उपमन्युरुवाच
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ ॥२,२५।१अब्।
यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ ॥२,२५।१च्द्।
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ ॥२,२५।२अब्।
कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ ॥२,२५।२च्द्।
तत्रेशानादिसद्यान्तं रुद्राद्यस्त्रान्तमेव च ॥ ॥२,२५।३अब्।
शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ ॥२,२५।३च्द्।
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ ॥२,२५।४अब्।
पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ॥२,२५।४च्द्।
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ ॥२,२५।५अब्।
गर्भावरणमाख्यातं मन्त्रसङ्घातमेव वा ॥ ॥२,२५।५च्द्।
हृदयाद्यस्त्रपर्यन्तमथवापि समर्चयेत् ॥ ॥२,२५।६अब्।
तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ॥२,२५।६च्द्।
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ ॥२,२५।७अब्।
ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ॥२,२५।७च्द्।
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ ॥२,२५।८अब्।
बहिःपद्मस्य वज्राद्यान्यब्जान्तान्यायुधान्यपि ॥ ॥२,२५।८च्द्।
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ ॥२,२५।९अब्।
देवं देवीं च सम्प्रेक्ष्य सर्वावरणदेवताः ॥ ॥२,२५।९च्द्।
बद्धाञ्जलिपुटा ध्येयाः समासीना यथासुखम् ॥ ॥२,२५।१०अब्।
सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ ॥२,२५।१०च्द्।
पुष्पैः सम्पूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ ॥२,२५।११अब्।
गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ॥२,२५।११च्द्।
योगे ध्याने जपे होमे वाह्ये वाभ्यन्तरे ऽपि वा ॥ ॥२,२५।१२अब्।
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ ॥२,२५।१२च्द्।
पायसं दधिसम्मिश्रं गौडं च मधुनाप्लुतम् ॥ ॥२,२५।१३अब्।
५७४अ
एतेष्वेकमनेकं वा नानाव्यञ्जनसंयुतम् ॥ ॥२,२५।१३च्द्।
गुडखण्डन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ ॥२,२५।१४अब्।
भक्ष्याण्यपूपमुख्यानि स्वादुमन्ति फलानि च ॥ ॥२,२५।१४च्द्।
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ ॥२,२५।१५अब्।
मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ ॥२,२५।१५च्द्।
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ ॥२,२५।१६अब्।
गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ ॥२,२५।१६च्द्।
शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ॥२,२५।१६एफ़्।
कर्पूरं चाथ कङ्कोलं जात्यादि च नवं शुभम् ॥ ॥२,२५।१७अब्।
आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ ॥२,२५।१७च्द्।
कस्तूरिका कुङ्कुमं च रसो मृगमदात्मकः ॥ ॥२,२५।१८अब्।
पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ ॥२,२५।१८च्द्।
निर्गन्धान्युग्रगन्धानि दूषितान्युषितानि च ॥ ॥२,२५।१९अब्।
स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ ॥२,२५।१९च्द्।
वासांसि च मृदून्येव तपनीयमयानि च ॥ ॥२,२५।२०अब्।
विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ ॥२,२५।२०च्द्।
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ ॥२,२५।२१अब्।
आधूपितानि पुष्पौघैर्वासितानि समन्ततः ॥ ॥२,२५।२१च्द्।
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ ॥२,२५।२२अब्।
घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ ॥२,२५।२२च्द्।
कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ ॥२,२५।२३अब्।
नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ ॥२,२५।२३च्द्।
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ ॥२,२५।२४अब्।
कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ ॥२,२५।२४च्द्।
आसनानि च भद्राणि गजदन्तमयानि च ॥ ॥२,२५।२५अब्।
सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ ॥२,२५।२५च्द्।
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ ॥२,२५।२६अब्।
उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ॥२,२५।२६च्द्।
नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ ॥२,२५।२७अब्।
शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ ॥२,२५।२७च्द्।
छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ ॥२,२५।२८अब्।
नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ ॥२,२५।२८च्द्।
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ ॥२,२५।२९अब्।
राजहंसद्वयाकारे रत्नदण्डोपशोभिते ॥ ॥२,२५।२९च्द्।
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ ॥२,२५।३०अब्।
समन्ताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ ॥२,२५।३०च्द्।
गम्भीरनिनदः शङ्खो हंसकुन्देन्दुसन्निभः ॥ ॥२,२५।३१अब्।
आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ॥२,२५।३१च्द्।
काहलानि च रम्याणि नानानादकराणि च ॥ ॥२,२५।३२अब्।
सुवर्णनिर्मितान्येव मौक्तिकालङ्कृतानि च ॥ ॥२,२५।३२च्द्।
भेरीमृदङ्गमुरजतिमिच्छपटहादयः ॥ ॥२,२५।३३अब्।
समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ॥२,२५।३३च्द्।
भाण्डान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ ॥२,२५।३४अब्।
५७४ब्
तदाधाराणि १ सर्वाणि सौवर्णान्येव साधयेत् ॥ ॥२,२५।३४च्द्।
आलयं च महेशस्य शिवस्य परमात्मनः ॥ ॥२,२५।३५अब्।
राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ॥२,२५।३५च्द्।
उच्चप्राकारसम्भिन्नं भूधराकारगोपुरम् ॥ ॥२,२५।३६अब्।
अनेकरत्नसञ्च्छन्नं हेमद्वारकपाटकम् ॥ ॥२,२५।३६च्द्।
तप्तजाम्बूनदमयं रत्नस्तम्भशतावृतम् ॥ ॥२,२५।३७अब्।
मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ॥२,२५।३७च्द्।
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ ॥२,२५।३८अब्।
अलङ्कृतशिरोभागमस्त्र २राजेन चिह्नितम् ॥ ॥२,२५।३८च्द्।
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ ॥२,२५।३९अब्।
प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समन्ततः ॥ ॥२,२५।३९च्द्।
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ ॥२,२५।४०अब्।
अत्यन्तालङ्कृतप्रान्तमन्तरावरणैरिव ॥ ॥२,२५।४०च्द्।
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ ॥२,२५।४१अब्।
वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ॥२,२५।४१च्द्।
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ ॥२,२५।४२अब्।
अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ॥२,२५।४२च्द्।
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ ॥२,२५।४३अब्।
वेदवेदान्ततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ ॥२,२५।४३च्द्।
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ ॥२,२५।४४अब्।
शान्तैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ॥२,२५।४४च्द्।
शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ ॥२,२५।४५अब्।
एवमन्तर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ ॥२,२५।४५च्द्।
स्थाने शिलामये दान्ते दारवे चेष्टकामये ॥ ॥२,२५।४६अब्।
केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ ॥२,२५।४६च्द्।
नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ ॥२,२५।४७अब्।
आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवञ्चयन् ॥ ॥२,२५।४७च्द्।
द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥ ॥२,२५।४७एफ़्।
अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥ ॥२,२५।४८अब्।
न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ ॥२,२५।४८च्द्।
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ ॥२,२५।४९अब्।
न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ॥२,२५।४९च्द्।
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ ॥२,२५।५०अब्।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ॥२,२५।५०च्द्।
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ ॥२,२५।५१अब्।
महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ ॥२,२५।५१च्द्।
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ ॥२,२५।५२अब्।
न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ ॥२,२५।५२च्द्।
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ ॥२,२५।५३अब्।
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ ॥२,२५।५३च्द्।
१ सम्बन्धमनुवर्तते इति भाष्यात्क्वचिद्घञान्तस्यापि क्लीबतात एव शेषं रामवदित्यादि सङ्गच्छते
२ त्रिशूलेनेति भावः
५७५अ
गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ ॥२,२५।५४अब्।
शिवे भक्तिर्न सन्देहस्तया भक्तो विमुच्यते ॥ ॥२,२५।५४च्द्।
शिवमन्त्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ ॥२,२५।५५अब्।
दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ॥२,२५।५५च्द्।
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ ॥२,२५।५६अब्।
भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ ॥२,२५।५६च्द्।
चान्द्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ ॥२,२५।५७अब्।
मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ॥२,२५।५७च्द्।
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ ॥२,२५।५८अब्।
तपन्ति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ॥२,२५।५८च्द्।
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ ॥२,२५।५९अब्।
राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ॥२,२५।५९च्द्।
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ ॥२,२५।६०अब्।
ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ ॥२,२५।६०च्द्।
तामसं राजसं वापि सात्त्विकं भावमेव च ॥ ॥२,२५।६१अब्।
आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ॥२,२५।६१च्द्।
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ ॥२,२५।६२अब्।
तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ॥२,२५।६२च्द्।
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ ॥२,२५।६३अब्।
शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ॥२,२५।६३च्द्।
तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ ॥२,२५।६४अब्।
अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ॥२,२५।६४च्द्।
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ ॥२,२५।६५अब्।
वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ॥२,२५।६५च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशो ऽध्यायः