उपमन्युरुवाच
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥ ॥२,१७।१अब्।
षडध्वशुद्धिं कुर्वीत सर्वबन्धविमुक्तये ॥ ॥२,१७।१च्द्।
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ॥ ॥२,१७।२अब्।
मन्त्रश्चेति समासेन षडध्वा परिपठ्यते ॥ ॥२,१७।२च्द्।
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ॥ ॥२,१७।३अब्।
व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ॥२,१७।३च्द्।
५६५अ
शिवतत्त्वादिभूम्यन्तं तत्त्वाध्वा समुदाहृतः ॥ ॥२,१७।४अब्।
षड्विंशत्सङ्ख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ॥२,१७।४च्द्।
आधाराद्युन्मनान्तश्च भुवनाध्वा प्रकीर्तितः ॥ ॥२,१७।५अब्।
विना भेदोपभेदाभ्यां षष्टिसङ्ख्यासमन्वितः ॥ ॥२,१७।५च्द्।
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसञ्ज्ञिताः ॥ ॥२,१७।६अब्।
अनेकभेदसम्पन्नः पदाध्वा समुदाहृतः ॥ ॥२,१७।६च्द्।
सर्वोपमन्त्रैर्मन्त्राध्वा व्याप्तः परमविद्यया ॥ ॥२,१७।७अब्।
यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ॥२,१७।७च्द्।
मन्त्राध्वनि न गण्येत तथासौ मन्त्रनायकः ॥ ॥२,१७।८अब्।
कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ॥२,१७।८च्द्।
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ ॥२,१७।९अब्।
षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ॥२,१७।९च्द्।
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ ॥२,१७।१०अब्।
तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ ॥२,१७।१०च्द्।
यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥ ॥२,१७।११अब्।
कुण्डमण्डलपर्यन्तं तत्र कृत्वा यथा पुरा ॥ ॥२,१७।११च्द्।
द्विहस्तमानं कुर्वीत प्राच्यां कलशमण्डलम् ॥ ॥२,१७।१२अब्।
ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ ॥२,१७।१२च्द्।
प्रविश्य मण्डलं शम्भोः पूजां पूर्ववदाचरेत् ॥ ॥२,१७।१३अब्।
तत्राढकावरैस्सिद्धं तन्दुलैः पायसं प्रभोः ॥ ॥२,१७।१३च्द्।
अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ ॥२,१७।१४अब्।
पुरतः कल्पिते वाथ मण्डले वर्णिमण्डिते ॥ ॥२,१७।१४च्द्।
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥ ॥२,१७।१५अब्।
तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ ॥२,१७।१५च्द्।
नम आद्यैर्यकरान्तैः कल्पयेत्कल्पवित्तमः ॥ ॥२,१७।१६अब्।
ईशानं मध्यमे कुम्भे पुरुषं पुरतः स्थिते ॥ ॥२,१७।१६च्द्।
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ॥ ॥२,१७।१७अब्।
रक्षां विधाय मुद्रा च बद्ध्वा कुम्भाभिमन्त्रणम् ॥ ॥२,१७।१७च्द्।
कृत्वा शिवानलैर्होमं प्रारभेत् यथा पुरा ॥ ॥२,१७।१८अब्।
यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ ॥२,१७।१८च्द्।
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ॥ ॥२,१७।१९अब्।
तर्पणान्तं च मन्त्राणां कृत्वा कर्म यथा पुरा ॥ ॥२,१७।१९च्द्।
हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ॥ ॥२,१७।२०अब्।
ओङ्कारादनु हुङ्कारं ततो मूलं फडन्तकम् ॥ ॥२,१७।२०च्द्।
स्वाहान्तं दीपने प्राहुरङ्गानि च यथाक्रमम् ॥ ॥२,१७।२१अब्।
तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ ॥२,१७।२१च्द्।
मन्त्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ॥ ॥२,१७।२२अब्।
त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम् ॥ ॥२,१७।२२च्द्।
सूत्रं सूत्रेण सम्मन्त्र्य शिखाग्रे बन्धयेच्छिशोः ॥ ॥२,१७।२३अब्।
चरणाङ्गुष्ठपर्यन्तमूर्ध्वकायस्य तिष्ठतः ॥ ॥२,१७।२३च्द्।
लम्बयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ॥ ॥२,१७।२४अब्।
शान्तया मुद्रयादाय मूलमन्त्रेण मन्त्रवित् ॥ ॥२,१७।२४च्द्।
हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ॥ ॥२,१७।२५अब्।
हृदि सन्ताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ ॥२,१७।२५च्द्।
५६५ब्
चैतन्यं समुपादाय द्वादशान्ते निवेद्य च ॥ ॥२,१७।२६अब्।
सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ ॥२,१७।२६च्द्।
अवगुण्ठ्याथ तत्सूत्रं शिष्यदेहं विचिन्तयेत् ॥ ॥२,१७।२७अब्।
मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ ॥२,१७।२७च्द्।
विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ ॥२,१७।२८अब्।
व्योमादिभूतरूपिण्यः शान्त्यतीतादयः कलाः ॥ ॥२,१७।२८च्द्।
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ ॥२,१७।२९अब्।
अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ ॥२,१७।२९च्द्।
ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ ॥२,१७।३०अब्।
कलाव्याप्तिं मलादौ च हुत्वा सन्दीपयेत्कलाः ॥ ॥२,१७।३०च्द्।
शिष्यं शिरसि सन्ताड्य सूत्रं देहे यथाक्रमम् ॥ ॥२,१७।३१अब्।
शान्त्यतीतपदे सूत्रं लाञ्छयेन्मन्त्रमुच्चरन् ॥ ॥२,१७।३१च्द्।
एवं कृत्वा निवृत्त्यन्तं शान्त्यतीतमनुक्रमात् ॥ ॥२,१७।३२अब्।
हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ॥२,१७।३२च्द्।
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ ॥२,१७।३३अब्।
सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ॥२,१७।३३च्द्।
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ ॥२,१७।३४अब्।
भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ॥२,१७।३४च्द्।
अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥ ॥२,१७।३५अब्।
सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ॥२,१७।३५च्द्।
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ॥ ॥२,१७।३६अब्।
प्रदद्याद्दन्तपवनं यथाशास्त्रोक्तलक्षणम् ॥ ॥२,१७।३६च्द्।
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ॥ ॥२,१७।३७अब्।
वाचं नियम्य चासीनश्शिष्यो दन्तान्विशोधयेत् ॥ ॥२,१७।३७च्द्।
प्रक्षाल्य दन्तपवनं त्यक्त्वाचम्य शिवं स्मरेत् ॥ ॥२,१७।३८अब्।
प्रविशेद्देशिकादिष्टः प्राञ्जलिः शिवमण्डलम् ॥ ॥२,१७।३८च्द्।
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ॥ ॥२,१७।३९अब्।
प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ ॥२,१७।३९च्द्।
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशान्तये ॥ ॥२,१७।४०अब्।
शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः ॥ ॥२,१७।४०च्द्।
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ॥ ॥२,१७।४१अब्।
देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ ॥२,१७।४१च्द्।
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ॥ ॥२,१७।४२अब्।
मन्त्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि ॥ ॥२,१७।४२च्द्।
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ॥ ॥२,१७।४३अब्।
आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ ॥२,१७।४३च्द्।
रेखात्रयं च परितो भस्मना तिलसर्षपैः ॥ ॥२,१७।४४अब्।
कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत् ॥ ॥२,१७।४४च्द्।
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ॥ ॥२,१७।४५अब्।
प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ ॥२,१७।४५च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः
५६६अ