उपमन्युरुवाच
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥ ॥२,१६।१अब्।
देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ ॥२,१६।१च्द्।
परीक्ष्य भूमिं विधिवद्गन्धवर्णरसादिभिः ॥ ॥२,१६।२अब्।
शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ ॥२,१६।२च्द्।
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥ ॥२,१६।३अब्।
अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ॥२,१६।३च्द्।
प्रधानकुण्डं कुर्वीत यद्वा पश्चिमभागतः ॥ ॥२,१६।४अब्।
प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ॥२,१६।४च्द्।
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥ ॥२,१६।५अब्।
वेदिमध्ये ततः कुर्यान्मण्डलं शुभलक्षणम् ॥ ॥२,१६।५च्द्।
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥ ॥२,१६।६अब्।
सिन्दूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ॥२,१६।६च्द्।
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥ ॥२,१६।७अब्।
एकहस्तस्य पद्मस्य कर्णिकाष्टाङ्गुला मता ॥ ॥२,१६।७च्द्।
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥ ॥२,१६।८अब्।
द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ॥२,१६।८च्द्।
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥ ॥२,१६।९अब्।
एकहस्तं तदर्धं वा पुनर्वेद्यः तु मण्डलम् ॥ ॥२,१६।९च्द्।
व्रीहितन्दुलसिद्धार्थतिलपुष्पकुशास्तृते ॥ ॥२,१६।१०अब्।
तत्र लक्षणसंयुक्तं शिवकुम्भं प्रसाधयेत् ॥ ॥२,१६।१०च्द्।
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥ ॥२,१६।११अब्।
गन्धपुष्पाक्षताकीर्णं कुशदूर्वाङ्कुराचितम् ॥ ॥२,१६।११च्द्।
सितसूत्रावृतं कण्ठे नववस्त्रयुगावृतम् ॥ ॥२,१६।१२अब्।
शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ ॥२,१६।१२च्द्।
भृङ्गारं वर्धनीं चापि शङ्खं च चक्रमेव वा ॥ ॥२,१६।१३अब्।
विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ ॥२,१६।१३च्द्।
तस्यासनारविन्दस्य कल्पयेदुत्तरे दले ॥ ॥२,१६।१४अब्।
अग्रतश्चन्दनाम्भोभिरस्त्रराजस्य वर्धनीम् ॥ ॥२,१६।१४च्द्।
मण्डलस्य ततः प्राच्यां मन्त्रकुम्भे च पूर्ववत् ॥ ॥२,१६।१५अब्।
कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ ॥२,१६।१५च्द्।
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥ ॥२,१६।१६अब्।
देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ ॥२,१६।१६च्द्।
कृत्वा पूर्वोदितं सर्वं विना वा मण्डपादिकम् ॥ ॥२,१६।१७अब्।
मण्डलं पूर्ववत्कृत्वा स्थण्डिलं च विभावसोः ॥ ॥२,१६।१७च्द्।
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥ ॥२,१६।१८अब्।
सर्वमङ्गलसंयुक्तः समाचरितनैत्यकः ॥ ॥२,१६।१८च्द्।
५६३ब्
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥ ॥२,१६।१९अब्।
शिवकुम्भे तथा भूयः शिवमावाह्य पूजयेत् ॥ ॥२,१६।१९च्द्।
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥ ॥२,१६।२०अब्।
अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥ ॥२,१६।२०च्द्।
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥ ॥२,१६।२१अब्।
कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ ॥२,१६।२१च्द्।
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥ ॥२,१६।२२अब्।
प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ ॥२,१६।२२च्द्।
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥ ॥२,१६।२३अब्।
प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ ॥२,१६।२३च्द्।
स्वाध्यायमपरे कुर्युः स्तोत्रं मङ्गलवाचनम् ॥ ॥२,१६।२४अब्।
जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ ॥२,१६।२४च्द्।
नृत्यं गीतं च वाद्यं च मङ्गलान्यपराणि च ॥ ॥२,१६।२५अब्।
पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ ॥२,१६।२५च्द्।
पुण्याहं कारयित्वाथ पुनः सम्पूज्य शङ्करम् ॥ ॥२,१६।२६अब्।
प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ ॥२,१६।२६च्द्।
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥ ॥२,१६।२७अब्।
विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ ॥२,१६।२७च्द्।
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥ ॥२,१६।२८अब्।
आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ ॥२,१६।२८च्द्।
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥ ॥२,१६।२९अब्।
जपन्तं प्रणवं देवं ध्यायन्तं कृतमङ्गलम् ॥ ॥२,१६।२९च्द्।
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥ ॥२,१६।३०अब्।
दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ॥२,१६।३०च्द्।
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृताञ्जलिम् ॥ ॥२,१६।३१अब्।
सम्प्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥ ॥२,१६।३१च्द्।
पुष्पक्षेपेण सन्ताड्य बध्नीयाल्लोचनं गुरुः ॥ ॥२,१६।३२अब्।
दुकूलार्धेन वस्त्रेण मन्त्रितेन नवेन च ॥ ॥२,१६।३२च्द्।
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मण्डलम् ॥ ॥२,१६।३३अब्।
सो ऽपि तेनेरितः शम्भोराचरेत्त्रिः प्रदक्षिणम् ॥ ॥२,१६।३३च्द्।
ततस्सुवर्णसम्मिश्रं दत्त्वा पुष्पाञ्जलिं प्रभोः ॥ ॥२,१६।३४अब्।
प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दण्डवत्क्षितो ॥ ॥२,१६।३४च्द्।
ततस्सम्प्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥ ॥२,१६।३५अब्।
सन्ताड्य देशिकस्तस्य मोचयेन्नेत्रबन्धनम् ॥ ॥२,१६।३५च्द्।
स दृष्ट्वा मण्डलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥ ॥२,१६।३६अब्।
अथासीनं शिवाचार्यो मण्डलस्य तु दक्षिणे ॥ ॥२,१६।३६च्द्।
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥ ॥२,१६।३७अब्।
आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ॥२,१६।३७च्द्।
शिवतेजोमयं पाणिं शिवमन्त्रमुदीरयेत् ॥ ॥२,१६।३८अब्।
शिवाभिमानसम्पन्नो न्यसेच्छिष्यस्य मस्तके ॥ ॥२,१६।३८च्द्।
सर्वाङ्गालम्बनं चैव कुर्यात्तेनैव देशिकः ॥ ॥२,१६।३९अब्।
शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ ॥२,१६।३९च्द्।
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥ ॥२,१६।४०अब्।
हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ॥२,१६।४०च्द्।
५६४अ
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥ ॥२,१६।४१अब्।
नमस्कृत्य महादेवं नाडीसन्धानमाचरेत् ॥ ॥२,१६।४१च्द्।
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥ ॥२,१६।४२अब्।
शिष्यदेहप्रवेशं च स्मृत्वा मन्त्रांस्तु तर्पयेत् ॥ ॥२,१६।४२च्द्।
सन्तर्पणाय मूलस्य तेनैवाहुतयो दश ॥ ॥२,१६।४३अब्।
देयास्तिस्रस्तथाङ्गानामङ्गैरेव यथाक्रमम् ॥ ॥२,१६।४३च्द्।
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥ ॥२,१६।४४अब्।
पुनर्दशाहुतीन्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ ॥२,१६।४४च्द्।
पुनः सम्पूज्य देवेशं सम्यगाचम्य देशिकः ॥ ॥२,१६।४५अब्।
हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ॥२,१६।४५च्द्।
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥ ॥२,१६।४६अब्।
कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ॥२,१६।४६च्द्।
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥ ॥२,१६।४७अब्।
रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ॥२,१६।४७च्द्।
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥ ॥२,१६।४८अब्।
शिवात्मकमनुस्मृत्य स्फुरन्तं विस्फुलिङ्गवत् ॥ ॥२,१६।४८च्द्।
नाड्या यथोक्तया वायुं रेचयेन्मन्त्रतो गुरुः ॥ ॥२,१६।४९अब्।
निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ ॥२,१६।४९च्द्।
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥ ॥२,१६।५०अब्।
स्वतेजसापास्तमलं ज्वलन्तमनुचिन्तयेत् ॥ ॥२,१६।५०च्द्।
तमादाय तया नाड्या मन्त्री संहारमुद्रया ॥ ॥२,१६।५१अब्।
न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ॥२,१६।५१च्द्।
कुम्भकेन तथा नाड्या रेचकेन यथा पुरा ॥ ॥२,१६।५२अब्।
तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ ॥२,१६।५२च्द्।
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥ ॥२,१६।५३अब्।
हुत्वा ऽ ऽहुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ॥२,१६।५३च्द्।
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥ ॥२,१६।५४अब्।
कुशपुष्पपरिस्तीर्णे बद्धाञ्जलिरुदङ्मुखम् ॥ ॥२,१६।५४च्द्।
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥ ॥२,१६।५५अब्।
वरासनस्थितो मन्त्रैर्महामङ्गलनिःस्वनैः ॥ ॥२,१६।५५च्द्।
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥ ॥२,१६।५६अब्।
ध्यायमानः शिवं शिष्यमाभिषिञ्चेत देशिकः ॥ ॥२,१६।५६च्द्।
अथापनुद्य स्नानाम्बु परिधाय सिताम्बरम् ॥ ॥२,१६।५७अब्।
आचान्तोलङ्कृतश्शिष्यः प्राञ्जलिर्मण्डपं व्रजेत् ॥ ॥२,१६।५७च्द्।
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥ ॥२,१६।५८अब्।
सम्पूज्य मण्डलं देवं करन्यासं समाचरेत् ॥ ॥२,१६।५८च्द्।
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥ ॥२,१६।५९अब्।
समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ॥२,१६।५९च्द्।
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥ ॥२,१६।६०अब्।
सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ॥२,१६।६०च्द्।
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥ ॥२,१६।६१अब्।
तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ॥२,१६।६१च्द्।
प्रार्थयेत्प्राञ्जलिर्देवं नित्यमत्र स्थितो भव ॥ ॥२,१६।६२अब्।
इति विज्ञाप्य तं शम्भोस्तेजसा भासुरं स्मरेत् ॥ ॥२,१६।६२च्द्।
५६४ब्
सम्पूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥ ॥२,१६।६३अब्।
कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ॥२,१६।६३च्द्।
स तु बद्धाञ्जलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥ ॥२,१६।६४अब्।
शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ॥२,१६।६४च्द्।
ततः शाक्तं च सन्दिश्य मन्त्रं मन्त्रविचक्षणः ॥ ॥२,१६।६५अब्।
उच्चारयित्वा च सुखं तस्मै मङ्गलमादिशेत् ॥ ॥२,१६।६५च्द्।
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥ ॥२,१६।६६अब्।
समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ॥२,१६।६६च्द्।
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥ ॥२,१६।६७अब्।
भक्त्यैवमभिसन्धाय दीक्षावाक्यमुदीरयेत् ॥ ॥२,१६।६७च्द्।
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥ ॥२,१६।६८अब्।
न त्वनभ्यर्च्य भुञ्जीय भगवन्तं त्रिलोचनम् ॥ ॥२,१६।६८च्द्।
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥ ॥२,१६।६९अब्।
तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ॥२,१६।६९च्द्।
ततः स समयो नाम भविष्यति शिवाश्रमे ॥ ॥२,१६।७०अब्।
लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ॥२,१६।७०च्द्।
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥ ॥२,१६।७१अब्।
दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमन्त्रितम् ॥ ॥२,१६।७१च्द्।
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥ ॥२,१६।७२अब्।
पूजाहोमजपध्यानसाधनानि च सम्भवे ॥ ॥२,१६।७२च्द्।
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥ ॥२,१६।७३अब्।
आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ॥२,१६।७३च्द्।
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥ ॥२,१६।७४अब्।
रक्षयेत्पूजयेच्छम्भुं मठे वा गृह एववा ॥ ॥२,१६।७४च्द्।
अतः परं शिवाचारमादिशेदस्य देशिकः ॥ ॥२,१६।७५अब्।
भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ॥२,१६।७५च्द्।
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥ ॥२,१६।७६अब्।
शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ॥२,१६।७६च्द्।
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥ ॥२,१६।७७अब्।
देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ॥२,१६।७७च्द्।
इति सङ्क्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥ ॥२,१६।७८अब्।
साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ॥२,१६।७८च्द्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिष्यसंस्कारवर्णनं नाम षोडशो ऽध्यायः