२१ नित्यनैमित्तिककर्मवर्णनम्

कृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ ॥२,२१।१अब्।
शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ॥२,२१।१च्द्।
उपमन्युरुवाच
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ ॥२,२१।२अब्।
विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ॥२,२१।२च्द्।
अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ ॥२,२१।३अब्।
५६९अ

कृत्वा शौचं विधानेन दन्तधावनमाचरेत् ॥ ॥२,२१।३च्द्।
अलाभे दन्तकाष्ठानामष्टम्यादिदिनेषु च ॥ ॥२,२१।४अब्।
अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ॥२,२१।४च्द्।
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ ॥२,२१।५अब्।
नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ॥२,२१।५च्द्।
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ ॥२,२१।६अब्।
व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ॥२,२१।६च्द्।
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ ॥२,२१।७अब्।
सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ॥२,२१।७च्द्।
मलस्नानं सुगन्धाद्यैः स्नानं दन्तविशोधनम् ॥ ॥२,२१।८अब्।
न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ॥२,२१।८च्द्।
सोपवीतश्शिखां बद्धा प्रविश्य च जलान्तरम् ॥ ॥२,२१।९अब्।
अवगाह्य समाचान्तो जले न्यस्येत्त्रिमण्डलम् ॥ ॥२,२१।९च्द्।
सौम्ये मग्नः पुनर्मन्त्रं जपेच्छक्त्या शिवं स्मरेत् ॥ ॥२,२१।१०अब्।
उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ॥२,२१।१०च्द्।
गोशृङ्गेण सदर्भेण पालाशेन दलेन वा ॥ ॥२,२१।११अब्।
पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ॥२,२१।११च्द्।
उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ ॥२,२१।१२अब्।
अवगाहनकाले ऽद्भिर्मन्त्रितैरभिषेचयेत् ॥ ॥२,२१।१२च्द्।
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ ॥२,२१।१३अब्।
आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ॥२,२१।१३च्द्।
आग्नेयं वाथ वा मान्त्रं कुर्यात्स्नानं शिवेन वा ॥ ॥२,२१।१४अब्।
शिवचिन्तापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ॥२,२१।१४च्द्।
स्वसूत्रोक्तविधानेन मन्त्राचमनपूर्वकम् ॥ ॥२,२१।१५अब्।
आचरेद्ब्रह्मयज्ञान्तं कृत्वा देवादितर्पणम् ॥ ॥२,२१।१५च्द्।
मण्डलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ ॥२,२१।१६अब्।
दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ॥२,२१।१६च्द्।
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ ॥२,२१।१७अब्।
करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ॥२,२१।१७च्द्।
वामहस्तगताम्भोभिर्गन्धसिद्धार्थकान्वितैः ॥ ॥२,२१।१८अब्।
कुशपुञ्जेन वाभ्युक्ष्य मूलमन्त्रसमन्वितैः ॥ ॥२,२१।१८च्द्।
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ ॥२,२१।१९अब्।
वामनासापुटेनैव देवं सम्भावयेत्सितम् ॥ ॥२,२१।१९च्द्।
अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ ॥२,२१।२०अब्।
कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ॥२,२१।२०च्द्।
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ ॥२,२१।२१अब्।
भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ॥२,२१।२१च्द्।
रक्तचन्दनतोयेन हस्तमात्रेण मण्डलम् ॥ ॥२,२१।२२अब्।
सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलङ्कृतम् ॥ ॥२,२१।२२च्द्।
तत्र सम्पूजयेद्भानुं स्वकीयावरणैः सह ॥ ॥२,२१।२३अब्।
स्वखोल्कायेति मन्त्रेण साङ्गतस्सुखसिद्धये ॥ ॥२,२१।२३च्द्।
पुनश्च मण्डलं कृत्वा तदङ्गैः परिपूज्य च ॥ ॥२,२१।२४अब्।
तत्र स्थाप्य हेमपात्रं मागधप्रस्थसम्मितम् ॥ ॥२,२१।२४च्द्।
५६९ब्

पूरयेद्गन्धतोयेन रक्तचन्दनयोगिना ॥ ॥२,२१।२५अब्।
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ॥२,२१।२५च्द्।
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ ॥२,२१।२६अब्।
जानुभ्यां धरणीं गत्वा नत्वा देवं च मण्डले ॥ ॥२,२१।२६च्द्।
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ ॥२,२१।२७अब्।
अथवाञ्जलिना तोयं सदर्भं मूलविद्यया ॥ ॥२,२१।२७च्द्।
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ ॥२,२१।२८अब्।
कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ॥२,२१।२८च्द्।
बुद्ध्वेशानादिसद्यान्तं पञ्चब्रह्ममयं शिवम् ॥ ॥२,२१।२९अब्।
गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ॥२,२१।२९च्द्।
या दिनान्तैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ॥२,२१।३०अब्।
ततो मूलेन सर्वाङ्गमालभ्य वसनान्तरम् ॥ ॥२,२१।३०च्द्।
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ ॥२,२१।३१अब्।
जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ॥२,२१।३१च्द्।
पुनर्न्यस्तकरो मन्त्री त्रिपुण्ड्रं भस्मना लिखेत् ॥ ॥२,२१।३२अब्।
अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ॥२,२१।३२च्द्।
वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ॥२,२१।३३अब्।
ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ॥२,२१।३३च्द्।
तादृशं भुजयोर्मूर्ध्नि स्तनयोरन्तरे लिखेत् ॥ ॥२,२१।३४अब्।
सर्वाङ्गोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ॥२,२१।३४च्द्।
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ ॥२,२१।३५अब्।
रुद्राक्षान्धारयेद्मूर्ध्नि कण्ठे श्रोते करे तथा ॥ ॥२,२१।३५च्द्।
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ ॥२,२१।३६अब्।
विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ॥२,२१।३६च्द्।
तदलाभे यथालाभं धारणीयमदूषितम् ॥ ॥२,२१।३७अब्।
तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ॥२,२१।३७च्द्।
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ ॥२,२१।३८अब्।
इत्थं त्रिसन्ध्यमथवा द्विसन्ध्यं सकृदेव वा ॥ ॥२,२१।३८च्द्।
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ ॥२,२१।३९अब्।
प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ॥२,२१।३९च्द्।
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ ॥२,२१।४०अब्।
श्वेतादीन्नकुलीशान्तांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ॥२,२१।४०च्द्।
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ ॥२,२१।४१अब्।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ॥२,२१।४१च्द्।
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ ॥२,२१।४२अब्।
अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ॥२,२१।४२च्द्।
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशान्तये ॥ ॥२,२१।४३अब्।
प्रक्षाल्य चरणौ कृत्वा करौ चन्दनचर्चितौ ॥ ॥२,२१।४३च्द्।
प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ॥२,२१।४३एफ़्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः