२७ अग्निकार्यवर्णनम्

उपमन्युरुवाच
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिले ऽपि वा ॥ ॥२,२७।१अब्।
वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ ॥२,२७।१च्द्।
आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ ॥२,२७।२अब्।
तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ ॥२,२७।२च्द्।
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ ॥२,२७।३अब्।
वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ॥२,२७।३च्द्।
कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ ॥२,२७।४अब्।
चतुरङ्गुलमुत्सेधं तस्य द्व्यङ्गुलमेव वा ॥ ॥२,२७।४च्द्।
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ ॥२,२७।५अब्।
मध्यं च मध्यमाङ्गुल्या मध्यमोत्तमपर्वणोः ॥ ॥२,२७।५च्द्।
अङ्गुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ ॥२,२७।६अब्।
मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ॥२,२७।६च्द्।
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ ॥२,२७।७अब्।
अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ ॥२,२७।७च्द्।
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ ॥२,२७।८अब्।
शोभनामग्नितः किञ्चिन्निम्नामुन्मीलिकां शनैः ॥ ॥२,२७।८च्द्।
अग्रेण कुण्डाभिमुखीं किञ्चिदुत्सृज्य मेखलाम् ॥ ॥२,२७।९अब्।
नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ॥२,२७।९च्द्।
मण्डलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ ॥२,२७।१०अब्।
कुण्डं च मृन्मयं वेदिमालिपेद्गोमयाम्बुना ॥ ॥२,२७।१०च्द्।
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदम्भसा ॥ ॥२,२७।११अब्।
स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ ॥२,२७।११च्द्।
सम्प्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ ॥२,२७।१२अब्।
अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ ॥२,२७।१२च्द्।
प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ ॥२,२७।१३अब्।
मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ ॥२,२७।१३च्द्।

१ अदन्तत्वमार्षम्

५७६ब्

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ ॥२,२७।१४अब्।
त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ ॥२,२७।१४च्द्।
वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ ॥२,२७।१५अब्।
योनिमार्गेण वा तद्वदात्मनः सम्मुखेन वा ॥ ॥२,२७।१५च्द्।
नियोगः प्रदेश सर्वं कुण्डं कुर्याद्विचक्षणः ॥ ॥२,२७।१६अब्।
स्वनाभ्यन्तःस्थितं वह्निं तद्रन्ध्राद्विस्फुलिङ्गवद् ॥ ॥२,२७।१६च्द्।
निर्गम्य पावके बह्ये लीनं बिम्बाकृति स्मरेत् ॥ ॥२,२७।१७अब्।
आज्यसंस्कारपर्यन्तमन्वाधानपुरस्सरम् ॥ ॥२,२७।१७च्द्।
स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ ॥२,२७।१८अब्।
शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ ॥२,२७।१८च्द्।
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसञ्ज्ञिताम् ॥ ॥२,२७।१९अब्।
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ ॥२,२७।१९च्द्।
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ ॥२,२७।२०अब्।
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ ॥२,२७।२०च्द्।
संसृज्य दर्भैस्तौ वह्नौ सन्ताप्य प्रोक्षयेत्पुनः ॥ ॥२,२७।२१अब्।
पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ ॥२,२७।२१च्द्।
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ ॥२,२७।२२अब्।
भ्रुंस्तुम्ब्रुश्रुं क्रमेणैव पुण्ड्रन्द्रमित्यतः परम् ॥ ॥२,२७।२२च्द्।
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ ॥२,२७।२३अब्।
त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ ॥२,२७।२३च्द्।
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ ॥२,२७।२४अब्।
अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ ॥२,२७।२४च्द्।
स्वबिजानन्तरं वाच्या स्वाहान्तञ्च यथाक्रमम् ॥ ॥२,२७।२५अब्।
जिह्वामन्त्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ ॥२,२७।२५च्द्।
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ ॥२,२७।२६अब्।
सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ ॥२,२७।२६च्द्।
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ ॥२,२७।२७अब्।
तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ ॥२,२७।२७च्द्।
दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥ ॥२,२७।२७एफ़्।
ताः पालाश्यः परा वापि याज्ञिया द्वादशाङ्गुलाः ॥ ॥२,२७।२८अब्।
अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ ॥२,२७।२८च्द्।
दशाङ्गुला वा विहिताः कनिष्ठाङ्गुलिसम्मिताः ॥ ॥२,२७।२९अब्।
प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ॥२,२७।२९च्द्।
दूर्वापत्रसमाकारां चतुरङ्गुलमायताम् ॥ ॥२,२७।३०अब्।
दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ॥२,२७।३०च्द्।
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ ॥२,२७।३१अब्।
सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ॥२,२७।३१च्द्।
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ ॥२,२७।३२अब्।
होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ॥२,२७।३२च्द्।
श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ ॥२,२७।३३अब्।
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ॥२,२७।३३च्द्।
द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ ॥२,२७।३४अब्।
प्रायश्चित्ताय जुहुयान्मन्त्रयित्वाहुतित्रयम् ॥ ॥२,२७।३४च्द्।
५७७अ

ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ ॥२,२७।३५अब्।
निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ ॥२,२७।३५च्द्।
सदर्भेन समाच्छाद्य मूलेनाञ्जलिनोत्थितः ॥ ॥२,२७।३६अब्।
वौषडन्तेन जुहुयाद्धारां तु यवसम्मिताम् ॥ ॥२,२७।३६च्द्।
इत्थं पूर्णाहुतिं कृत्वा परिषिञ्चेच्च पूर्ववत् ॥ ॥२,२७।३७अब्।
तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ॥२,२७।३७च्द्।
तमप्युद्वास्य वा नाभौ यजेत्सन्धाय नित्यशः ॥ ॥२,२७।३८अब्।
अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ॥२,२७।३८च्द्।
वागीशीगर्भसम्भूतं संस्कृत्य विधिवद्यजेत् ॥ ॥२,२७।३९अब्।
अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ॥२,२७।३९च्द्।
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ ॥२,२७।४०अब्।
संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदम्भसा ॥ ॥२,२७।४०च्द्।
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ ॥२,२७।४१अब्।
आज्यसंस्कारपर्यन्तं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ॥२,२७।४१च्द्।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ ॥२,२७।४२अब्।
कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ॥२,२७।४२च्द्।
त्रिपादं सप्तहस्तं च चतुःशृङ्गं द्विशीर्षकम् ॥ ॥२,२७।४३अब्।
मधुपिङ्गं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ॥२,२७।४३च्द्।
रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम् ॥ ॥२,२७।४४अब्।
सर्वलक्षणसम्पन्नं सोपवीतं त्रिमेखलम् ॥ ॥२,२७।४४च्द्।
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ ॥२,२७।४५अब्।
तोमरं तालवृन्तं च घृतपात्रं तथेतरैः ॥ ॥२,२७।४५च्द्।
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ ॥२,२७।४६अब्।
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ॥२,२७।४६च्द्।
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ ॥२,२७।४७अब्।
पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ॥२,२७।४७च्द्।
अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ ॥२,२७।४८अब्।
आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ॥२,२७।४८च्द्।
रमित्यनेन बीजेन परिषिञ्चेत्ततः परम् ॥ ॥२,२७।४९अब्।
ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ॥२,२७।४९च्द्।
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ ॥२,२७।५०अब्।
धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ॥२,२७।५०च्द्।
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ ॥२,२७।५१अब्।
कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ॥२,२७।५१च्द्।
सम्पूज्य देवं देवीं च ततः पूर्णान्तमाचरेत् ॥ ॥२,२७।५२अब्।
अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ॥२,२७।५२च्द्।
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ ॥२,२७।५३अब्।
शिवाग्नेर्भस्मसङ्ग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ॥२,२७।५३च्द्।
वैवाहोग्निभवं वापि पक्वं शुचि सुगन्धि च ॥ ॥२,२७।५४अब्।
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ॥२,२७।५४च्द्।
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ ॥२,२७।५५अब्।
उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ॥२,२७।५५च्द्।
पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रतः ॥ ॥२,२७।५६अब्।
५७७ब्

अपक्वमतिपाक्वं च सन्त्यज्य भसितं सितम् ॥ ॥२,२७।५६च्द्।
आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ ॥२,२७।५७अब्।
तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ ॥२,२७।५७च्द्।
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ ॥२,२७।५८अब्।
समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ ॥२,२७।५८च्द्।
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ ॥२,२७।५९अब्।
न संस्पृशेच्च नीचाङ्गैर्नोपेक्षेत न लङ्घयेत् ॥ ॥२,२७।५९च्द्।
तस्माद्भसितमादाय विनियुञ्जीत मन्त्रतः ॥ ॥२,२७।६०अब्।
कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ॥२,२७।६०च्द्।
भस्मसङ्ग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ ॥२,२७।६१अब्।
उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ॥२,२७।६१च्द्।
अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ॥२,२७।६२अब्।
स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ॥२,२७।६२च्द्।
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्दले ॥ ॥२,२७।६३अब्।
विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ॥२,२७।६३च्द्।
विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ ॥२,२७।६४अब्।
तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ॥२,२७।६४च्द्।
ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ॥२,२७।६५अब्।
ततस्स्वयं च भुञ्जीत शुद्धमन्नं यथासुखम् ॥ ॥२,२७।६५च्द्।
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ ॥२,२७।६६अब्।
श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ॥२,२७।६६च्द्।
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ ॥२,२७।६७अब्।
न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ॥२,२७।६७च्द्।
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ ॥२,२७।६८अब्।
कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ॥२,२७।६८च्द्।
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ ॥२,२७।६९अब्।
शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ॥२,२७।६९च्द्।
भक्ष्यभोज्याम्बरालेपपुष्पमालादिकं तथा ॥ ॥२,२७।७०अब्।
मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ॥२,२७।७०च्द्।
ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ ॥२,२७।७१अब्।
गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥ ॥२,२७।७१च्द्।
प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ ॥२,२७।७२अब्।
प्रणम्य मनसां देवं साम्बं सगणमव्ययम् ॥ ॥२,२७।७२च्द्।
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ ॥२,२७।७३अब्।
शङ्खादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ॥२,२७।७३च्द्।
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगन्धिभिः ॥ ॥२,२७।७४अब्।
निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ॥२,२७।७४च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशो ऽध्यायः