२० विशेषादिसंस्कृतिः

उपमन्युरुवाच
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ ॥२,२०।१अब्।
आचार्यत्वे ऽभिषिञ्चेत तद्योगत्वेन चान्यथा ॥ ॥२,२०।१च्द्।
मण्डलं पूर्ववत्कृत्त्वा सम्पूज्य परमेश्वरम् ॥ ॥२,२०।२अब्।
स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ ॥२,२०।२च्द्।
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ ॥२,२०।३अब्।
विद्यां दक्षिणतः शान्तिमुत्तरे मध्यतः पराम् ॥ ॥२,२०।३च्द्।
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ ॥२,२०।४अब्।
अभिमन्त्र्य घटान्हुत्वा पूर्णान्तं च यथा पुरा ॥ ॥२,२०।४च्द्।
प्रवेश्य मण्डले शिष्यमनुष्णीषं च देशिकः ॥ ॥२,२०।५अब्।
तर्पणाद्यं तु मन्त्राणां कुर्यात्पूर्वावसानकम् ॥ ॥२,२०।५च्द्।
ततः सम्पूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ ॥२,२०।६अब्।
अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ॥२,२०।६च्द्।
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ ॥२,२०।७अब्।
न्यस्तमन्त्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ॥२,२०।७च्द्।
ततो निवृत्तिकुम्भादिघटानुद्धृत्य वै क्रमात् ॥ ॥२,२०।८अब्।
मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ॥२,२०।८च्द्।
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ ॥२,२०।९अब्।
शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ॥२,२०।९च्द्।
अथालङ्कृत्य तं देवमाराध्य शिवमण्डले ॥ ॥२,२०।१०अब्।
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ ॥२,२०।१०च्द्।
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दण्डवत् ॥ ॥२,२०।११अब्।
शिरस्यञ्जलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ॥२,२०।११च्द्।
भगवंस्त्वत्प्रसादेन देशिको।यं मया कृतः ॥ ॥२,२०।१२अब्।
अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ ॥२,२०।१२च्द्।
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ ॥२,२०।१३अब्।
५६८ब्

शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ ॥२,२०।१३च्द्।
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ ॥२,२०।१४अब्।
उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ ॥२,२०।१४च्द्।
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ ॥२,२०।१५अब्।
अधिरोप्य यथान्यायमभिवन्द्य समर्चयेत् ॥ ॥२,२०।१५च्द्।
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ ॥२,२०।१६अब्।
आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ ॥२,२०।१६च्द्।
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ ॥२,२०।१७अब्।
यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ ॥२,२०।१७च्द्।
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ ॥२,२०।१८अब्।
संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ ॥२,२०।१८च्द्।
एवं सर्वमनायासं शौचं क्षान्तिं दयां तथा ॥ ॥२,२०।१९अब्।
अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ ॥२,२०।१९च्द्।
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मण्डलात् ॥ ॥२,२०।२०अब्।
शिवकुम्भानलादींश्च सदस्यानपि पूजयेत् ॥ ॥२,२०।२०च्द्।
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ ॥२,२०।२१अब्।
तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ ॥२,२०।२१च्द्।
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ ॥२,२०।२२अब्।
कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ ॥२,२०।२२च्द्।
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ ॥२,२०।२३अब्।
तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ ॥२,२०।२३च्द्।
हुत्वा मन्त्रन्तु सन्तर्प्य सन्दीप्याशास्य चेश्वरम् ॥ ॥२,२०।२४अब्।
समर्प्य मन्त्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ ॥२,२०।२४च्द्।
अथवा मन्त्रसंस्कारमनुचिन्त्याखिलं क्रमात् ॥ ॥२,२०।२५अब्।
अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ ॥२,२०।२५च्द्।
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ ॥२,२०।२६अब्।
स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ ॥२,२०।२६च्द्।
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ ॥२,२०।२७अब्।
शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ ॥२,२०।२७च्द्।
शिवेन शान्त्यतीताध्वा व्याप्तस्तदपरः परः ॥ ॥२,२०।२८अब्।
विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ ॥२,२०।२८च्द्।
दुर्लभं शाम्भवं मत्वा मन्त्रमूलं मनीषिणः ॥ ॥२,२०।२९अब्।
शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ ॥२,२०।२९च्द्।
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ ॥२,२०।३०अब्।
चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ॥२,२०।३०च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः