उपमन्युरुवाच
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ ॥२,२६।१अब्।
मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ ॥२,२६।१च्द्।
सम्पूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ ॥२,२६।२अब्।
तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ ॥२,२६।२च्द्।
तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ ॥२,२६।३अब्।
भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेन्द्रियः ॥ ॥२,२६।३च्द्।
कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ॥ ॥२,२६।४अब्।
पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ॥२,२६।४च्द्।
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ ॥२,२६।५अब्।
तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ॥२,२६।५च्द्।
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ ॥२,२६।६अब्।
सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ॥२,२६।६च्द्।
तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ ॥२,२६।७अब्।
शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ॥२,२६।७च्द्।
बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ ॥२,२६।८अब्।
पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ॥२,२६।८च्द्।
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ ॥२,२६।९अब्।
यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ॥२,२६।९च्द्।
५७५ब्
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ ॥२,२६।१०अब्।
शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ ॥२,२६।१०च्द्।
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ ॥२,२६।११अब्।
स ब्रह्माङ्गेन वा तेन सहंसेन विमुच्यते ॥ ॥२,२६।११च्द्।
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ ॥२,२६।१२अब्।
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ ॥२,२६।१२च्द्।
ये ऽर्चयन्ति महादेवं विज्ञेयास्ते महेश्वराः ॥ ॥२,२६।१३अब्।
ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ ॥२,२६।१३च्द्।
स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ ॥२,२६।१४अब्।
दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ ॥२,२६।१४च्द्।
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ ॥२,२६।१५अब्।
दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ ॥२,२६।१५च्द्।
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ ॥२,२६।१६अब्।
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ ॥२,२६।१६च्द्।
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ ॥२,२६।१७अब्।
भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ ॥२,२६।१७च्द्।
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ॥ ॥२,२६।१८अब्।
ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ ॥२,२६।१८च्द्।
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ ॥२,२६।१९अब्।
सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ ॥२,२६।१९च्द्।
शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ ॥२,२६।२०अब्।
तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ ॥२,२६।२०च्द्।
शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ ॥२,२६।२१अब्।
त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ ॥२,२६।२१च्द्।
त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ ॥२,२६।२२अब्।
यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ ॥२,२६।२२च्द्।
यावन्नेन्द्रियवैकल्यं तावत्पूजय शङ्करम् ॥ ॥२,२६।२३अब्।
न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ ॥२,२६।२३च्द्।
इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ ॥२,२६।२४अब्।
द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ ॥२,२६।२४च्द्।
नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ ॥२,२६।२५अब्।
हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा ॥ ॥२,२६।२५च्द्।
प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ ॥२,२६।२६अब्।
निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ ॥२,२६।२६च्द्।
पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ ॥२,२६।२७अब्।
ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ ॥२,२६।२७च्द्।
ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ ॥२,२६।२८अब्।
तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ ॥२,२६।२८च्द्।
हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ ॥२,२६।२९अब्।
कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ ॥२,२६।२९च्द्।
नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ ॥२,२६।३०अब्।
५७६अ
विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ॥२,२६।३०च्द्।
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ ॥२,२६।३१अब्।
शिवस्यारोप्यः तत्पात्रं द्विजस्यालङ्कृतस्य च ॥ ॥२,२६।३१च्द्।
न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ ॥२,२६।३२अब्।
प्रासादपरिवारेभ्यो बहिर्मङ्गलनिःस्वनैः ॥ ॥२,२६।३२च्द्।
नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ ॥२,२६।३३अब्।
प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ॥२,२६।३३च्द्।
महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ ॥२,२६।३४अब्।
पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ ॥२,२६।३४च्द्।
आदायाभ्यन्तरं नीत्वा ह्यस्त्रमुद्वासयेत् ततः ॥ ॥२,२६।३४एफ़्।
प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ ॥२,२६।३५अब्।
आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ॥२,२६।३५च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे साङ्गोपाङ्गपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः