२९ काम्यकर्मवर्णनम्

श्रीकृष्ण उवाच
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ ॥२,२९।१अब्।
स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ॥२,२९।१च्द्।
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ ॥२,२९।२अब्।
काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ॥२,२९।२च्द्।
उपमन्युरुवाच
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ॥२,२९।३अब्।
ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ॥२,२९।३च्द्।
किञ्चित्क्रियामयं कर्म किञ्चित्कर्म तपो मयम् ॥ ॥२,२९।४अब्।
जपध्यानमयं किञ्चित्किञ्चित्सर्वमयं तथा ॥ ॥२,२९।५अब्।
क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ॥२,२९।५च्द्।
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ ॥२,२९।६अब्।
शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ॥२,२९।६च्द्।
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ ॥२,२९।७अब्।
अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ॥२,२९।७च्द्।
शैवैर्माहेश्वरैश्चैव कार्यमन्तर्बहिः क्रमात् ॥ ॥२,२९।८अब्।
शिवो महेश्वरश्चेति नात्यन्तमिह भिद्यते ॥ ॥२,२९।८च्द्।
यथा तथा न भिद्यन्ते शैवा माहेश्वरा अपि ॥ ॥२,२९।९अब्।
शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ॥२,२९।९च्द्।
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ ॥२,२९।१०अब्।
५७९अ

तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ॥२,२९।१०च्द्।
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ ॥२,२९।११अब्।
परीक्ष्य भूमिं विधिवद्गन्धवर्णरसादिभिः ॥ ॥२,२९।११च्द्।
मनोभिलषिते तत्र वितानवितताम्बरे ॥ ॥२,२९।१२अब्।
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ॥ ॥२,२९।१२च्द्।
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ ॥२,२९।१३अब्।
एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ॥२,२९।१३च्द्।
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ ॥२,२९।१४अब्।
रत्नहेमादिभिश्चूर्णैर्यथासम्भवसम्भृतैः ॥ ॥२,२९।१४च्द्।
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ ॥२,२९।१५अब्।
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ॥२,२९।१५च्द्।
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ ॥२,२९।१६अब्।
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ॥२,२९।१६च्द्।
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ ॥२,२९।१७अब्।
कर्णिकोपरि चाग्नेयं मण्डलं सौरमैन्दवम् ॥ ॥२,२९।१७च्द्।
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ ॥२,२९।१८अब्।
सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ॥२,२९।१८च्द्।
पञ्चावरणसंयुक्तं पूजयेदम्बया सह ॥ ॥२,२९।१९अब्।
शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ॥ ॥२,२९।१९च्द्।
विद्युद्वलयसङ्काशजटामुकुटभूषितम् ॥ ॥२,२९।२०अब्।
शार्दूलचर्मवसनं किञ्चित्स्मितमुखाम्बुजम् ॥ ॥२,२९।२०च्द्।
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ ॥२,२९।२१अब्।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥ ॥२,२९।२१च्द्।
दिव्यायुधवरैर्युक्तं दिव्यगन्धानुलेपनम् ॥ ॥२,२९।२२अब्।
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ॥२,२९।२२च्द्।
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ ॥२,२९।२३अब्।
त्रिलोचनारविन्दाढ्यं कृतबालेन्दुशेखरम् ॥ ॥२,२९।२३च्द्।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ॥२,२९।२४अब्।
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ॥२,२९।२४च्द्।
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ ॥२,२९।२५अब्।
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ॥२,२९।२५च्द्।
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ ॥२,२९।२६अब्।
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ॥२,२९।२६च्द्।
चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥ ॥२,२९।२७अब्।
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ॥ ॥२,२९।२७च्द्।
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ ॥२,२९।२८अब्।
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ॥२,२९।२८च्द्।
सव्ये च नागनाराचघण्टापाशाङ्कुशोज्ज्वलम् ॥ ॥२,२९।२९अब्।
निवृत्त्याजानुसम्बद्धमानाभेश्च प्रतिष्ठया ॥ ॥२,२९।२९च्द्।
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ॥ ॥२,२९।३०अब्।
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ॥२,२९।३०च्द्।
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ॥२,२९।३१अब्।
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ॥२,२९।३१च्द्।
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ ॥२,२९।३२अब्।
५७९ब्

सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ॥२,२९।३२च्द्।
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ॥२,२९।३३अब्।
ओङ्काराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ॥२,२९।३३च्द्।
तथेच्छात्मिकया शक्त्या समारूढाङ्कमण्डलम् ॥ ॥२,२९।३४अब्।
ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ॥२,२९।३४च्द्।
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ ॥२,२९।३५अब्।
मूर्तिमूलेन सङ्कल्प्य सकलीकृत्य च क्रमात् ॥ ॥२,२९।३५च्द्।
सम्पूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ ॥२,२९।३६अब्।
मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ॥२,२९।३६च्द्।
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ ॥२,२९।३७अब्।
पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ॥२,२९।३७च्द्।
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ ॥२,२९।३८अब्।
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ॥२,२९।३८च्द्।
शान्तेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ ॥२,२९।३९अब्।
पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ॥२,२९।३९च्द्।
पाद्यादिमुखवासान्तं कृत्वा प्रस्थापनं विना ॥ ॥२,२९।४०अब्।
पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ॥२,२९।४०च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमो ऽध्यायः