ईश्वर उवाच
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥ ॥२,१४।१अब्।
आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ॥२,१४।१च्द्।
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥ ॥२,१४।२अब्।
एवं चेद्दक्षिणायुक्तं मन्त्रसिद्धिर्महत्फलम् ॥ ॥२,१४।२च्द्।
५५९ब्
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥ ॥२,१४।३अब्।
जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ॥२,१४।३च्द्।
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥ ॥२,१४।४अब्।
वाचा च मनसा चैव कायेन द्रविणेन च ॥ ॥२,१४।४च्द्।
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥ ॥२,१४।५अब्।
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ॥२,१४।५च्द्।
भूषणानि च वासांसि धान्यानि च धनानि च ॥ ॥२,१४।६अब्।
एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ॥२,१४।६च्द्।
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥ ॥२,१४।७अब्।
पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ॥२,१४।७च्द्।
एवं सम्पूज्य विधिवद्यथाशक्तित्ववञ्चयन् ॥ ॥२,१४।८अब्।
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु ॥ ॥२,१४।८च्द्।
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥ ॥२,१४।९अब्।
शुश्रूषुमनहङ्कारं स्नातं शुचिमुपोषितम् ॥ ॥२,१४।९च्द्।
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुम्भघृतेन वै ॥ ॥२,१४।१०अब्।
जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ॥२,१४।१०च्द्।
अलङ्कृत्य सुवेषं च गन्धस्रग्वस्त्रभूषणैः ॥ ॥२,१४।११अब्।
पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ॥२,१४।११च्द्।
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥ ॥२,१४।१२अब्।
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ॥२,१४।१२च्द्।
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥ ॥२,१४।१३अब्।
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ॥२,१४।१३च्द्।
स्वरेणोच्चारयेत्सम्यगेकान्ते ऽतिप्रसन्नधीः ॥ ॥२,१४।१४अब्।
उच्चार्योच्चारयित्वा तमावयोर्मन्त्रमुत्तमम् ॥ ॥२,१४।१४च्द्।
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥ ॥२,१४।१५अब्।
एवं दद्याद्गुरुर्मन्त्रमाज्ञां चैव ततः परम् ॥ ॥२,१४।१५च्द्।
एवं लब्ध्वा गुरोर्मन्त्रमाज्ञां चैव समाहितः ॥ ॥२,१४।१६अब्।
सङ्कल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ॥२,१४।१६च्द्।
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥ ॥२,१४।१७अब्।
अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ॥२,१४।१७च्द्।
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥ ॥२,१४।१८अब्।
नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ॥२,१४।१८च्द्।
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥ ॥२,१४।१९अब्।
तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ॥२,१४।१९च्द्।
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥ ॥२,१४।२०अब्।
त्वया मां हृदि सञ्चिन्त्य सञ्चिन्त्य स्वगुरुं ततः ॥ ॥२,१४।२०च्द्।
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥ ॥२,१४।२१अब्।
विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ॥२,१४।२१च्द्।
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥ ॥२,१४।२२अब्।
आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ॥२,१४।२२च्द्।
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥ ॥२,१४।२३अब्।
बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ॥२,१४।२३च्द्।
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥ ॥२,१४।२४अब्।
अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ॥२,१४।२४च्द्।
५६०अ
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥ ॥२,१४।२५अब्।
अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ॥२,१४।२५च्द्।
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥ ॥२,१४।२६अब्।
मन्त्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ॥२,१४।२६च्द्।
जिह्वामात्रपरिस्पन्दादीषदुच्चारितो ऽपि वा ॥ ॥२,१४।२७अब्।
अपरैरश्रुतः किञ्चिच्छ्रुतो वोपांशुरुच्यते ॥ ॥२,१४।२७च्द्।
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥ ॥२,१४।२८अब्।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः ॥ ॥२,१४।२८च्द्।
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥ ॥२,१४।२९अब्।
साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ॥२,१४।२९च्द्।
प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥ ॥२,१४।३०अब्।
आद्यन्तयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ॥२,१४।३०च्द्।
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥ ॥२,१४।३१अब्।
मन्त्रं मन्त्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ॥२,१४।३१च्द्।
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥ ॥२,१४।३२अब्।
अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ॥२,१४।३२च्द्।
सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥ ॥२,१४।३३अब्।
एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ॥२,१४।३३च्द्।
अङ्गुल्या जपसङ्ख्यानमेकमेवमुदाहृतम् ॥ ॥२,१४।३४अब्।
रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ॥२,१४।३४च्द्।
शतं स्याच्छङ्खमणिभिः प्रवालैस्तु सहस्रकम् ॥ ॥२,१४।३५अब्।
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ॥२,१४।३५च्द्।
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥ ॥२,१४।३६अब्।
कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं भवेत् ॥ ॥२,१४।३६च्द्।
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥ ॥२,१४।३७अब्।
सप्तविंशतिसङ्ख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ॥२,१४।३७च्द्।
पञ्चविंशतिसङ्ख्यातैः कृता मुक्तिं प्रयच्छति ॥ ॥२,१४।३८अब्।
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ॥२,१४।३८च्द्।
अङ्गुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥ ॥२,१४।३९अब्।
मध्यमां धनदां शान्तिं करोत्येषा ह्यनामिका ॥ ॥२,१४।३९च्द्।
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥ ॥२,१४।४०अब्।
शतसङ्ख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ॥२,१४।४०च्द्।
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥ ॥२,१४।४१अब्।
इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ॥२,१४।४१च्द्।
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥ ॥२,१४।४२अब्।
अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिस्सह ॥ ॥२,१४।४२च्द्।
अङ्गुष्ठेन विना जप्यं कृतं तदफलं यतः ॥ ॥२,१४।४३अब्।
गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ॥२,१४।४३च्द्।
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥ ॥२,१४।४४अब्।
अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ॥२,१४।४४च्द्।
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥ ॥२,१४।४५अब्।
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ॥ ॥२,१४।४५च्द्।
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥ ॥२,१४।४६अब्।
५६०ब्
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ॥२,१४।४६च्द्।
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥ ॥२,१४।४७अब्।
सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ॥२,१४।४७च्द्।
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥ ॥२,१४।४८अब्।
उष्णीषी कुञ्चुकी नम्रो मुक्तकेशो गलावृतः ॥ ॥२,१४।४८च्द्।
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥ ॥२,१४।४९अब्।
क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृम्भणे ॥ ॥२,१४।४९च्द्।
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥ ॥२,१४।५०अब्।
आचमेत्सम्भवे तेषां स्मरेद्वा मां त्वया सह ॥ ॥२,१४।५०च्द्।
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥ ॥२,१४।५१अब्।
अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ॥२,१४।५१च्द्।
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥ ॥२,१४।५२अब्।
प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ॥२,१४।५२च्द्।
यानशय्याधिरूढो वा चिन्ताव्याकुलितो ऽथ वा ॥ ॥२,१४।५३अब्।
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ॥२,१४।५३च्द्।
किमत्र बहुनोक्तेन समासेन वचः शृणु ॥ ॥२,१४।५४अब्।
सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ॥२,१४।५४च्द्।
आचारः परमो धर्म आचारः परमं धनं ॥ ॥२,१४।५५अब्।
आचारः परमा विद्या आचारः परमा गतिः ॥ ॥२,१४।५५च्द्।
आचारहीनः पुरुषो लोके भवति निन्दितः ॥ ॥२,१४।५६अब्।
परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ॥२,१४।५६च्द्।
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥ ॥२,१४।५७अब्।
तस्य तेन समाचारः सदाचारो न चेतरः ॥ ॥२,१४।५७च्द्।
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥ ॥२,१४।५८अब्।
सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ॥२,१४।५८च्द्।
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥ ॥२,१४।५९अब्।
न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ॥२,१४।५९च्द्।
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥ ॥२,१४।६०अब्।
तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ॥२,१४।६०च्द्।
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥ ॥२,१४।६१अब्।
न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ॥२,१४।६१च्द्।
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥ ॥२,१४।६२अब्।
पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ॥२,१४।६२च्द्।
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥ ॥२,१४।६३अब्।
अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ॥२,१४।६३च्द्।
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥ ॥२,१४।६४अब्।
अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ॥२,१४।६४च्द्।
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥ ॥२,१४।६५अब्।
निर्मर्यादस्य नीचस्य मन्त्रो ऽयं न च निष्फलः ॥ ॥२,१४।६५च्द्।
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥ ॥२,१४।६६अब्।
सिध्यत्येव न सन्देहो नापरस्य तु कस्यचित् ॥ ॥२,१४।६६च्द्।
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥ ॥२,१४।६७अब्।
अस्यात्यन्तमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ॥२,१४।६७च्द्।
५६१अ
न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥ ॥२,१४।६८अब्।
सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ॥२,१४।६८च्द्।
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥ ॥२,१४।६९अब्।
असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ॥२,१४।६९च्द्।
असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥ ॥२,१४।७०अब्।
श्रद्धातिशययुक्तस्य मयि मन्त्रे तथा गुरौ ॥ ॥२,१४।७०च्द्।
तस्मान्मन्त्रान्तरांस्त्यक्त्वा सापायान् १अधिकारतः ॥ ॥२,१४।७१अब्।
आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ॥२,१४।७१च्द्।
मन्त्रान्तरेषु सिद्धेषु मन्त्र एष न सिध्यति ॥ ॥२,१४।७२अब्।
सिद्धे त्वस्मिन्महामन्त्रे ते च सिद्धा भवन्त्युत ॥ ॥२,१४।७२च्द्।
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥ ॥२,१४।७३अब्।
मयि लब्धे तु ते लब्धा मन्त्रेष्वेषु समो विधिः ॥ ॥२,१४।७३च्द्।
ये दोषास्सर्वमन्त्राणां न ते ऽस्मिन्सम्भवन्त्यपि ॥ ॥२,१४।७४अब्।
अस्य मन्त्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ॥२,१४।७४च्द्।
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥ ॥२,१४।७५अब्।
सहसा विनियुञ्जीत तस्मादेष महाबलः ॥ ॥२,१४।७५च्द्।
उपमन्युरुवाच
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥ ॥२,१४।७६अब्।
हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ॥२,१४।७६च्द्।
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥ ॥२,१४।७७अब्।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ॥२,१४।७७च्द्।
१ नाशयुक्तानित्यर्थः
ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः