उपमन्युरुवाच
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥ ॥२,२२।१अब्।
स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ॥२,२२।१च्द्।
५७०अ
यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥ ॥२,२२।२अब्।
स एव भर्तृहीनायाः कुटुम्बिन्याः स्थितिर्भवेत् ॥ ॥२,२२।२च्द्।
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥ ॥२,२२।३अब्।
अङ्गुष्ठादिकनिष्ठान्तं स्थितिन्यास उदाहृतः ॥ ॥२,२२।३च्द्।
दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्तमेव च ॥ ॥२,२२।४अब्।
उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ॥२,२२।४च्द्।
सबिन्दुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥ ॥२,२२।५अब्।
अङ्गुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ॥२,२२।५च्द्।
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमन्त्रतः ॥ ॥२,२२।६अब्।
निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ॥२,२२।६च्द्।
पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥ ॥२,२२।७अब्।
हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ॥२,२२।७च्द्।
तद्तद्बीजेन सङ्ग्रन्थीस्तद्तद्बीजेषु भावयेत् ॥ ॥२,२२।८अब्।
तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ॥२,२२।८च्द्।
निरुद्ध्वा प्राणवायुं च गुणसङ्ख्यानुसारतः ॥ ॥२,२२।९अब्।
भूतग्रन्थिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ॥२,२२।९च्द्।
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥ ॥२,२२।१०अब्।
निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ॥२,२२।१०च्द्।
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ ॥२,२२।११अब्।
ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ॥२,२२।११च्द्।
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥ ॥२,२२।१२अब्।
प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ॥२,२२।१२च्द्।
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥ ॥२,२२।१३अब्।
अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ॥२,२२।१३च्द्।
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥ ॥२,२२।१४अब्।
शिवान्निर्गतमात्मानं ब्रह्मरन्ध्रेण योजयेत् ॥ ॥२,२२।१४च्द्।
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपङ्कजे ॥ ॥२,२२।१५अब्।
पुनश्चामृतवर्षेण सिञ्चेद्विद्यामयं वपुः ॥ ॥२,२२।१५च्द्।
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥ ॥२,२२।१६अब्।
देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ॥२,२२।१६च्द्।
अङ्गन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥ ॥२,२२।१७अब्।
वर्णन्यासं ततः कुर्याद्धस्तपादादिसन्धिषु ॥ ॥२,२२।१७च्द्।
षडङ्गानि ततो न्यस्य जातिषट्कयुतानि च ॥ ॥२,२२।१८अब्।
दिग्बन्धमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ॥२,२२।१८च्द्।
यद्वा मूर्धादिपञ्चाङ्गं न्यासमेव समाचरेत् ॥ ॥२,२२।१९अब्।
तथा षडङ्गन्यासं च भूतशुद्ध्यादिकं विना ॥ ॥२,२२।१९च्द्।
एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥ ॥२,२२।२०अब्।
शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ॥२,२२।२०च्द्।
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥ ॥२,२२।२१अब्।
स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ॥२,२२।२१च्द्।
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥ ॥२,२२।२२अब्।
तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ॥२,२२।२२च्द्।
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥ ॥२,२२।२३अब्।
५७०ब्
एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ॥२,२२।२३च्द्।
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥ ॥२,२२।२४अब्।
इं ईं च नेत्रयोस्तद्वत् उं ऊं श्रवणयोस्तथा ॥ ॥२,२२।२४च्द्।
ऋं ःं कपोलयोश्चैव ऌं ॡं नासापुटद्वये ॥ ॥२,२२।२५अब्।
एमेमोष्ठद्वयोरोमौं दन्तपङ्क्तिद्वयोः क्रमात् ॥ ॥२,२२।२५च्द्।
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥ ॥२,२२।२६अब्।
कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु सन्धिषु ॥ ॥२,२२।२६च्द्।
चवर्गं च तथा वामहस्तसन्धिषु विन्यसेत् ॥ ॥२,२२।२७अब्।
टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ॥२,२२।२७च्द्।
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥ ॥२,२२।२८अब्।
न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ॥२,२२।२८च्द्।
यकरादिसकारान्तान्न्यसेत्सप्तसु धातुषु ॥ ॥२,२२।२९अब्।
हङ्कारं हृदयस्यान्तः क्षकारं भ्रूयुगान्तरे ॥ ॥२,२२।२९च्द्।
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥ ॥२,२२।३०अब्।
अङ्गवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ॥२,२२।३०च्द्।
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥ ॥२,२२।३१अब्।
शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ॥२,२२।३१च्द्।
ततश्चोर्ध्वादिवक्त्राणि पश्चिमान्तानि कल्पयेत् ॥ ॥२,२२।३२अब्।
ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ॥२,२२।३२च्द्।
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ ॥२,२२।३३अब्।
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ॥२,२२।३३च्द्।
हृत्कण्ठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ॥२,२२।३४अब्।
अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ॥२,२२।३४च्द्।
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥ ॥२,२२।३५अब्।
जङ्घास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ॥२,२२।३५च्द्।
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ ॥२,२२।३६अब्।
अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ॥२,२२।३६च्द्।
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥ ॥२,२२।३७अब्।
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ॥२,२२।३७च्द्।
पार्श्वोदरोरुजङ्घेषु पादयोः पृष्ठतस्तथा ॥ ॥२,२२।३८अब्।
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ॥२,२२।३८च्द्।
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥ ॥२,२२।३९अब्।
बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ॥२,२२।३९च्द्।
विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥ ॥२,२२।४०अब्।
कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ॥२,२२।४०च्द्।
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चाङ्गवर्त्मना ॥ ॥२,२२।४१अब्।
हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ॥२,२२।४१च्द्।
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥ ॥२,२२।४२अब्।
नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ॥२,२२।४२च्द्।
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥ ॥२,२२।४३अब्।
तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ॥२,२२।४३च्द्।
शिवो ऽहमिति सञ्चिन्त्य शैवं कर्म समाचरेत् ॥ ॥२,२२।४४अब्।
कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ ॥२,२२।४४च्द्।
ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ॥२,२२।४४एफ़्।
५७१अ
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ ॥२,२२।४५अब्।
जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ॥२,२२।४५च्द्।
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥ ॥२,२२।४६अब्।
क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ॥२,२२।४६च्द्।
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ ॥२,२२।४७अब्।
अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ॥२,२२।४७च्द्।
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ ॥२,२२।४८अब्।
तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ॥२,२२।४८च्द्।
जपध्यानरतो भूत्वा जायते भुवि मानवः ॥ ॥२,२२।४९अब्।
जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ॥२,२२।४९च्द्।
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥ ॥२,२२।५०अब्।
तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ॥२,२२।५०च्द्।
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ ॥२,२२।५१अब्।
तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ॥२,२२।५१च्द्।
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ॥२,२२।५२अब्।
हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ॥२,२२।५२च्द्।
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥ ॥२,२२।५३अब्।
बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ॥२,२२।५३च्द्।
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ॥२,२२।५४अब्।
ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ॥२,२२।५४च्द्।
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ॥२,२२।५५अब्।
ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ॥२,२२।५५च्द्।
नात्यन्तं प्रतिपद्यन्ते शिवयाथात्म्यवेदनात् ॥ ॥२,२२।५६अब्।
आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ॥२,२२।५६च्द्।
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ॥२,२२।५७अब्।
ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ॥२,२२।५७च्द्।
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥ ॥२,२२।५८अब्।
द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ॥२,२२।५८च्द्।
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥ ॥२,२२।५९अब्।
नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ॥२,२२।५९च्द्।
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥ ॥२,२२।६०अब्।
अथवा पूजयेन्नित्यं लिङ्गे वा कृतकेपि वा ॥ ॥२,२२।६०च्द्।
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥ ॥२,२२।६१अब्।
अथवान्तर्बहिश्चैव पूजयेत्परमेश्वरम् ॥ ॥२,२२।६१च्द्।
अन्तर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ॥२,२२।६१एफ़्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशो ऽध्यायः