ ॥२,३०।४अब्।
अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ॥२,३०।४च्द्।
प्रथमावरणं प्रोक्तं मया ते यदुनन्दन ॥ ॥२,३०।५अब्।
द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ॥२,३०।५च्द्।
अनन्तं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ ॥२,३०।६अब्।
सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ॥२,३०।६च्द्।
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ ॥२,३०।७अब्।
तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ॥२,३०।७च्द्।
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ ॥२,३०।८अब्।
त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ॥२,३०।८च्द्।
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ ॥२,३०।९अब्।
तथैव मारुते पत्रे शिखण्डीशं समर्चयेत् ॥ ॥२,३०।९च्द्।
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ ॥२,३०।१०अब्।
तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ॥२,३०।१०च्द्।
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ ॥२,३०।११अब्।
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ॥२,३०।११च्द्।
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ ॥२,३०।१२अब्।
अनन्तरं ततश्चैव महादेवादयः क्रमात् ॥ ॥२,३०।१२च्द्।
शक्तिभिस्सह सम्पूज्यास्तत्रैकादशमूर्तयः ॥ ॥२,३०।१२एफ़्।
५८०अ
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ॥ ॥२,३०।१३अब्।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ ॥२,३०।१३च्द्।
कपर्दीशश्च कथ्यन्ते तथैकादशशक्तयः ॥ ॥२,३०।१४अब्।
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ ॥२,३०।१४च्द्।
देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ॥२,३०।१५अब्।
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ ॥२,३०।१५च्द्।
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ॥२,३०।१६अब्।
नन्दिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ ॥२,३०।१६च्द्।
शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ॥२,३०।१७अब्।
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ॥२,३०।१७च्द्।
ज्येष्ठां वायुदले गौरीमुत्तरे चण्डमैश्वरे ॥ ॥२,३०।१८अब्।
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ ॥२,३०।१८च्द्।
महाकालस्योत्तरतः पिङ्गलं तु समर्चयेत् ॥ ॥२,३०।१९अब्।
शास्तृमातृसमूहस्य मध्ये भृङ्गीश्वरं ततः ॥ ॥२,३०।१९च्द्।
मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ॥२,३०।२०अब्।
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ॥२,३०।२०च्द्।
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ॥२,३०।२१अब्।
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ ॥२,३०।२१च्द्।
गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ॥२,३०।२२अब्।
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ ॥२,३०।२२च्द्।
रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ॥२,३०।२३अब्।
शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ ॥२,३०।२३च्द्।
एवं तृतीयावरणे वितते पूजिते सति ॥ ॥२,३०।२४अब्।
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ ॥२,३०।२४च्द्।
भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ॥२,३०।२५अब्।
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ ॥२,३०।२५च्द्।
चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ॥२,३०।२६अब्।
तस्याङ्गानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ ॥२,३०।२६च्द्।
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ॥२,३०।२७अब्।
अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ ॥२,३०।२७च्द्।
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ॥२,३०।२८अब्।
पूर्वाद्युत्तरपर्यन्ताः शक्तयश्च ततः परम् ॥ ॥२,३०।२८च्द्।
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ॥२,३०।२९अब्।
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ ॥२,३०।२९च्द्।
विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ॥२,३०।३०अब्।
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ ॥२,३०।३०च्द्।
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ॥२,३०।३१अब्।
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ॥२,३०।३१च्द्।
सोममङ्गारकं चैव बुधं बुद्धिमतां वरम् ॥ ॥२,३०।३२अब्।
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ॥२,३०।३२च्द्।
शनैश्चरं तथा राहुं केतुं धूम्रं भयङ्करम् ॥ ॥२,३०।३३अब्।
समन्ततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ॥२,३०।३३च्द्।
अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ॥२,३०।३४अब्।
५८०ब्
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ॥२,३०।३४च्द्।
सप्तसप्त गणांश्चैव बहिस्तस्य समन्ततः ॥ ॥२,३०।३५अब्।
ऋषीन्देवांश्च गन्धर्वान्पन्नगानप्सरोगणान् ॥ ॥२,३०।३५च्द्।
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ॥२,३०।३६अब्।
सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ॥२,३०।३६च्द्।
एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ॥२,३०।३७अब्।
ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ ॥२,३०।३७च्द्।
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ॥२,३०।३८अब्।
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ ॥२,३०।३८च्द्।
हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ॥२,३०।३९अब्।
कालो जात्यञ्जनप्रख्यः पुरुषः स्फटिकोपमः ॥ ॥२,३०।३९च्द्।
त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ॥२,३०।४०अब्।
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ ॥२,३०।४०च्द्।
द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ॥२,३०।४१अब्।
सनत्कुमारः सनकः सनन्दश्च सनातनः ॥ ॥२,३०।४१च्द्।
तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ॥२,३०।४२अब्।
अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ ॥२,३०।४२च्द्।
दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथाङ्गिराः ॥ ॥२,३०।४३अब्।
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ ॥२,३०।४३च्द्।
वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ॥२,३०।४४अब्।
तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ ॥२,३०।४४च्द्।
प्रसूतिश्च तथा ऽ ऽकूतिः ख्यातिः सम्भूतिरेव च ॥ ॥२,३०।४५अब्।
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ ॥२,३०।४५च्द्।
देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ॥२,३०।४६अब्।
शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ ॥२,३०।४६च्द्।
प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ॥२,३०।४७अब्।
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ ॥२,३०।४७च्द्।
तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ॥२,३०।४८अब्।
वैदिक्यो निखिला विद्याः पूज्या एव समन्ततः ॥ ॥२,३०।४८च्द्।
पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ॥२,३०।४९अब्।
अष्टधा वा चतुर्धा वा कृत्वा पूजां समन्ततः ॥ ॥२,३०।४९च्द्।
एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ॥२,३०।५०अब्।
दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ ॥२,३०।५०च्द्।
तस्य ब्रह्मषडङ्गानि प्रथमावरणं स्मृतम् ॥ ॥२,३०।५१अब्।
द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ ॥२,३०।५१च्द्।
तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ॥२,३०।५२अब्।
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ॥२,३०।५२च्द्।
त्रिगुणास्सकलो देवः पुरस्ताच्छिवसञ्ज्ञकः ॥ ॥२,३०।५३अब्।
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ॥२,३०।५३च्द्।
तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ॥२,३०।५४अब्।
सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ॥२,३०।५४च्द्।
एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ॥२,३०।५५अब्।
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुण्ठमर्चयेत् ॥ ॥२,३०।५५च्द्।
वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ॥२,३०।५६अब्।
५८१अ
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ ॥२,३०।५६च्द्।
सौम्ये सङ्कर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ॥२,३०।५७अब्।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ ॥२,३०।५७च्द्।
मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ॥२,३०।५८अब्।
रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ ॥२,३०।५८च्द्।
तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ॥२,३०।५९अब्।
नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ ॥२,३०।५९च्द्।
पश्चिमे पाञ्चजन्यं च शार्ङ्गन्धनुरथोत्तरे ॥ ॥२,३०।६०अब्।
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ ॥२,३०।६०च्द्।
महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ॥२,३०।६१अब्।
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ ॥२,३०।६१च्द्।
पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ॥२,३०।६१एफ़्।
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ ॥२,३०।६२अब्।
गणाम्बिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ॥२,३०।६२च्द्।
एवं भान्वादिमूर्तीनां तच्छक्तीनामनन्तरम् ॥ ॥२,३०।६३अब्।
पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ॥२,३०।६३च्द्।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ ॥२,३०।६४अब्।
वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ॥२,३०।६४च्द्।
एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ ॥२,३०।६५अब्।
आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ॥२,३०।६५च्द्।
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ ॥२,३०।६६अब्।
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ॥२,३०।६६च्द्।
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ ॥२,३०।६७अब्।
अङ्कुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ॥२,३०।६७च्द्।
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ ॥२,३०।६८अब्।
पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ॥२,३०।६८च्द्।
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ ॥२,३०।६९अब्।
पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ॥२,३०।६९च्द्।
ततः समन्ततः पूज्यास्सर्वा वै देवयोनयः ॥ ॥२,३०।७०अब्।
खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ॥२,३०।७०च्द्।
अनन्ताद्याश्च नागेन्द्रा नागैस्तत्तत्कुलोद्भवैः ॥ ॥२,३०।७१अब्।
डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ॥२,३०।७१च्द्।
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ ॥२,३०।७२अब्।
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ॥२,३०।७२च्द्।
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ ॥२,३०।७३अब्।
नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ॥२,३०।७३च्द्।
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ ॥२,३०।७४अब्।
बहिरण्डान्यसङ्ख्यानि भुवनानि सहाधिपैः ॥ ॥२,३०।७४च्द्।
ब्रह्माण्डाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ ॥२,३०।७५अब्।
यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ॥२,३०।७५च्द्।
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ ॥२,३०।७६अब्।
तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ॥२,३०।७६च्द्।
कृताञ्जलिपुटाः सर्वे ऽचिन्त्याः स्मितमुखास्तथा ॥ ॥२,३०।७७अब्।
५८१ब्
प्रीत्या सम्प्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ॥२,३०।७७च्द्।
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशान्तये ॥ ॥२,३०।७८अब्।
पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ॥२,३०।७८च्द्।
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ ॥२,३०।७९अब्।
सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ॥२,३०।७९च्द्।
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ ॥२,३०।८०अब्।
साधयित्वा यथासम्पच्छ्रद्धया विनिवेदयेत् ॥ ॥२,३०।८०च्द्।
ततो निवेद्य पानीयं ताम्बूलं चोपदंशकैः ॥ ॥२,३०।८१अब्।
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ॥२,३०।८१च्द्।
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ ॥२,३०।८२अब्।
वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ॥२,३०।८२च्द्।
शठस्योपेक्षकस्यापि व्यङ्ग्यं चैवानुतिष्ठतः ॥ ॥२,३०।८३अब्।
न फलन्त्येव कर्माणि काम्यानीति सतां कथा ॥ ॥२,३०।८३च्द्।
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वाङ्गयोगतः ॥ ॥२,३०।८४अब्।
कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ॥२,३०।८४च्द्।
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ ॥२,३०।८५अब्।
भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ॥२,३०।८५च्द्।
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ ॥२,३०।८६अब्।
जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ॥२,३०।८६च्द्।
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ ॥२,३०।८७अब्।
यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ॥२,३०।८७च्द्।
ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ ॥२,३०।८८अब्।
मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ॥२,३०।८८च्द्।
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ ॥२,३०।८९अब्।
अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ॥२,३०।८९च्द्।
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ ॥२,३०।९०अब्।
समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ॥२,३०।९०च्द्।
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ॥२,३०।९१अब्।
न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ॥२,३०।९१च्द्।
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ॥२,३०।९२अब्।
ऐहिकं वा फलं किञ्चिदामुष्मिकफलं तु वा ॥ ॥२,३०।९२च्द्।
इदमस्य फलं नेदमिति नैव नियम्यते ॥ ॥२,३०।९३अब्।
श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ॥२,३०।९३च्द्।
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ ॥२,३०।९४अब्।
चिन्तामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ॥२,३०।९४च्द्।
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ ॥२,३०।९५अब्।
लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ॥२,३०।९५च्द्।
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ ॥२,३०।९६अब्।
महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ॥२,३०।९६च्द्।
तस्मादनन्यलभ्येषु शत्रुमृत्युञ्जयादिषु ॥ ॥२,३०।९७अब्।
फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ॥२,३०।९७च्द्।
महत्स्वपि च पातेषु महारागभयादिषु ॥ ॥२,३०।९८अब्।
दुर्भिक्षादिषु शान्त्यर्थं शान्तिं कुर्यादनेन तु ॥ ॥२,३०।९८च्द्।
बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ ॥२,३०।९९अब्।
आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ॥२,३०।९९च्द्।
५८२अ
तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ ॥२,३०।१००अब्।
इति मत्वा प्रयुञ्जानः कर्मेदं शुभमश्नुते ॥ ॥२,३०।१००च्द्।
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ ॥२,३०।१०१अब्।
सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ॥२,३०।१०१च्द्।
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ ॥२,३०।१०२अब्।
अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ॥२,३०।१०२च्द्।
यस्त्वर्थमनुसन्धाय पर्वादिषु तथा व्रती ॥ ॥२,३०।१०३अब्।
मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ॥२,३०।१०३च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशो ऽध्यायः