१९ साधकसंस्कारमन्त्रमाहात्म्यम्

उपमन्युरुवाच
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ ॥२,१९।१अब्।
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ ॥२,१९।१च्द्।
सम्पूज्य मण्डले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ ॥२,१९।२अब्।
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मण्डले ॥ ॥२,१९।२च्द्।
पूर्वान्तं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ ॥२,१९।३अब्।
सन्तर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ॥२,१९।३च्द्।
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ ॥२,१९।४अब्।
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ॥२,१९।४च्द्।
तत्र विद्योपदेशान्तं कृत्वा विस्तरशः क्रमात् ॥ ॥२,१९।५अब्।
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ॥२,१९।५च्द्।
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ ॥२,१९।६अब्।
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ॥२,१९।६च्द्।
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ ॥२,१९।७अब्।
साधनं शिवयोगं च साधकाय समादिशेत् ॥ ॥२,१९।७च्द्।
तच्छ्रुत्वा गुरुसन्देशं क्रमशो मन्त्रसाधकः ॥ ॥२,१९।८अब्।
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ॥२,१९।८च्द्।
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ ॥२,१९।९अब्।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ॥२,१९।९च्द्।
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ ॥२,१९।१०अब्।
कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ ॥२,१९।१०च्द्।
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ ॥२,१९।११अब्।
शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ ॥२,१९।११च्द्।
अलङ्कृत्य यथा लब्धैर्गन्धमाल्यविभूषणैः ॥ ॥२,१९।१२अब्।
सोष्णीषः सोत्तरासङ्गः सर्वशुक्लसमाहितः ॥ ॥२,१९।१२च्द्।
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ ॥२,१९।१३अब्।
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ ॥२,१९।१३च्द्।
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ ॥२,१९।१४अब्।
सम्पूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ ॥२,१९।१४च्द्।
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ ॥२,१९।१५अब्।
प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ ॥२,१९।१५च्द्।
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ ॥२,१९।१६अब्।
लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ ॥२,१९।१६च्द्।
ततश्च पायसाक्षारलवणैकमिताशनः ॥ ॥२,१९।१७अब्।
अहिंसकः क्षमी शान्तो दान्तश्चैव सदा भवेत् ॥ ॥२,१९।१७च्द्।
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ ॥२,१९।१८अब्।
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ ॥२,१९।१८च्द्।
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ ॥२,१९।१९अब्।
५६८अ

शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ ॥२,१९।१९च्द्।
अभिमन्त्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ ॥२,१९।२०अब्।
साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ ॥२,१९।२०च्द्।
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ ॥२,१९।२१अब्।
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ ॥२,१९।२१च्द्।
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ ॥२,१९।२२अब्।
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ ॥२,१९।२२च्द्।
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ ॥२,१९।२३अब्।
तस्येहामुत्र दुष्प्रापं न किञ्चिदपि विद्यते ॥ ॥२,१९।२३च्द्।
अथवा ऽहरहर्मन्त्रं जपेदेकाग्रमानसः ॥ ॥२,१९।२४अब्।
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ ॥२,१९।२४च्द्।
न तस्य दुर्लभं किञ्चिन्न तस्यास्त्यशुभं क्वचित् ॥ ॥२,१९।२५अब्।
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विन्दति ॥ ॥२,१९।२५च्द्।
साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ ॥२,१९।२६अब्।
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ॥२,१९।२६च्द्।
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ ॥२,१९।२७अब्।
धृतत्रिपुण्ड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ ॥२,१९।२७च्द्।

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः