२८ नित्यनैमित्तिकविधिवर्णनम्

उपमन्युरुवाच
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ ॥२,२८।१अब्।
शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ॥२,२८।१च्द्।
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ ॥२,२८।२अब्।
५७८अ

अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ॥२,२८।२च्द्।
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ ॥२,२८।३अब्।
कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ॥२,२८।३च्द्।
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ ॥२,२८।४अब्।
स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ॥२,२८।४च्द्।
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ ॥२,२८।५अब्।
निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ॥२,२८।५च्द्।
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ ॥२,२८।६अब्।
माघे मघाख्ये नक्षत्रे प्रदद्याद् घृतकम्बलम् ॥ ॥२,२८।६च्द्।
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ ॥२,२८।७अब्।
चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ॥२,२८।७च्द्।
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ॥२,२८।८अब्।
ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ॥२,२८।८च्द्।
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ ॥२,२८।९अब्।
श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ॥२,२८।९च्द्।
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ ॥२,२८।१०अब्।
प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ॥२,२८।१०च्द्।
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ ॥२,२८।११अब्।
अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ॥२,२८।११च्द्।
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ ॥२,२८।१२अब्।
मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ॥२,२८।१२च्द्।
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ ॥२,२८।१३अब्।
आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ॥२,२८।१३च्द्।
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ ॥२,२८।१४अब्।
दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ॥२,२८।१४च्द्।
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ ॥२,२८।१५अब्।
स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ॥२,२८।१५च्द्।
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ ॥२,२८।१६अब्।
शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ॥२,२८।१६च्द्।
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ ॥२,२८।१७अब्।
तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ॥२,२८।१७च्द्।
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ ॥२,२८।१८अब्।
दिव्यं श्रीकण्ठनाथस्य स्थानमाद्यं स गच्छति ॥ ॥२,२८।१८च्द्।
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ ॥२,२८।१९अब्।
कालान्तरेच्युतस्तस्मादौमं कौमारमेव च ॥ ॥२,२८।१९च्द्।
सम्प्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ ॥२,२८।२०अब्।
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ॥२,२८।२०च्द्।
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ ॥२,२८।२१अब्।
श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ॥२,२८।२१च्द्।
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ ॥२,२८।२२अब्।
पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ॥२,२८।२२च्द्।
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ ॥२,२८।२३अब्।
अण्डान्तं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ॥२,२८।२३च्द्।
सम्प्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ ॥२,२८।२४अब्।
५७८ब्

अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ॥२,२८।२४च्द्।
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ ॥२,२८।२५अब्।
तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ॥२,२८।२५च्द्।
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ ॥२,२८।२६अब्।
तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ॥२,२८।२६च्द्।
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ ॥२,२८।२७अब्।
तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ॥२,२८।२७च्द्।
अण्डस्यान्तर्बहिर्वाथ सकृदावर्तते पुनः ॥ ॥२,२८।२८अब्।
ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ॥२,२८।२८च्द्।
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ ॥२,२८।२९अब्।
यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ॥२,२८।२९च्द्।
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ ॥२,२८।३०अब्।
एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ॥२,२८।३०च्द्।
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ ॥२,२८।३१अब्।
तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ॥२,२८।३१च्द्।
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ ॥२,२८।३२अब्।
नात्र निर्बन्धयिष्यामो वयं केचन केनचित् ॥ ॥२,२८।३२च्द्।
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ ॥२,२८।३३अब्।
रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ॥२,२८।३३च्द्।
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ ॥२,२८।३४अब्।
प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ॥२,२८।३४च्द्।
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ॥२,२८।३५अब्।

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः