उपमन्युरुवाच
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ ॥२,१८।१अब्।
गच्छेद्बद्धाञ्जलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ॥२,१८।१च्द्।
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ ॥२,१८।२अब्।
नेत्रबन्धनपर्यन्तं दर्शयेन्मण्डलं गुरुः ॥ ॥२,१८।२च्द्।
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ ॥२,१८।३अब्।
यत्रापतन्ति पुष्णाणि तस्य नामा ऽस्य सन्दिशेत् ॥ ॥२,१८।३च्द्।
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ ॥२,१८।४अब्।
पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ॥२,१८।४च्द्।
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशान्तये ॥ ॥२,१८।५अब्।
शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ॥२,१८।५च्द्।
ततः सूत्रं शिखाबद्धं लम्बयित्वा यथा पुरा ॥ ॥२,१८।६अब्।
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ॥२,१८।६च्द्।
वागीश्वरीपूजनान्तं कुर्याद्धोमपुरस्सरम् ॥ ॥२,१८।७अब्।
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ॥२,१८।७च्द्।
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ ॥२,१८।८अब्।
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ॥२,१८।८च्द्।
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ ॥२,१८।९अब्।
कृत्वात्मानं समादाय द्वादशान्ते निवेद्य च ॥ ॥२,१८।९च्द्।
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ ॥२,१८।१०अब्।
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ॥२,१८।१०च्द्।
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ ॥२,१८।११अब्।
जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ॥२,१८।११च्द्।
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ ॥२,१८।१२अब्।
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ॥२,१८।१२च्द्।
गर्भनिष्पत्तये देवं सम्पूज्य प्रणिपत्य च ॥ ॥२,१८।१३अब्।
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ॥२,१८।१३च्द्।
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ ॥२,१८।१४अब्।
आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ॥२,१८।१४च्द्।
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ ॥२,१८।१५अब्।
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ॥२,१८।१५च्द्।
भोक्तृत्वविषयासङ्गमलं १ तत्कायशोधनम् ॥ ॥२,१८।१६अब्।
कृत्वैवमेव शिष्यस्य छिन्द्यात्पाशत्रयं ततः ॥ ॥२,१८।१६च्द्।
निकृत्या परि बद्धस्य पाशस्यात्यन्तभेदतः ॥ ॥२,१८।१७अब्।
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ॥२,१८।१७च्द्।
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ ॥२,१८।१८अब्।
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसन्दिशेत् ॥ ॥२,१८।१८च्द्।
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ ॥२,१८।१९अब्।
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ॥२,१८।१९च्द्।
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ ॥२,१८।२०अब्।
१ त्याजयित्वेति शेषः
५६६ब्
समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ॥२,१८।२०च्द्।
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ ॥२,१८।२१अब्।
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ॥२,१८।२१च्द्।
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ ॥२,१८।२२अब्।
कुर्यान्निवृत्तः सन्धानं प्रतिष्ठां कलया सह ॥ ॥२,१८।२२च्द्।
सन्धाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ ॥२,१८।२३अब्।
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ॥२,१८।२३च्द्।
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ ॥२,१८।२४अब्।
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ॥२,१८।२४च्द्।
पूर्णेदुमण्डलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ ॥२,१८।२५अब्।
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ॥२,१८।२५च्द्।
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ ॥२,१८।२६अब्।
प्रतिष्ठामनुसन्धाय तस्यां चापि यथा पुरा ॥ ॥२,१८।२६च्द्।
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ ॥२,१८।२७अब्।
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ॥२,१८।२७च्द्।
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ ॥२,१८।२८अब्।
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ॥२,१८।२८च्द्।
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शान्तये ॥ ॥२,१८।२९अब्।
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ॥२,१८।२९च्द्।
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ ॥२,१८।३०अब्।
बालार्कसदृशाकारां भासयन्तीं दिशो दश ॥ ॥२,१८।३०च्द्।
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ ॥२,१८।३१अब्।
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ॥२,१८।३१च्द्।
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ ॥२,१८।३२अब्।
शान्त्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ॥२,१८।३२च्द्।
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिन्तयेत् ॥ ॥२,१८।३३अब्।
नभोमण्डलसङ्काशां पूर्णान्तं चापि पूर्ववत् ॥ ॥२,१८।३३च्द्।
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ ॥२,१८।३४अब्।
तस्मै समादिशेदाज्ञां शम्भोरमितकर्मणः ॥ ॥२,१८।३४च्द्।
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ ॥२,१८।३५अब्।
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ॥२,१८।३५च्द्।
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ ॥२,१८।३६अब्।
विलयं शान्त्यतीतायाः शक्तितत्त्वे ऽथ चिन्तयेत् ॥ ॥२,१८।३६च्द्।
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ ॥२,१८।३७अब्।
कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ॥२,१८।३७च्द्।
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ ॥२,१८।३८अब्।
प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ॥२,१८।३८च्द्।
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ॥२,१८।३९अब्।
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ॥२,१८।३९च्द्।
वौषडन्तेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ ॥२,१८।४०अब्।
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ॥२,१८।४०च्द्।
५६७अ
ततः स्नातं समाचान्तं कृतस्वस्त्ययनं शिशुम् ॥ ॥२,१८।४१अब्।
प्रवेश्य मण्डलाभ्यासं प्रणिपत्य च दण्डवत् ॥ ॥२,१८।४१च्द्।
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ ॥२,१८।४२अब्।
वाचकेनैव मन्त्रेण जुहुयादाहुतित्रयम् ॥ ॥२,१८।४२च्द्।
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ ॥२,१८।४३अब्।
पुनस्सम्पूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ॥२,१८।४३च्द्।
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ ॥२,१८।४४अब्।
तत्र शम्भुं समाराध्य मण्डलस्थं सहाम्बया ॥ ॥२,१८।४४च्द्।
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्राञ्जलिर्गुरुः ॥ ॥२,१८।४४एफ़्।
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ ॥२,१८।४५अब्।
कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ॥२,१८।४५च्द्।
इति विज्ञाप्य देवाय नाडीसन्धानपूर्वकम् ॥ ॥२,१८।४६अब्।
पूर्णान्तं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ॥२,१८।४६च्द्।
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ॥२,१८।४७अब्।
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ॥२,१८।४७च्द्।
भूतानां ग्रन्थिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ ॥२,१८।४८अब्।
भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ॥२,१८।४८च्द्।
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ ॥२,१८।४९अब्।
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ॥२,१८।४९च्द्।
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ ॥२,१८।५०अब्।
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ॥२,१८।५०च्द्।
विद्यां गलादिनाभ्यन्तं प्रतिष्ठां तदधः क्रमात् ॥ ॥२,१८।५१अब्।
जान्वन्तं तदधो न्यस्येन्निवृत्तिं चानुचिन्तयेत् ॥ ॥२,१८।५१च्द्।
स्वबीजैस्सूत्रमन्त्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ ॥२,१८।५२अब्।
बुद्ध्वा तं हृदयाम्भोजे देवमावाह्य पूजयेत् ॥ ॥२,१८।५२च्द्।
आशास्य नित्यसान्निध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ ॥२,१८।५३अब्।
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ॥२,१८।५३च्द्।
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ ॥२,१८।५४अब्।
तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ॥२,१८।५४च्द्।
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ ॥२,१८।५५अब्।
अलुप्तशक्तिं स्वातन्त्र्यमनन्तां शक्तिमेव च ॥ ॥२,१८।५५च्द्।
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ ॥२,१८।५६अब्।
अभिषिञ्चेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ॥२,१८।५६च्द्।
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ ॥२,१८।५७अब्।
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ॥२,१८।५७च्द्।
ओङ्कारपूर्विकां तत्र सम्पुटान्तु नमो ऽन्तगाम् ॥ ॥२,१८।५८अब्।
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ॥२,१८।५८च्द्।
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ ॥२,१८।५९अब्।
पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ॥२,१८।५९च्द्।
पुनः सम्पूज्य देवेशं यन्मया समनुष्ठितम् ॥ ॥२,१८।६०अब्।
सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ॥२,१८।६०च्द्।
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमण्डले ॥ ॥२,१८।६१अब्।
प्रणम्योद्वासयेत्तस्मान्मण्डलात्पावकादपि ॥ ॥२,१८।६१च्द्।
५६७ब्
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ ॥२,१८।६२अब्।
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ॥२,१८।६३अब्।
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ॥२,१८।६३च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः