१५ गुरुमाहात्म्यम्

श्रीकृष्ण उवाच
भगवान्मन्त्रमाहात्म्यं भवता कथितं प्रभो ॥ ॥२,१५।१अब्।
तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ ॥२,१५।१च्द्।
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ ॥२,१५।२अब्।
मन्त्रसङ्ग्रहणे किञ्चित्सूचितन्न तु विस्मृतम् ॥ ॥२,१५।२च्द्।
उपमन्युरुवाच
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ ॥२,१५।३अब्।
संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ ॥२,१५।३च्द्।
सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ ॥२,१५।४अब्।
संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ ॥२,१५।४च्द्।
दीयते येन विज्ञानं क्षीयते पाशबन्धनम् ॥ ॥२,१५।५अब्।
तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ ॥२,१५।५च्द्।
शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे ॥ ॥२,१५।६अब्।
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ ॥२,१५।६च्द्।
गुरोरालोकमात्रेण स्पर्शात्सम्भाषणादपि ॥ ॥२,१५।७अब्।
सद्यस्सञ्ज्ञा भवेज्जन्तोः पाशोपक्षयकारिणी ॥ ॥२,१५।७च्द्।
सा दीक्षा शाम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ ॥२,१५।८अब्।
तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ ॥२,१५।८च्द्।
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ ॥२,१५।९अब्।
५६१ब्

तीव्रा तु जीवतोत्यन्तं पुंसः पापविशोधिका ॥ ॥२,१५।९च्द्।
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ ॥२,१५।१०अब्।
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ ॥२,१५।१०च्द्।
मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका ॥ ॥२,१५।११अब्।
मन्दमन्दतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ॥२,१५।११च्द्।
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ ॥२,१५।१२अब्।
शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ ॥२,१५।१२च्द्।
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ ॥२,१५।१३अब्।
न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ ॥२,१५।१३च्द्।
तस्माल्लिङ्गानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ॥२,१५।१४अब्।
ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ ॥२,१५।१४च्द्।
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ ॥२,१५।१५अब्।
तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ ॥२,१५।१५च्द्।
लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः ॥ ॥२,१५।१६अब्।
सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी ॥ ॥२,१५।१६च्द्।
आनन्दबोधयोर्लिङ्गमन्तःकरणविक्रियाः ॥ ॥२,१५।१७अब्।
यथा स्यात्कम्परोमाञ्चस्वरनेत्राङ्गविक्रियाः ॥ ॥२,१५।१७च्द्।
शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ ॥२,१५।१८अब्।
तत्सम्पर्कैः शिवार्चादौ सङ्गतैर्वाथ तद्गतैः ॥ ॥२,१५।१८च्द्।
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ ॥२,१५।१९अब्।
तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ ॥२,१५।१९च्द्।
यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ ॥२,१५।२०अब्।
गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ ॥२,१५।२०च्द्।
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ ॥२,१५।२१अब्।
शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ ॥२,१५।२१च्द्।
सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः ॥ ॥२,१५।२२अब्।
तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ ॥२,१५।२२च्द्।
श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लङ्घयेत् ॥ ॥२,१५।२३अब्।
गुर्वाज्ञापालको यस्माज्ज्ञानसम्पत्तिमश्नुते ॥ ॥२,१५।२३च्द्।
गच्छंस्तिष्ठन्स्वपन्भुञ्जन्नान्यत्कर्म समाचरेत् ॥ ॥२,१५।२४अब्।
समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ ॥२,१५।२४च्द्।
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ ॥२,१५।२५अब्।
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ ॥२,१५।२५च्द्।
पापिनां च यथा सङ्गात्तत्पापात्पतितो भवेत् ॥ ॥२,१५।२६अब्।
यथेह वह्निसम्पर्कान्मलं त्यजति काञ्चनम् ॥ ॥२,१५।२६च्द्।
तथैव गुरुसम्पर्कात्पापं त्यजति मानवः ॥ ॥२,१५।२७अब्।
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ ॥२,१५।२७च्द्।
तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ ॥२,१५।२८अब्।
यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ ॥२,१५।२८च्द्।
तथायमपि सन्तुष्टो गुरुः पापं क्षणाद्दहेत् ॥ ॥२,१५।२९अब्।
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ ॥२,१५।२९च्द्।
तस्य क्रोधेन दह्यन्ते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ ॥२,१५।३०अब्।
तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ॥२,१५।३०च्द्।
५६२अ

यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥ ॥२,१५।३१अब्।
गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ ॥२,१५।३१च्द्।
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ ॥२,१५।३२अब्।
मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ ॥२,१५।३२च्द्।
श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ ॥२,१५।३३अब्।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ ॥२,१५।३३च्द्।
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ ॥२,१५।३४अब्।
इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ ॥२,१५।३४च्द्।
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ ॥२,१५।३५अब्।
गुरुश्चेद्गुणवान्प्राज्ञः परमानन्दभासकः ॥ ॥२,१५।३५च्द्।
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ ॥२,१५।३६अब्।
संवित्सञ्जननं तत्त्वं परमानन्दसम्भवम् ॥ ॥२,१५।३६च्द्।
तत्तत्त्वं विदितं येन स एवानन्ददर्शकः ॥ ॥२,१५।३७अब्।
न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ ॥२,१५।३७च्द्।
अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ ॥२,१५।३८अब्।
एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ ॥२,१५।३८च्द्।
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ ॥२,१५।३९अब्।
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ ॥२,१५।३९च्द्।
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ ॥२,१५।४०अब्।
पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ ॥२,१५।४०च्द्।
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ ॥२,१५।४१अब्।
सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ॥२,१५।४१च्द्।
सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ ॥२,१५।४२अब्।
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ॥ ॥२,१५।४२च्द्।
तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ ॥२,१५।४३अब्।
तस्माद्यस्यैव सम्पर्कात्प्रबोधानन्दसम्भवः ॥ ॥२,१५।४३च्द्।
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ ॥२,१५।४४अब्।
स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ॥२,१५।४४च्द्।
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ॥२,१५।४५अब्।
ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ॥२,१५।४५च्द्।
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथञ्चन ॥ ॥२,१५।४६अब्।
यत्रानन्दः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ ॥२,१५।४६च्द्।
वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ ॥२,१५।४७अब्।
गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ ॥२,१५।४७च्द्।
गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ ॥२,१५।४७एफ़्।
तत्रादावुपसङ्गम्य ब्राह्मणं वेदपारगम् ॥ ॥२,१५।४८अब्।
गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ ॥२,१५।४८च्द्।
सर्वाभयप्रदातारं करुणाक्रान्तमानसम् ॥ ॥२,१५।४९अब्।
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ ॥२,१५।४९च्द्।
तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ ॥२,१५।५०अब्।
तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ ॥२,१५।५०च्द्।
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ ॥२,१५।५१अब्।
भूषणानि च वासांसि यानशय्यासनानि च ॥ ॥२,१५।५१च्द्।
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ ॥२,१५।५२अब्।
५६२ब्

वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ ॥२,१५।५२च्द्।
स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ ॥२,१५।५३अब्।
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ ॥२,१५।५३च्द्।
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ ॥२,१५।५४अब्।
समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ ॥२,१५।५४च्द्।
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ ॥२,१५।५५अब्।
तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ ॥२,१५।५५च्द्।
गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ ॥२,१५।५६अब्।
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ ॥२,१५।५६च्द्।
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ ॥२,१५।५७अब्।
उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ ॥२,१५।५७च्द्।
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ ॥२,१५।५८अब्।
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ ॥२,१५।५८च्द्।
अहिंसका दयावन्तो नित्यमुद्युक्तचेतसः ॥ ॥२,१५।५९अब्।
अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धाः प्रियंवदाः ॥ ॥२,१५।५९च्द्।
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ ॥२,१५।६०अब्।
शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ ॥२,१५।६०च्द्।
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ ॥२,१५।६१अब्।
शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ ॥२,१५।६१च्द्।
नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥ ॥२,१५।६२अब्।
नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ ॥२,१५।६२च्द्।
तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ ॥२,१५।६३अब्।
अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ ॥२,१५।६३च्द्।
शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ ॥२,१५।६३एफ़्।
तथा सङ्करजातीनां नाध्वशुद्धिर्विधीयते ॥ ॥२,१५।६४अब्।
तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ ॥२,१५।६४च्द्।
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ ॥२,१५।६५अब्।
अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ ॥२,१५।६५च्द्।
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ ॥२,१५।६६अब्।
या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ ॥२,१५।६६च्द्।
सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ ॥२,१५।६७अब्।
दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ ॥२,१५।६७च्द्।
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ ॥२,१५।६८अब्।
यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ ॥२,१५।६८च्द्।
कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ ॥२,१५।६९अब्।
यथा नारायणं देवं तपसाराध्य पाण्डवान् ॥ ॥२,१५।६९च्द्।
पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ ॥२,१५।७०अब्।
अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ ॥२,१५।७०च्द्।
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ ॥२,१५।७१अब्।
बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ ॥२,१५।७१च्द्।
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ ॥२,१५।७२अब्।
गुरोरालोकनादेव स्पर्शात्सम्भाषणादपि ॥ ॥२,१५।७२च्द्।
५६३अ

यस्य सञ्जायते प्रज्ञा तस्य नास्ति पराजयः ॥ ॥२,१५।७३अब्।
मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ ॥२,१५।७३च्द्।
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ ॥२,१५।७४अब्।
क्रियावान्यस्तु संस्कारः कुण्डमण्डपपूर्वकः ॥ ॥२,१५।७४च्द्।
स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ ॥२,१५।७४एफ़्।
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः