२४ शास्त्रोक्तशिवपूजनवर्णनम्

उपमन्युरुवाच
प्रोक्षयेन्मूलमन्त्रेण पूजास्थानं विशुद्धये ॥ ॥२,२४।१अब्।
गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ॥२,२४।१च्द्।
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ ॥२,२४।२अब्।
अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ॥२,२४।२च्द्।
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ ॥२,२४।३अब्।
संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ॥२,२४।३च्द्।
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ ॥२,२४।४अब्।
तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ॥२,२४।४च्द्।
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ ॥२,२४।५अब्।
पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ॥२,२४।५च्द्।
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ ॥२,२४।६अब्।
फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ॥२,२४।६च्द्।
स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ ॥२,२४।७अब्।
शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ॥२,२४।७च्द्।
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ ॥२,२४।८अब्।
जातिकङ्कोलकर्पूरबहुमूलतमालकान् ॥ ॥२,२४।८च्द्।
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ ॥२,२४।९अब्।
एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ॥२,२४।९च्द्।
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ ॥२,२४।१०अब्।
आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ॥२,२४।१०च्द्।
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ ॥२,२४।११अब्।
प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ॥२,२४।११च्द्।
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ ॥२,२४।१२अब्।
पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ॥२,२४।१२च्द्।
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ ॥२,२४।१३अब्।
सम्प्रोक्ष्य मूलमन्त्रेण शोधयेद्विधिवत्ततः ॥ ॥२,२४।१३च्द्।
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ ॥२,२४।१४अब्।
साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ॥२,२४।१४च्द्।
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ ॥२,२४।१५अब्।
पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ॥२,२४।१५च्द्।
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ ॥२,२४।१६अब्।
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ॥२,२४।१६च्द्।
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ ॥२,२४।१७अब्।
दीप्तशूलमृगीटङ्कतिग्मवेत्रधरं प्रभुम् ॥ ॥२,२४।१७च्द्।
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ ॥२,२४।१८अब्।
उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ॥२,२४।१८च्द्।
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ ॥२,२४।१९अब्।
पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ॥२,२४।१९च्द्।
सम्पूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ ॥२,२४।२०अब्।
प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ॥२,२४।२०च्द्।
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ॥२,२४।२१अब्।
ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ॥२,२४।२१च्द्।
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ ॥२,२४।२२अब्।
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ॥२,२४।२२च्द्।
५७२ब्

तस्याः पुरस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ॥ ॥२,२४।२३अब्।
धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ॥२,२४।२३च्द्।
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ ॥२,२४।२४अब्।
धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ॥२,२४।२४च्द्।
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ ॥२,२४।२५अब्।
अधर्मादीनि पूर्वादीन्युत्तरान्तान्यनुक्रमात् ॥ ॥२,२४।२५च्द्।
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ ॥२,२४।२६अब्।
अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ॥२,२४।२६च्द्।
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ ॥२,२४।२७अब्।
केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ॥२,२४।२७च्द्।
बीजान्यपि च ता एव शक्तयोन्तर्मनोन्मनीः ॥ ॥२,२४।२८अब्।
कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ॥२,२४।२८च्द्।
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ ॥२,२४।२९अब्।
त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ॥२,२४।२९च्द्।
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ ॥२,२४।३०अब्।
आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ॥२,२४।३०च्द्।
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ॥२,२४।३१अब्।
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ॥२,२४।३१च्द्।
पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं ततः परम् ॥ ॥२,२४।३२अब्।
धूपं दीपं च ताम्बूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ॥२,२४।३२च्द्।
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ ॥२,२४।३३अब्।
सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ॥२,२४।३३च्द्।
आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ ॥२,२४।३४अब्।
शुद्धस्फटिकसङ्काशं देवं निश्चलमक्षरम् ॥ ॥२,२४।३४च्द्।
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ॥२,२४।३५अब्।
अन्तर्बहिःस्थितं व्याप्य ह्यणोरणु १ महत्तरम् २ ॥ ॥२,२४।३५च्द्।
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ॥२,२४।३६अब्।
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ॥२,२४।३६च्द्।
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ ॥२,२४।३७अब्।
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ॥२,२४।३७च्द्।
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ ॥२,२४।३८अब्।
पञ्चोपचारवद्भक्त्या पूजयेल्लिङ्गमुत्तमम् ॥ ॥२,२४।३८च्द्।
लिङ्गमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ ॥२,२४।३९अब्।
स्नानकाले प्रकुर्वीत जयशब्दादिमङ्गलम् ॥ ॥२,२४।३९च्द्।
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ ॥२,२४।४०अब्।
मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ॥२,२४।४०च्द्।
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसम्भवैः ॥ ॥२,२४।४१अब्।
संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ॥२,२४।४१च्द्।
घर्षयेद्विल्वपत्राद्यैर्लेपगन्धापनुत्तये ॥ ॥२,२४।४२अब्।
पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ॥२,२४।४२च्द्।

१ क्लीबत्वमार्षम्
२ महत इति क्षेष-

५७३अ

सुगन्धामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ॥२,२४।४३अब्।
ततः संशोध्य सलिलैर्लिङ्गं बेरमथापि वा ॥ ॥२,२४।४३च्द्।
स्नापयेद्गन्धतोयेन कुशपुष्पोदकेन च ॥ ॥२,२४।४४अब्।
हिरण्यरत्नतोयैश्च मन्त्रसिद्धैर्यथाक्रमम् ॥ ॥२,२४।४४च्द्।
असम्भवे तु द्रव्याणां यथासम्भवसम्भृतैः ॥ ॥२,२४।४५अब्।
केवलैर्मन्त्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ॥२,२४।४५च्द्।
कलशेनाथ शङ्खेन वर्धन्या पाणिना तथा ॥ ॥२,२४।४६अब्।
सकुशेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् ॥ ॥२,२४।४६च्द्।
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ ॥२,२४।४७अब्।
लिङ्गसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ॥२,२४।४७च्द्।
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ ॥२,२४।४८अब्।
स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ॥२,२४।४८च्द्।
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ ॥२,२४।४९अब्।
न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ॥२,२४।४९च्द्।
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ ॥२,२४।५०अब्।
देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ॥२,२४।५०च्द्।
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ ॥२,२४।५१अब्।
तत्र तत्रोपचाराणां लिङ्गे वान्यत्र वा क्वचित् ॥ ॥२,२४।५१च्द्।
कृत्वा ऽभिषेकं लिङ्गस्य शुचिना च सुगन्धिना ॥ ॥२,२४।५२अब्।
सम्मृज्य वाससा दद्यादम्बरं चोपवीतकम् ॥ ॥२,२४।५२च्द्।
पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च भूषणम् ॥ ॥२,२४।५३अब्।
धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ॥२,२४।५३च्द्।
पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ ॥२,२४।५४अब्।
मुकुटं च शुभं भद्रं सर्वरत्नैरलङ्कृतम् ॥ ॥२,२४।५४च्द्।
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ ॥२,२४।५५अब्।
व्यजने चामरे छत्रं तालवृन्तं च दर्पणम् ॥ ॥२,२४।५५च्द्।
दत्त्वा नीराजनं कुर्यात्सर्वमङ्गलनिस्वनैः ॥ ॥२,२४।५६अब्।
गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ॥२,२४।५६च्द्।
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ ॥२,२४।५७अब्।
पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ॥२,२४।५७च्द्।
त्रिशूलशङ्खयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ ॥२,२४।५८अब्।
श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ॥२,२४।५८च्द्।
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ ॥२,२४।५९अब्।
तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ॥२,२४।५९च्द्।
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ ॥२,२४।६०अब्।
धेनुमुद्रां च सन्दर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ॥२,२४।६०च्द्।
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ ॥२,२४।६१अब्।
विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ॥२,२४।६१च्द्।
ततस्तत्पात्रमुद्धृत्य लिङ्गादेरुपरि क्रमात् ॥ ॥२,२४।६२अब्।
त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ॥२,२४।६२च्द्।
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगन्धितम् ॥ ॥२,२४।६३अब्।
कृत्वा पुष्पाञ्जलिं पश्चादुपहारान्निवेदयेत् ॥ ॥२,२४।६३च्द्।
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ ॥२,२४।६४अब्।
५७३ब्

पञ्चसौगन्धिकोपेतं ताम्बूलं च निवेदयेत् ॥ ॥२,२४।६४च्द्।
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ ॥२,२४।६५अब्।
लिङ्गादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ॥२,२४।६५च्द्।
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ ॥२,२४।६६अब्।
विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ॥२,२४।६६च्द्।
अर्घ्यं पुष्पाञ्जलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ ॥२,२४।६७अब्।
पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिन्तयेत् ॥ ॥२,२४।६७च्द्।
पाद्यादिमुखवासान्तमर्घ्याद्यं चातिसङ्कटे ॥ ॥२,२४।६८अब्।
पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ॥२,२४।६८च्द्।
तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ ॥२,२४।६९अब्।
असम्पूज्य न भुञ्जीत शिवमाप्राणसञ्चरात् ॥ ॥२,२४।६९च्द्।
यदि पापस्तु भुञ्जीत स्वैरं तय्स न निष्कृतिः ॥ ॥२,२४।७०अब्।
प्रमादेन तु भुङ्क्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ॥२,२४।७०च्द्।
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ ॥२,२४।७१अब्।
शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ॥२,२४।७१च्द्।
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ ॥२,२४।७२अब्।
शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ॥२,२४।७२च्द्।

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशो ऽध्यायः