उपमन्युरुवाच
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ ॥२,२३।१अब्।
शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ॥२,२३।१च्द्।
अङ्गमभ्यन्तरं यागमग्निकार्यावसानकम् ॥ ॥२,२३।२अब्।
विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ॥२,२३।२च्द्।
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ॥२,२३।३अब्।
५७१ब्
ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ॥२,२३।३च्द्।
दक्षिणे चोत्तरे चैव नन्दीशं सुयशं तथा ॥ ॥२,२३।४अब्।
आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ॥२,२३।४च्द्।
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ ॥२,२३।५अब्।
पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ॥२,२३।५च्द्।
तस्योपरि शिवं ध्यायेत्साम्बं सर्वमनोहरम् ॥ ॥२,२३।६अब्।
सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥ ॥२,२३।६च्द्।
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ ॥२,२३।७अब्।
रक्तास्यपाणिचरणं कुन्दचन्द्रस्मिताननम् ॥ ॥२,२३।७च्द्।
शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् ॥ ॥२,२३।८अब्।
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ ॥२,२३।८च्द्।
वरदाभयहस्तं च मृगटङ्कधरं हरम् ॥ ॥२,२३।९अब्।
भुजङ्गहारवलयं चारुनीलगलान्तरम् ॥ ॥२,२३।९च्द्।
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ॥२,२३।१०अब्।
ततः सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम् ॥ ॥२,२३।१०च्द्।
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ ॥२,२३।११अब्।
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥ ॥२,२३।११च्द्।
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ ॥२,२३।१२अब्।
अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ॥ ॥२,२३।१२च्द्।
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ ॥२,२३।१३अब्।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ ॥२,२३।१३च्द्।
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् ॥ ॥२,२३।१४अब्।
सर्वतो ऽनुगुणाकारां किञ्चिल्लज्जानताननाम् ॥ ॥२,२३।१४च्द्।
हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥ ॥२,२३।१५अब्।
दण्डवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ॥२,२३।१५च्द्।
पाशविच्छेदिकां साक्षात्सच्चिदानन्दरूपिणीम् ॥ ॥२,२३।१६अब्।
एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ॥२,२३।१६च्द्।
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ ॥२,२३।१७अब्।
अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ॥२,२३।१७च्द्।
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ ॥२,२३।१८अब्।
षड्विंशकाभिधानां वा श्रीकण्ठाख्यामथापि वा ॥ ॥२,२३।१८च्द्।
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ ॥२,२३।१९अब्।
अस्यां मूर्तौ मूर्तिमन्तं शिवं सदसतः परम् ॥ ॥२,२३।१९च्द्।
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ ॥२,२३।२०अब्।
समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ॥२,२३।२०च्द्।
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ ॥२,२३।२१अब्।
इत्थमङ्गे स्वतन्त्रे वा योगे ध्यानमये शुभे ॥ ॥२,२३।२१च्द्।
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ ॥२,२३।२२अब्।
अथ चिन्तामयं सर्वं समाप्याराधनक्रमम् ॥ ॥२,२३।२२च्द्।
लिङ्गे च पूजयेद्देवं स्थण्डिले वानले ऽपि वा ॥ ॥२,२३।२३अब्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः
५७२अ